संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
षोडशोऽध्यायः

कूर्मपुराणः - षोडशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


व्यास उवाच

न हिंस्यात सर्वभुतानि नानृतं वा वदेत क्वचित ।

नाहिंत नाप्रियं वाक्यं न स्तेनः स्याद कदाचन ॥१॥

तृणं वा यदि वा शाकं मृदं वा जलमेव वा ।

परस्यापहरत्र्जन्तुर्नरकं प्रतिपद्यते ॥२॥

न राज्ञः प्रतिगृह्नीयान्न शुद्रपतितादपि ।

न चान्यस्मादशक्तश्च निन्दितान वर्जयेद बुध ॥३॥

नित्यं याचनको न स्यात पुनस्तं नैव याचयेत ।

प्राणानपहरत्येवं यचकस्तस्य दुर्मतिः ॥४॥

न देवद्रव्यहारी स्याद विशेषेण द्विजोत्तमः ।

ब्रह्मास्वं व नपहरेदापद्यपि कदाचन ॥५॥

न विषं विषमित्याहुर्ब्रह्यास्वं विषमुच्यते ।

देवस्व चापि यत्नेन सदा परिहरेत ततः ॥६॥

पुष्पे शाकोदके काष्ठे तथा मुले फले तृणे ।

अदत्तादानमस्तेयं मनुः प्राह प्रजपतिः ॥७॥

ग्रहीतव्यानि पुष्पाणि देवार्चनविधौ द्विजाः ।

नैकस्मादेव नियतमननुज्ञाय केवलम ॥८॥

तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेद बुधः ।

धर्मार्थं केवलं विप्रा ह्रान्यथा पतितो भवेत ॥९॥

तिलमुदगयवादीनां मुष्टिर्ग्राह्या पथि स्थितैः ।

क्षुधातैर्नान्यथा विप्रा धर्माविद्धिरिति स्थितिः ॥१०॥

न धर्मस्यापादेशेन पापं कृत्वा व्रतं चरेत ।

व्रतेन पापं प्रच्छाद्य कुर्वन स्त्रीशुद्रदम्भनम ॥११॥

प्रेत्येह चेदृशो विप्रो गर्ह्राते ब्रह्मावदिभिः ।

छद्मनादरितं यच्च व्रत रांक्षसि गच्छति ।

स लिंगिनां हरेदेनास्तिर्यग्योनौ च जयते ॥१३॥

बैडालव्रतिनः पापा लोकेक धर्मविनाशकाः ।

सद्यः पतन्ति पापेषु कर्मणस्तस्य तत फलम ॥१४॥

पाषण्डिनो विकर्मस्थान वामाचसरांस्तथैव च ।

पांचरात्रान पाशुपतान वांडमात्रेणापि नार्चयेत ॥१५॥

वेदनिन्दारतान मर्त्यान देवनिन्दारतांस्तथा ।

द्विजनिन्दारतांश्चैव मनसापि न चिन्तयेत ॥१६॥

याजनं योनिसम्बन्धं सहवासं च भाषणम ।

कुर्वाणः पतते जन्तुस्तस्माद यत्नेन वर्जयेत ॥१७॥

देवद्रोहाद गुरुद्रोहः कोटिकोटिगुणाधिकः ।

ज्ञानापवादो नास्तिक्यं तस्मात कोटिगुणाधिकम ॥१८॥

गोभिश्च दैवतैर्विप्रौः कृष्या राजोपसेवया ।

कुलान्यकुलतां यान्ति यानि हीनानि धर्मन्तः ॥१९॥

कुविवाहैह क्रियालोपैर्वेदानध्ययनेन च ।

कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥२०॥

अनृतात पारदार्याच्च तथाभक्श्यस्य भक्षणात ।

अश्रौतधर्माचरणात क्षिप्रं नश्यति वै कुलम ॥२१॥

अश्रोत्रियेषु वै दानाद वृषलेषु तथैव च ।

विहिताचरहीनेषु क्षिप्र नश्यति वै कुलम ॥२२॥

नाधार्मिकैर्वृते ग्रामे न व्याधिबहुले भृशम ।

न शुद्रराज्ये निवसेन्न पाषण्डजनैर्वृते ॥२३॥

हिमवदविन्ध्ययोर्मध्ये पुर्वपश्चिमयोः शुभम ।

मुक्त्व समुद्रयोर्द्देश नान्यत्र निवसेद द्विजः ॥२४॥

कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः ।

पुण्याश्च विश्रुता नद्यस्तत्र वा निवसेद द्विजः ॥२५॥

अर्धक्रोशान्नदीकुलं वर्जयित्व द्विजोत्तम ।

नान्यत्र निवसेत पुण्यं नात्यजग्रामसंनिधौ ॥२६॥

न संवसेच्च पतितैर्न चण्डालैर्न पुक्कसैः ।

न मुखैर्नावलित्पैश्च नान्त्यैर्नान्त्यावसायिभिः ॥२७॥

एकशय्यासनं पक्तिर्भाण्डपक्वान्नमिश्रणम ।

याजनाध्यापने योनिस्तथैव सहभोजनम ॥२८॥

सहाध्यायस्तु दशमः सहयाजमेव च ।

एकादश समुद्दिष्टा दोषाः सांकर्यसंज्ञिताः ॥२९॥

समीपे वा व्यवस्थानात पापं संक्रमते नृणाम ।

तस्मात सर्वप्रयत्नेन साकर्यं परिवर्जयेत ॥३०॥

एकपंकत्युपविष्ट ये न स्पृशन्ति परस्परम ।

भस्मना कृतमर्यादा न तेषा संकरो भवेत ॥३१॥

अग्निना भस्मना चैव सलिलेनावसेकतः ।

द्वारेण स्तम्भमार्गेण षडभिः पक्तिर्विभद्यते ॥३२॥

न क्र्याच्छुष्कवैराणि विवादं न च पैशुनम ।

परक्षेत्रे गां धयन्तीं न चाचक्षीतं कस्याचित ।

न संवदेत सुतके च न कत्रुन्मर्मणि स्पृशेत ॥३३॥

न सुर्यपरिवेषं वा नेन्द्रचापं शवाग्निकम ।

परस्मै कथयेद विद्वान शशिन वा कदाचन ॥३४॥

न कुर्याद बहुभिः सार्धः विरोधं बन्धुभिस्तथा ।

आत्मानः प्रतिकृलानि परेषां न समाचरेत ॥३५॥

तिथिं पक्षस्य न ब्रुयात न नक्षत्राणि निर्दिशते ।

नोदक्यामभिभाषेत नाशुचिं वा द्विजोत्तमः ॥३६॥

न देवगुरुविप्राणां दीयमानं तु वारयेत ।

न चात्मानं प्रशंसेद वा परनिन्दां च वर्जयेत ।

वेदनिन्दां देवानिन्दां प्रयन्तेन विवर्जयेत ॥३७॥

यस्तु देवानृषीन विप्रान वेदान वा निन्दति द्विजः ।

न तस्य निष्कृतिर्दृष्टा शास्त्रेष्विह मुनीश्वराः ॥३८॥

निन्दयेद वै गुरुं वेदं वा सोपबृंहणम ।

कल्पकोटिशतं साग्रं रौरवे पच्यते नरः ॥३९॥

तुष्णीमासीत निन्दाया न ब्रुयात किंचिदुत्तरम ।

कर्णो पिधाय गन्तव्यं न चैतानवलोकयेत ॥४०॥

वर्जयेत वै रहस्यानि परेषां गूहयेद बुधः ।

विवादं स्वजनैः सार्धं न कुर्याद वै कदाचन ॥४१॥

न पापं पापिनां ब्रुयादपापं वा द्विजोत्तमाः ।

स तेन तुल्यदोषः स्यान्मिथ्या द्विर्दोषवन भवेत ॥४२॥

यानि मिथ्याभिशस्तानं पतन्त्यश्रुणि रोदनात ।

तानि पुत्राण पशुन घ्नन्ति तेषां मिथ्याभिशंसिनाम ॥४३॥

ब्रह्माहत्यासुरापाने स्तेयगुर्वह्गनागमे ।

दृष्टं विशोधनं वृद्धैर्नास्ति मिथ्याभिशंसने ॥४४॥

नेक्षेतोद्यन्तमादित्यं शशिनं चानिमित्ततः ।

नास्तं यान्तं न वसिस्थं नोपसृष्टं न मध्यगम ।

तरोहितं वाससा वा नादर्शान्तरगामिनम ॥४५॥

न नग्नां स्त्रियमीक्षेतं पुरुषं वा कदाचन ।

न च मुत्रं पुरीष वा न च संस्पृष्टमैथुनम ।

नाशुचिः सुर्यसोमादेन ग्रहानालोकयेद बुधः ॥४६॥

पतितव्यगंचण्डालानुच्छिन नावलोकयेत ।

नाभिभाषेत च परमुच्छिष्टो वावगुण्ठितः ॥४७॥

न पश्येत प्रेतसंस्पर्श न कुद्धस्य गुरोर्मुखम ।

