TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
त्रयोदशोऽध्यायः

कूर्मपुराणः - त्रयोदशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


त्रयोदशोऽध्यायः

ब्रह्मचारीके नित्यकर्मकी विधि, आचमनका विधान, हाथोंमें स्थित तीर्थ, उच्छिष्ट, होनेपर शुद्धिकी प्रक्रिया, मुत्र पुरीषोत्सर्गके नियम

व्यास उवाच

भुक्त्वा पीतवा च सुप्त्वा च स्नात्वा रथ्योपसर्पणे ।

ओष्ठावलोमकौ स्पृष्टा वासो विपरिधाय च ॥१॥

रेतोमुत्रपुरीषाणामुत्सर्गेऽयुक्तभाषणे ।

ष्ठीवित्वाध्ययनारम्भे कासश्वासागमे तथा ॥२॥

चत्वरं वा श्मशानं वा समाक्रम्य द्विजोत्तमः ।

संध्ययोग्रु भरोस्तद्वदाचान्तोऽप्याचमेत पुनः ॥३॥

चण्डालम्लेच्छसम्भाषे स्त्रीशुद्रोद्च्छिष्टभाषणे ।

उच्छिष्टं पुरुषं स्पष्टा भोज्यं चापि तथाविधम ।

आचमेदश्रुपाते व लोहितस्य तथैव च ॥४॥

भोजने संध्ययोःस्त्रात्वा पीत्वा मूत्रपुरीषयोः ।

आचान्तोऽप्याचमेत सुप्त्वा सकृत्सकृदथान्यतः ॥५॥

अग्नेर्गवमथालम्भे स्पष्टा प्रयतमेव वा ।

स्वीणामथात्मनः स्पर्शे नीर्वी वा परिधय च ॥६॥

उपस्पृशेज्जलं वार्द्रं तृणं व भुमिमेव वा ।

केशानां चात्मनः स्पर्शे वाससोऽक्षालितस्य च ॥७॥

अनुष्णाभिरफेनाभिरदृष्टभिश्च धर्मतह ।

शौचेप्सुः सर्वदाचमेदासीनः प्रागुदंमुखः ॥८॥

शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखोऽपि वा ।

अकृत्वा पादयोः शौचमाचन्तोऽप्यशुचिर्भवेत ॥९॥

सोपानत्को जलस्थो व नौष्णीषी वाचमेद बुधः ।

न चैव वर्षधाराभिर्नं तिष्ठन नोद्धतोदकैह ॥१०॥

नैकहस्तार्पितजलैर्विना सुत्रेण वा पुनः ।

न पादुकासनस्थो वा बहिर्जानुरथापि वा ॥११॥

न जल्पन ह हसन प्रेक्षन शयानः प्रह्व एव च ।

नवीक्षिताभिः फेनाद्यैरुपेताभिरथापि वा ॥१२॥

शुद्राशुचिकरोन्मुक्तैर्न क्षाराभिस्तथैव च ।

न चैवाड्गुलिभिः शब्दं न कुर्वन नान्यमानसः ॥१३॥

न वर्णरसदृष्टभिर्न चैव प्रदरोदकैः ।

नपाणिक्षुभिताभिर्वा न बहिष्कक्षः एव वा ॥१४॥

हृदयाभिःपुयतो विप्रः कण्ठ्याभिः क्षत्रियः शुचिः ।

प्राशेताभिस्तथा वैश्यः स्त्रीशुद्रौ स्पर्शतोऽन्ततः ॥१५॥

अंगुष्ठामुलान्तरतो रेखायां ब्राह्ममुच्यते ।

अन्तरांगुश्ठदेशिन्यो पितृणां तीर्थमुत्तमम ॥१६॥

कनिष्ठामुलतः पश्चात प्राजापत्यं प्रचक्षते ।

अंगुल्यग्रे स्मृतं दैवं तदेवार्षं प्रकीर्तितम ॥१७॥

मुले वा दैवमार्षं स्यादाग्नेयं मध्यतः स्मृतम ।

तदेव समिमिकं तीर्थमेतज्ञात्वा न मुह्याति ॥१८॥

ब्राहोणैव तु तीर्थन द्विजो नित्यमुपस्पृशेत ।

कायेन वाथ दैवेन न तु पित्र्येण वै द्विजाः ॥१९॥

त्रिः प्राश्नीयादपः पुर्वं ब्राह्मणः प्रयतस्ततः ।

सम्मुज्यागंगुष्ठमुलेन मुखं वे समुपस्पृशेत ॥२०॥

अंगगुष्ठानामिकाभ्य्यां तु स्पृशेन्नेत्रद्वयं ततः ।

तर्जन्यगौष्ठयोगेन स्पृशेन्नासापुटद्वयम ॥२१॥

कनिष्ठागुष्ठयोगेन श्रवणे समुपस्पृशेत ।

सर्वासामथ योगेन हृदयं तलेन वा ।

संस्पृशेद वा श्रस्तद्वदंगुष्ठेनाथवा द्वयम ॥२२॥

त्रिः प्राश्‍नीयाद यदम्भसुत सुप्रीतास्तेन देवताः ।

ब्रह्मा विष्णुर्महेशश्च भवन्तीत्यनुशुश्रुम ॥२३॥

