TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
अष्टादशोऽध्यायः

कूर्मपुराणः - अष्टादशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


अष्टादशोऽध्यायः

गृहस्थके नित्यकर्मोका वर्णन, प्रातःस्नानकी महिमा, छः प्रकरके स्नान, संध्योपासनकी महिमा तथा संध्योपासनविधि, सुर्योपस्थानका माहात्म्य सुर्यहृदयस्तोत्र, अग्निहोत्रकी विधि, तर्पणकी विधि, नित्य किये जानेवाले पंचमहायज्ञोकी महिमा तथा उनका विधान

ऋषय ऊचुः

अहन्यहनि कर्तव्यं ब्राह्मणानां महामुने ।

तदाचक्ष्वाखिलं कर्म येन मुच्येत बन्धनात ॥१॥

व्यास उवाच

वक्ष्ये समाहित युयं श्रृणुध्वं गदतो मम ।

अहन्यहनि कर्तव्यं ब्राह्मणानां क्रमाद विधिम ॥२॥

ब्राह्मो मुहुरे तत्थाय धर्ममर्थ च चिन्तयेत ।

कायक्लेशं तदुदभुतं ध्यायीत मनसेश्वरम ॥३॥

उषः कालेऽथ सम्प्राप्ते कृत्वा चावश्यकं बुधः ।

स्नायान्नदीषु शुद्धासु शौचं कृत्वा यथाविधि ॥४॥

प्रातः स्नानेन पूयन्ते येऽपि पापकृतो जनाः ।

तस्मान सर्वप्रयत्‍नेन प्रातःस्नानं समाचरेत ॥५॥

प्रातः स्नानं प्रशंसन्ति दृष्टादृष्टकरं शुभम ।

ऋषीणामृषिता नित्यं प्रातः स्नानान्न संशयः ॥६॥

मुखे सुत्पस्य सततं लाला या संत्रवन्ति हि ।

ततो नैवाचरेत कर्म अकृत्वा स्नानमादितः ॥७॥

अलक्ष्मीः कालकर्णीच दुःस्वस्पं दुर्विचिन्तितम ।

प्रातः स्नानेन पापनि पुयान्ते नात्र संशयः ॥८॥

न च स्नानं विना पुंसां पावनं कर्म सुस्मृतम ।

होमे जप्ये विशेषेण तस्मत स्नानं समचरेत ॥९॥

अशक्तावशिरस्कं वा स्नानमस्य विधीयते ।

आर्द्रेण वाससा वाथ मार्जनं कापिलं स्मृतम ॥१०॥

असामर्थ्यै समुप्तन्न स्नानमेवं समाचरेत ।

ब्राह्मदीनि यथाशक्तिं स्नानान्याहुर्मनेषिणः ॥११॥

ब्रह्मामाग्नेयमुद्धिष्टं वायव्यं दिव्यमेव च ।

वारुणं यौगिकं तद्वत षोढा स्ननं प्रकीर्तितम ॥१२॥

ब्राह्मा तु मार्जन मन्त्रैः कुशै सोदकाबिन्दुभिः ।

आग्नेयं भस्मना पादमस्तकाद्देहधुलनम ॥१३॥

गवां हि रजसा प्रोक्तं वायवयं स्नानमुत्तमम

यत्तु सातपवर्षेण स्नानं तद दिव्यमुच्यते ॥१४॥

वारुणं चावगाहस्तु मानसं त्वात्मवेदनम ।

यौगिकं स्नानमाख्यातं योगो विष्णुविचिन्तनम ॥१५॥

आत्मतीर्थामति ख्यातं सेवितं ब्रह्मावादिभिः ।

मनः शुचिकरं पुंसां नित्यं तत स्नानमाचरेत ॥१६॥

शक्तश्‍चेद वारुनं विद्वान प्राजापत्यं तथैव च ।

प्रक्षाल्य दन्तकाष्ठं वै भक्षयित्वा विधानतः ॥१७॥