न तैलोदकयोश्चाछायां न पत्नीं भोजने सति ।

नामुक्तबन्धनागां वा नोन्मत्तं मत्तमेव वा ॥४८॥

नाश्नीयात भार्यया सार्धं नैनामीक्षेत चाश्‍नतीम ।

क्षुवन्ती जृम्भमाणां वा नासनस्थां यथासुखम ॥४९॥

नोदके चात्मनो रुपं न कुलं श्वभ्रमेव वा ।

न लंघयेच्च मुत्रं वा नाधितिष्ठित कदाचन ॥५०॥

न शुद्राय मतिं दद्यातं कृशरं पायसं दधि ।

नोच्छिष्टं वा मधु घृतं न च कृष्णजिनम हविः ॥५१॥

न चैवास्मै व्रतं दत्यान्न च धर्मं वदेद बुधः ।

न च क्रोधवशं गच्छेद द्वेष रागं च वर्जयेत ॥५२॥

लोभं दम्भं तथा यत्नादसुयां ज्ञनकुत्सनम ।

इष्यो मदं तथा शोकं मोहं च परिवर्जयेत ॥५३॥

न कुर्यात कास्यचित पीड़ा सुतं शिष्यं च ताडयेत ।

न हीननुपसेवेत न च तीक्ष्णमतीन क्वचित ॥५४॥

नात्मानं चावमन्येत पीड़ सुतं शिष्यं च ताडयेत ।

न हीनानुपसेवेत न च तीक्ष्णमतीन क्वाचित ॥५४॥

नात्मानं चावमन्यते दैन्यं यत्नेन वर्जयेत ।

न विशिष्टानसत्कुर्यात नात्मानं वा शपेद बुधः ॥५५॥

न नखैर्विलिखेद भुमि गां च संवेशयेन्न हि ।

न नदीषु नदीं ब्रुयाद पर्वतेषु च पर्वतान ॥५६॥

आवासे भोजने वापि न त्यजेत सहयायिनम ।

नावगाहेदपो नग्नो वह्निं नातिव्रजेत पदा ॥५७॥

शिरोऽभ्यगंवशिष्टेन तैलेनांगं न लेपयेत ।

न सर्पशस्त्रैः क्रीडेत स्वानि खाने न संपृशेत ।

रोमाणि च रहस्यानि नाशिष्टेन सह व्रजेत ॥५८॥

न पाणिपादवांनेत्रचापल्यं समुपाश्रयेत ।

न शिश्नोदरचापल्ये न च श्रवणयोः क्वचितः ॥५९॥

न चांगनखवादं वै कुर्यान्नात्र्चलिना पिबेत ।

नाभिहन्याज्जलं पद्म्भ्यां पाणिना वा कदाचन ॥६०॥

न शातयेदिष्टकाभिः फलानि न फलेन च ।

न म्लेच्छभाषां शिक्षेत नाकर्षेच्च पदासनम ॥६१॥

न भेदनमव्वस्फोट छेदनं वा विलेखनम ।

कुर्याद विमर्दनं धीमान नाकस्मादेव निष्फलम ॥६२॥

नोत्सगें भक्षयेद भक्श्यं वृथा चेष्टां च नाचरेत

न नृत्येदथवा गायेन्न वादित्राणि वादयेत ॥६३॥

न संहताभ्यां पाणिभ्यां कण्डुयेदात्मनः शिरः ।

न लौकिकै स्तवैर्देवांस्तोषयेद बाह्मजैरपि ॥६४॥

नाक्षैः क्रीडेन्न धावेत नाप्सु विण्मुत्रमाचरेत ।

नोच्छिष्टः संविशेन्नित्यं न गग्नः स्नानमाचरेत ॥६५॥

न गच्छेन्न पठेद वापि न चैव स्वशिरः स्पृशेत ।

न दन्तैर्नखरोमाणि छिन्द्यात सुत्पं न बोधयेत ॥६६॥

न बालातपामासेवेत प्रेतधूमं विवर्जयेत ।

नैकः सुप्याच्छुन्यगृहे स्वयं नोपानही हरेत ॥६७॥

नाकारणाद वा निष्ठिवेन्न बाहुभ्यां नदीं तरेत ।

न पादक्षालनं कुर्यात पादेनैव कदाचन ॥६८॥

नाग्नौ प्रतापयेत पादौ नकास्ये धावयेद बुधः ।

नाभिप्रसारयेद देवं ब्राह्मणान गामथापि वा ।

वाय्वग्निगुरुविप्रान वा सुर्य वा शशिनं प्रति ॥६९॥

अशुद्धः शयनं यानं स्वाध्यायं स्नानवहनम ।

बहिर्निष्क्रमणं चैव व नकुर्वीत कथत्र्चन ॥७०॥

स्वप्नमध्ययनं स्नानमुद्वर्त भोजनं गतिम ।