गंगा च यमुना चैव प्रीयेते परिमर्जनात ।

संस्पृष्टयोर्लोचनयोः प्रीयेते शशिभास्करौ ॥२४॥

नासत्यदस्त्रौ प्रीयेते स्पृष्टे नासापुटद्वये ।

कर्णयोः स्पृष्टयोस्तद्वत प्रीयेत चानिलानलौ ॥२५॥

संस्पृष्टे हॄदये चास्य प्रीयन्ते सर्वदेवताः।

मूर्ध्निअ संस्पर्शनादेकः प्रीतः स पुरुषो भवेत ॥२६॥

नोच्छिष्टं कुर्वते मुख्या विप्रुषोऽग नयन्ति याः ।

दन्तवद दन्तलग्नेषु जिह्वास्पर्शऽशुचिर्भवेत ॥२७॥

स्पृशन्ति बिन्दवः पादौ य आचामयतः परान ।

भूमिगैस्ते समा ज्ञेया न तैरप्रयतो भवेत ॥२८॥

मधुपर्के च सोमे च ताम्बूलस्य च भक्षणे ।

फलमुले चेक्षुद्ण्डे न दोषं प्राह वै मनुः ॥२९॥

प्रचरं श्चान्नपानेषु द्रव्यहस्तो भवेन्नरः ।

भूमौ निक्षिप्य तद द्रव्याचम्याभ्युक्षयेत तु तत ॥३०॥

तैजसं वै सामादाय यदुच्छिष्टो भवेद द्विजः ।

भूमौ निक्षिप्य तद द्रव्यामाचम्याभ्युक्षयेत तु तत ॥३१॥

यद्यमत्रं समादायं भवेद्च्छेषणान्वितः ।

अनिधायैव तद द्रव्यामाचान्तः शुचितामियात ।

वस्त्रादिषु विकल्पः स्यात तत्संस्पृष्टाचमेदिह ॥३२॥

अरण्येऽनुदके रात्रौ चौरव्याघ्राकुले पथि ।

कुत्व मुत्रं परिषं वा द्रव्यहस्तो न दुष्यति ॥३३॥

निधाय दक्षिणेकर्णे ब्रह्मासुत्रमुदंमुखः ।

अह्नि कुर्याच्छकृन्मूत्रं रात्रौ चेद दक्षिणामुखः ॥३४॥

अन्तर्धाय महीं काष्ठैः पत्रैर्लोष्ठतृनेन वा ।

प्रावृत्य च शिरः कुर्याद विण्मुत्रस्य विसर्जनम ॥३५॥

छायाकूपनदीगोष्ठचैत्याम्भः पथि भस्मसु ।

अग्नौ चैव श्मशाने च विण्मुखे च समाचरेत ॥३६॥

न गोमये न कृष्टे वा महावृक्षे न शाड्वले ।

न तिष्ठन न निर्वासा न च पर्वतमस्तके ॥३७॥

न जीर्णदेवायतने न वल्मीके कदाचन ।

न ससत्वेषु गर्तेषु न गच्छन वा समाचरेत ॥३८॥

तुषागंराकपालेषु राजमार्गे तथैव च ।

न क्षेत्रे न विले वापि न तीर्थ न चतुष्पथे ॥३९॥

नोद्यानोदसमीपे वा नोषरे न पराशुचौ ।

न सोपानत्पादुको व छत्री वा नान्तरिक्षके ॥४०॥

न चैवाभिमुखे स्त्रीणां गुरुब्राह्मणयोर्गवाम ।

न देवदेवालययोरपामापि कदाचन ।४१॥

न ज्योतिषिंक निरीक्षन न संध्याभिमुखोऽपि वा ।

प्रत्यादित्यं प्रत्यनलं प्रतिसोमं तथैव च ॥४२॥

आहृत्यः मृत्तिकां कुलाल्लेपगन्धापकर्षणम ।

कुर्यादतन्द्रित शौअं विशुद्धैरुद्धतोदकैः ॥४३॥

नाहरेन्मृत्तिका विप्रः पांशुलान्न च कर्दमात ।

न मार्गान्नोषराद देशाच्छौचशिष्टा परस्य च ॥४४॥

न देवायतनात कूपाद ग्रामान्न च जलात तथा ।

उपस्पृशेत ततो नित्यं पुर्वोक्तेन विधानतः ॥४५॥

इति श्रीकूर्मपुराणे षटसाहस्रयां संहितायामुपरिविभागे त्रयोदशोऽध्यायः ॥१३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2010-04-17T02:03:34.7330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

हत्ती वाळला म्हणून त्यास गोठ्यांत बांधू नये

  • एकाद्या थोर व्यक्तीस वाईट दिवस येऊन तिचें महत्त्व कमी झालें तरी तिला कःपदार्थ मानणें योग्य नव्हे. -सह्याद्रीच्या पायथ्याशीं ३१५.. 
RANDOM WORD

Did you know?

वारी म्हणजे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.