आचम्य प्रयतो नित्यं स्नानं प्रातः समाचरेत ।

माध्यागुलिसमस्थौल्यं द्वादशागुलसम्मितम ॥१८॥

सत्वचं दन्तकाष्ठं स्यात तदग्रेण तु धावयेत ।

क्षीरवृक्षसमुदभुतं मालतीसम्भवं शुभम ।

अपामार्गं च बिल्वं च करवीरं विशेषतः ॥१९॥

वर्जयित्वा निन्दितानि गृहीत्वैक यथोदितम ।

परिहृत्य दिनं पापं भक्षयेद वै विधानवित ॥२०॥

नोप्ताटयेद दन्तकाष्ठं नाड्गुल्यां धावयेत क्वचित ।

प्रक्षाल्य भंक्त्वा तज्जह्राच्छुचौ देशे समाहितः ॥२१॥

स्नात्वा संतर्पयेतद देवानृषीन पितृगणास्तथा ।

आचम्य मन्त्रवन्नित्यं पुनराचम्य वाग्यतः ॥२२॥

सम्मार्ज्य मन्त्रैरात्मानं कुशैःसोदकबिन्दुभिः ।

आपो हि ष्ठा व्याहृतिभिः सावित्र्य वारुणैः शुभैः ॥२३॥

ओकांरव्याहृतियुतां गायत्रीं वेदमातरमक ।

जप्त्वा जलाज्वलिं दद्याद भास्करं प्रति तन्मनाः ॥२४॥

प्राक्कूलेषु समासीनो दर्भेषु सुसमाहितः ।

प्राणायामत्रयं कृत्वा ध्यायेत संध्यामिति श्रुतिः ॥२५॥

या संध्या सा जगत्सुतिर्मायातीता हि निष्कला ।

ऐश्वरी तु पराशक्तिस्तत्त्वत्रयसमुद्धवा ॥२६॥

ध्यात्वार्कमण्डलगतां सावित्रीं वै जापन बुधः ।

प्राडमुखः सततं विप्रः संध्योपासनमाचरेत ॥२७॥

संध्याहीनोऽशुचिर्नित्यमहर्हः सर्वकर्मसु ।

यदन्यत कुरुते किचिन्न तसुय फलमाप्नुयात ॥२८॥

अनन्यचेतसः शान्ता ब्राह्माणा वेदपारगाः ।

उपास्य विधिवत संध्यां प्राप्ताः पुर्वं परां गतिम ॥२९॥

योऽन्यत्र कुरुते यत्‍नं धर्मकार्य दिव्जोत्तम ।

विहाय संधाप्रणतिं स यति नरकयुतम ॥३०॥

तस्मात सर्वप्रयत्‍नेन संध्योपासनमाचरेत ।

उपसितो भवेत तेन देवो योगतनुः परः ॥३१॥

सहस्त्रपरमां नित्यं शतमध्यां दशावराम ।

सावित्रीं वै जपेद विद्वान प्राडमुखः प्रयतः स्थितः ॥३२॥

अथोपतिष्ठेदादित्यमुदयन्तं समाहितः ।

मन्त्रैस्तु विविधैः सौरैऋग्यजुः सामसम्भवैः ॥३३॥

उपस्थय महायोगं देवदेवं दिवाकरम ।

कुर्वीत प्रणतिं भूमौ मुर्ध्ना तेनैव मन्त्रतः ॥३४॥

ओं खखोल्काय शान्ताय कारणत्रयहेतवे ।

निवेदयामि चात्मानं नमस्ते ज्ञानरुपिणे ।

नमस्ते घृणिने तुभ्यं सुर्याय ब्रह्मारुपिणे ॥३५॥

त्वमेव ब्रह्मा परममापो ज्योति रसोऽमृतम ।

भूर्भुवः स्वत्स्त्वमोकारः सर्वे रुद्रा सनतनाः ।

पुरुषः सन्महोऽतस्त्वां प्रणमामि कपर्दिनम ॥३६॥

त्वमेव विश्‍वं बहुधा सदसत सुयते च यत ।

नमो रुद्राय सुर्याय त्वामहं शरणं गतः ॥३७॥

प्रचेतसे नमस्तुभ्यं नमो मीढुष्टमाय ते ।

नमो नमस्ते रुद्राय त्वामहं शरणं गत ॥३८॥

हिरण्यबाहवे तुभ्यं हिरण्यपतये नमः ।

अम्बिकापतये तुभ्यमुमायाः पतये नमः ॥३९॥

नमोऽस्तु नीलग्रीवाय नमस्तुभ्यं पिनाकिने ।

विलोहिताय भर्गाय सहस्त्राक्षाय ते नमः ॥४०॥

नमो हंसाय ते नित्यमादित्याय नमोऽस्तु ते ।

नमस्ते वज्रहस्ताय त्र्यम्बकाय नमोऽस्तु ते ॥४१॥

प्रपद्ये त्वां विरुपाक्ष महान्तं परमेश्वराम ।

हिरण्यमयं गृहे गुप्तमात्मानं सर्वदेहिनाम ॥४२॥

नमस्यामि परं ज्योतिर्ब्रह्माणं त्वा परां गतिम ।

विश्‍व पशुपतिं भीमं नरनारीशरीरिणम ॥४३॥

नमः सुर्याय रुद्राय भास्वते परमेष्ठिने ।

उग्राय सर्वभक्ताय त्वा प्रपद्ये सदैव हि ॥४४॥

एतद वै सुर्यहृदयं जत्प्वा स्तवमनुत्तमम ।

प्रातः कालेऽथ मध्याह्ने नमस्कुर्याद दिवाकरम ॥४५॥

इदं पुत्रायं शिष्याय धार्मिकाय द्विजातये ।

प्रदेयं सुर्यहृदयं ब्रह्माणा तु प्रदर्शितम ॥४६॥

सर्वपापप्रशमनं वेदसारसमुद्द्भवम ।

ब्राह्मणानां हितं पुण्यमृषिसंगैर्निषवितम ॥४७॥

अथागम्य गृहं विप्रः समाचम्य यथाविधि ।

प्रज्वाल्य वह्निं विधिवज्जुहुयाज्जतवेदसम ॥४८॥

ऋत्विक्पुत्रोऽथ पत्नी वा शिष्यो वापि सहोदरः ।

प्राप्यानुज्ञां विशेषेण जुहुयुर्वा यथाविधि ॥४९॥

पवित्रपाणिः पुतात्मा शुक्लाम्बरधरोत्तर ।

अनन्यमानसो वह्निं जुहुयात संयतोन्द्रियः ॥५०॥

विना दर्भेण यत्कर्म विना सुत्रेण वा पुनः ।

राक्षसं तदभवेद सर्व नामुत्रेण फलप्रदम ॥५१॥

दैवतानि नमस्कुर्याद देयसारान्निवेदयेत ।

दद्यत पुष्पादिकं तेषां वृध्दाश्‍चवैवाभिवादयेत ॥५२॥

गुरुं चैवप्युपासीत हितं चास्य समाचरेत ।

वेदभ्यांस ततः कुर्यात प्रयत्नाच्छक्तितो द्विजः ॥५३॥

जपेदध्यापत्येच्छिष्यान धारयेच्च विचारयेत ।

अवेक्षेत च शास्त्राणि धर्मादीनि द्विजोत्तम ।

वैदिकांश्चैव निगमान विदांगनि विशेषतः ॥५४॥

उपेयादिश्वरं चाथ योगक्षेमप्रसिद्धये ।

साधयेद विविधानर्थान कुटुम्बार्थ ततो द्विजः ॥५५॥

ततो मध्याह्रसमये स्नानार्थ मृदमाहरेत ।

पुष्पाक्षतान कुशतिलान गोमयं शुद्धमेव च ॥५६॥

नदीषु देवखातेषु तडागेषु सरस्सु च ।

स्ननं समोचरेन्नित्यं गर्तप्रस्त्रवर्णेषु चा ॥५७॥

परकीयानिपनेशःउ न स्नयाद वै कदाचनः ।

पंचापिण्डान समुद्धयं स्नायाद वासम्भवे पुनः ॥५८॥

मृदैकया शिरः क्षाल्यं द्वाभ्यां नाभेस्तथोपरिः ।

अध्यश्च तिसृभिः कायं पादौ षडभिस्तथैव च ॥५९॥

मृत्तिका च समुद्दिष्टा त्वार्द्रामलकमात्रिका ।

गोमयस्य प्रमाणं तत तेनांग लेपयेत ततः ॥६०॥

लेपयित्वा तु तीरस्थस्तल्लिंगैरेव मन्त्रतः ।

प्रक्षाल्याचम्य विधिवतः त्तः स्नायात समाहितः ॥६१॥

अभिमन्त्र्य जलं मन्त्रैस्तलिंगैर्वारुणैः शुभैः ।

भावपूतस्तदव्यक्तं ध्यायनं वै विष्णुमव्ययम ॥६२॥

आपो नारायणोदभूतास्ता एवास्यायनं पुनः ।

तस्मन्नारायणं देवं स्नानकाले स्मरेद बुधः ॥६३॥

प्रोच्य सोंकारमादित्यं त्रिर्निमज्जेज्जलाशये ।

आचान्य पुरनराचामेन्त्रेणानेन मन्त्रवित ॥६४॥

अन्तश्चरसि भूतेषु गुहायां विश्‍वतोमुखः ।

त्व यज्ञस्त्वं वषटकार आपो ज्योति रसोमृतम ॥६५॥

द्रुपदां वा त्रिरभ्यसेद व्याहृतिप्रणवान्विताम ।

सावित्रीं वा जपेद विद्वान तथा चैवाघमर्षणम ॥६६॥

ततः सम्मार्जन कुर्यादापो हि ष्ठा मयोभुवः ।

इदमापह प्र वहन व्याहृतिभिस्तथैव च ॥६७॥

ततोऽभिमन्त्र तत तीर्थमापो हि ष्ठादिमन्त्रकैः ।

अन्तर्जलगतो मग्नो जपेत त्रिरघमर्षणम ॥६८॥

त्रिपदां वथ सवितीं तद्विष्णोः परमं पदम ।

आवर्तयेद वा प्रणवं देवं वा संस्मरेद्धरिम ॥६९॥

द्रुपददिव यो मन्त्रो यजुर्वेदे प्रतिष्ठितः ।

अन्तर्जले त्रिरावत्यं सर्वपापैः प्रमुच्यते ॥७०॥

अपः पाणौ समादाय जप्त्वा वै मार्जने कृते ।

विन्यस्य मूर्धि तत तोयं मुच्यते सर्वपातकैः ॥७१॥

यथाश्वमेधः क्रतुराट सर्वपापपनोदनः ।

तथाघमर्षणं सुक्तं सर्वपापापनेदनम ॥७२॥

अथोपतिष्ठेदादित्यं मुर्ध्निं पुष्पान्वितात्र्जलिम ।

प्रक्षिप्यालोकयेद देवमुद्वयं तमसस्परि ॥७३॥

उदु त्यं चित्रमित्येते तच्चक्षुरिति मन्त्रतः ।

हंसःशुचिषदेतेन सावित्र्य च विशेषतः ॥७४॥

अन्यैश्च वैदिकैर्मन्त्रैः सौरेः प्रापप्रणाशनैः ।

सावित्रीं वै जपेत पश्चाज्जपयज्ञः स वै स्मृतः ॥७५॥

विविधानि पवित्राणि गुह्माविद्यस्तथैव च ।

शतरुद्रीय मथर्वशिरं सौराश्च शक्तियं ॥७६॥

प्राक्त्कुलेषु समासीनः कुशेषु प्रडमुखः शुचिः ।

तिष्टंश्चेदीक्षमाणोऽर्क जप्यं कुर्यात समाहितः ॥७७॥

स्पटिकेन्द्राक्षरुद्राक्षैः पुत्रजीवसमुद्द्भवैः ।

कर्तव्या त्वक्षमाला स्यादुत्तरादुत्तमा स्मृता ॥७८॥

जपकाले न भाषेत नान्यानि प्रेक्षयेद बुधः ।

न कम्पयेच्छिरोग्रीवां दन्तान नैव प्रकाशयेत ॥७९॥

गृह्माका राक्षसा सिद्धा हरन्ति प्रसभं यतः ।

एकान्ते सुशुभे देशे तस्माज्जप्यं समाचरेत ॥८०॥

चण्डालाशौचापतितान दृष्टाचम्य पुनर्जपेत ।

तैरेव भाषणं कृत्वा स्नात्वा चैव जपेत पुनः ॥८१॥

आचम्य प्रयतो नित्यं जापेदशुचिदर्शने ।

सौरान मन्त्रान शक्तितो वै पापमानीस्तु कामतः ॥८२॥

यदि स्यात क्लिन्नवासा वै वारिमध्यगतो जपेत ।

अन्यथा तु शुचौ भुम्यां दर्भेषु सुसमाहिताः ॥८३॥

प्रदक्षिणां समावृत्य नमस्कृत्वा ततः क्षितौ ।

आचम्य च यथाशास्त्रं शक्त्या स्वाध्ययमाचरेत ॥८४॥

ततः संतर्पयेद देवानुषीन पितृगणास्तथा ।

अदार्वोंकरमुच्चार्य नमोऽस्ते तर्पयामि वः ॥८५॥

देवान ब्रह्माऋषीश्चैव तर्पयेदक्षतोदकैः ।

तिलोदकैः पितृन भक्त्या अस्वसुत्रोक्तविधानतः ॥८६॥

अन्वारब्धेन सव्यने पाणिना दक्षिणेन तु ।

देवर्षीस्तर्पयेद धीमानुदकात्र्जलिभिः पितृनः ॥८७॥

यज्ञोपवीती देवानां निवीती ऋषितर्पणे ।

प्राचीनावीती पित्र्ये तु स्वेन तीर्थेन भावतः ॥८८॥

निष्प्रीड्य स्नानवस्त्रं तु समाचम्य च वाग्यतः ।

स्वैर्मन्त्रैरर्चयेद देवान पुष्पैः पत्ररथाम्बुभिः ॥८९॥

ब्रह्माणं शंकरं सुर्यं तथैव मधुसुदनम ।

अनांश्चाभिमतान देवान भक्त्या चाक्रोधनोऽत्वरः ॥९०॥

प्रदद्याद वाथ पुष्पाणि सुक्तेन पौरुषेण तु ।

आपो वा देवताः सर्वस्तेन सम्यक समर्चिताः ॥९१॥

ध्यात्वा प्रणवपुर्ण वै दैवतानि समाहितः ।

नमस्कारेण पुष्पाणि विन्यसेद वै पृथक पृथक ॥९२॥

न विष्णवाराधनात पुण्यं विद्यते कर्म वैदिकम ।

तस्मादानादिमध्यान्तं नित्यमाराधयेद्धरिम ॥९३॥

तद्विष्णोरिति मन्त्रेण सुक्तेन पुरुषेण तु ।

नैताभ्यां सदृशो मन्त्रो वेदेषुक्तश्चतुर्ष्वपि ॥९४॥

निवेदयेत स्वात्मानं विष्णावमलतेजसि ।

तदात्मा तन्मनाः शान्तस्ताद्विश्णोरिति मन्त्रतः ॥९५॥

अथवा देवमीशानं भगवन्तं सनातनम ।

आराध्येन्महादेव भावपुतो महेश्वरम ॥९६॥

मन्त्रेण रुद्रगायत्र्या प्रणवेनाथ वा पुनः ।

ईशानेनाथ वा रुद्रैअस्त्र्यम्बकेन समहैतः ॥९७॥

पुष्पैः पत्रैरथाद्भिर्वा चन्द्रनाद्यैर्महेस्वरम ।

उक्त्वा नमः शिवायोति मम्त्रिणानेन योजयेत ॥९८॥

नमस्कुर्यान्महादेव ऋतं सत्यमितिश्रवम ।

निवेदयीत स्वात्मान यो ब्रह्माणमितिश्वरम ॥९९॥

प्रदक्षिणं द्विजः कुर्यात पंच ब्रह्माणि वै जपन ।

ध्यार्यात देवमीशानं व्योममध्यगतं शिवम ॥१००॥

अथावलोकयेदर्कं हंसः शुचिषदित्यृचा ।

कुर्यात पंच महायज्ञान गृहं गत्वा समाहितः ॥१०१॥

देवयज्ञं पितृयज्ञं भूतयज्ञ तथैव च ।

मानुष्यं ब्रह्मायज्ञं च पंच यज्ञान प्रचक्षते ॥१०२॥

यदि स्यात तर्पणादर्वाक ब्रह्मायज्ञः कृतो न हि ।

कृत्वा मनुष्ययज्ञं वै तैतः स्वाध्यायमाचरेत ॥१०३॥

अग्नेः पश्चिमतो देशे भूतयज्ञान्त एव वा ।

कुशपुत्र्जे समासीनः कुशपांणिः समाहितः ॥१०४॥

शालाग्रौ लौकिके वाग्नौ जले भूम्यामथापि वा ।

वैश्वदेवं ततः कुर्याद देवयज्ञः स वै स्मृतः ॥१०५॥

यदि स्याल्लौकिके पक्वं ततोऽन्नं तत्र ह्रुयते ।

शालाग्नौ तत्र देवान्नं विधिरेष सनातनः ॥१०६॥

देवेभ्यस्तु हुतदन्नाच्छेषाद भुतबलिं हरेत ।

भुतयज्ञः स वै ज्ञेयो भुतिदः सर्वदेहिनाम ॥१०७॥

श्वभ्यश्च श्वपचेभ्यश्च पतितादिभ्य एव च ।

दद्याद भूमौ बलिं त्वन्नं पक्षिभ्योऽथ द्विजोत्तमः ॥१०८॥

सायं चान्नस्य सिद्धास्य पत्न्यमन्त्रं बलिं हरेत ।

भुतयज्ञस्त्वयं नित्यं सायं प्रातर्विधीयते ॥१०९॥

एकं तु भोजयेद विप्रं पितृनुद्दिश्य सत्तमम ।

नित्यश्राद्धं तदुद्दिष्टं पितृयज्ञो गतिप्रदः ॥११०॥

उद्धत्य वा यथाशक्ति कित्र्चिदन्नं समाहितः ।

वेदतत्वार्थविदुषे द्विजायैवोपपदयेत ॥१११॥

पुजयेदतिथिं नित्यं नमस्येदर्चयेद द्विजम ।

मनोवाक्कर्मभिः शान्तमागतं स्वगृहं ततः ॥११२॥

हन्तकारमथाग्रं भिक्षां वा शक्तितो द्विजः ।

दद्यादतिथये नित्यं बुध्येत परमेश्वरम ॥११३॥

भिक्षामाहुर्ग्राहसमात्रमग्नं तस्याश्चतुर्गुणम ।

पुष्कलं हन्तकारं तु तच्चतुर्गुणमुच्यते ॥११४॥

गोदाहमात्रं कालं वै प्रतीक्ष्यों ह्रातिथिः स्वयम ।

अभ्यागतान यथाशक्ति पुजयेदतिथिं यथा ॥११५॥

भिक्षं वै भिक्षवे दद्याद विधिवद ब्रह्माचारिणे ।

दद्यादन्नं यथशक्ति त्वर्थिभ्यो लोभवर्जितः ॥११६॥

सर्वेषामप्यलाभे तु अन्नं गोभ्यो निवेदयेत

भुत्र्जीत बन्धुभिः सर्धं वग्यतोऽन्नमकुत्सयन ॥११७॥

अकृत्वा तु द्विजः पंच महायज्ञान द्विजोत्तमाः ।

भुत्र्जीत चेत स मुढात्मा तिर्यग्योनिं स गच्छति ॥११८॥

वेदाभ्यासोऽन्वहं शक्त्या महायज्ञकिया क्षमा ।

नाशयत्याशु पापानि देवानामर्चनं तथा ॥११९॥

यो मोहदथवालस्यादकृत्वा देवतार्चनम ।

भुक्ते स यति नरकान शुकरेष्वाभिजायते ॥१२०॥

तस्मात सर्वप्रयत्‍नेन कृत्वा कर्माणि वै द्विजाः ।

भुत्र्जीत स्वजनैः सार्ध स याति परमां गतिम ॥१२१॥

इति श्रीकूर्मपुराणे षटसाहस्त्रयां संहितायामुपरिविभागे अष्टादशोऽध्यायः ॥१८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2010-04-17T01:54:00.8370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

innocuous

  • अनुपद्रवी 
RANDOM WORD

Did you know?

What is the difference between Smarta & Bhagwata Ekadashi?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site