उभयोः संध्ययोर्नित्यं मध्याह्ने चैव वर्जयेत ॥७१॥

न स्पृशेत पाणिनोच्छिष्टो विप्रो गोब्राह्माणानलान ।

न चासनं पदा वापि न देवप्रतिमां स्पृशेनत ॥७२॥

नाशुद्धोऽग्निं परिचरेत देवान कीर्तयेदृषीन ।

नावगाहेदगाधाम्बु धारयेन्नानिमित्ततः ॥७३॥

न वामहस्तेनोद्धत्य पिबेद वक्त्रेण वा जलम ।

नोत्तरेदनुपस्पृश्य नाप्सु रेतः समुत्स्रुजेत ॥७४॥

अमेध्यालिप्तमन्यद वा लोहितं वा विषाणी वा ।

व्यातिक्रमत्र स्त्रवन्ती नाप्सु मैथुनमाचरेत ।

चैत्यं वृक्षं; न वै छिन्द्यान्नाप्सु ष्ठीवनमाचरेत ॥७५॥

नास्थिभस्मकपालानि न केशान्न च कण्टकान ।

तुषागराकरीषं वा नाधितिष्ठेत कदाचन ॥७६॥

न चाग्निं लघ्येंद धीमान नोपदध्यादधः क्वचित ।

न चैनं पादतः कुर्यान्मुखेन न धमेद बुधः ॥७७॥

न कूपमवरोहेत नावेक्षेताशुचिःक्वचित ।

अग्नौ न च क्षिपेदग्निं नाद्भिः प्रशमयेत तथा ॥७८॥

सुह्रन्मरणमर्तिं वा न स्वयं; श्रावयेत परान ।

अपण्यं कूटपण्यं वा विक्रये न प्रयोजयेत ॥७९॥

न वह्निं मुखानिः श्वासैर्ज्वालयेन्नाशुचिर्बुधः ।

पुण्यस्थानोदकस्थाने सीमान्तं वाकृषेन्न तु ॥८०॥

न भिन्द्यात पुर्वसमयमभ्युपेतं कदाचन ।

परस्परं पशुन व्यालान पक्षिणो नावबोधयेत ॥८१॥

परबाधं न कुर्वीत जलवातातपादिभिः ।

कारयित्वा स्वकर्माणि कारुण पश्चात्र वत्र्चयेत ।

सायंप्रातर्गृहद्वारानभिक्षार्थ नावघट्टयेत ॥८२॥

बहिर्माल्यं बहिर्गन्धं भार्यया सह भोजनम ।

विगृह्मा वदं कुद्वारप्रवेशं च विवर्जयेत ॥८३॥

न खादन ब्राह्मणस्तिष्ठेन्न जल्पद वा हसन बुधः ।

स्वामग्निं नैव हस्तेन स्पृशेन्नाप्सु चिरं वसेत ॥८४॥

न पक्षकेणोपधमेत्र शुर्पेण न पाणिना ।

मुखे नैव धर्मेदग्निं मुखादग्निरजायत ॥८५॥

परस्त्रियं न भाषेत नायाज्यं याजयेद द्विजः ।

नैकश्चरेत संभा विप्रः समवयं च वर्जयेत ॥८६॥

न देवायतनं गच्छेत कदाचिद वाप्रदक्षिणम ।

न वीजयेद वा वस्त्रेण न देवायतने स्वपेत ॥८७॥

नैकोऽध्वानं प्रपद्येत नाधर्मिकजनैः सह ।

न व्याधिदूषितैर्वापि न शुद्रैःपतितेन वा ॥८८॥

नोपानद्वर्जितो वाथ जलादिरहितस्तथा ।

न रात्रौ नारिणा सर्धं न विना कमण्डलुम ।

नाग्निगोब्राह्माणादेनेअमन्तरेण व्रजेत क्वचित ॥८९॥

न वत्सतन्त्रीं विततामतिक्रामेत क्वचिद द्विजः ।

न निन्देद योगिनः सिद्धान व्रतिने वा यतेंस्तथा ॥९०॥

देवतायतनं प्राज्ञो देवानां चैव सत्रिणाम ।

नाक्रमेत कामतश्‍छायां ब्राह्मणानां च गोरपि ॥९१॥

स्वां तु नाक्रमयेच्छायां पतितद्यैर्न रोगिभिः ।

नागंरभस्मकेशादिष्वधितिष्ठेत कदाचन ॥९२॥

वर्जयेन्मार्जनीरेणुं स्नानवस्त्रघटोदकम ।

न भक्षयेदभक्ष्याणि नापेयं च पिबेद द्विजः ॥९३॥

इति श्रीकूर्मपुराणे षटसाहस्रयां संहितायामुपरिविभागे षोडशेऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP