TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
सप्तदशोऽध्यायः

कूर्मपुराणः - सप्तदशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


सप्तदशोऽध्यायः

भक्ष्य एवं अभक्ष्य पदार्थोका वर्णन

व्यास उवाच

नाद्याच्छुस्य विप्रोऽन्नं मोहाद वा यदि वान्यतः ।

स शुद्रयोनिं व्रजति यस्तु भुक्तें ह्यानापदि ॥१॥

षण्मासान यो द्विजो भुक्तें शुद्रस्यान्नं विगार्हितम ।

जीवन्नवे भवेच्छूद्रो मृतः श्वा चाभिजायते ॥२॥

ब्राह्मणक्षत्रियविशां शुद्रस्य न मुनीश्वराः ।

यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात ॥३॥

राजान्नं नर्तकान्नं च तक्ष्णोऽन्नं चर्मकारिणः ।

गणान्नं गणिकान्नं च षण्ढान्नं चैव वर्जयेत ॥४॥

चक्रोपजीविरजकतस्करध्वजिनां तथा ।

गान्धर्वलोहकारान्नं सुतकान्नं च वर्जयेत ॥५॥

कुलालचित्रकर्मात्रं वार्धुषेः पतितस्य च ।

पौनर्भवच्छत्रिकयोरभिशस्तस्य चैव हि ॥६॥

सुवर्णकारशैलुषव्याधबद्धतुरस्य च ।

चिकित्सकस्य चैवान्नं पुंश्चल्या दण्डिकस्य च ॥७॥

स्तेननास्तिकयोरन्नं देवतानिन्दकस्य च ।

सोमविक्रियिणश्चान्नं श्वपाकस्य विशेषतः ॥८॥

भार्याजितस्य चैवाद्य यस्य चोपपतिगृहे ।

उत्सृष्टस्य कदर्यस्य तथैवोच्छिष्टभोजिनः ॥९॥

अपाक्त्त्यान्नं च शघांन्न शस्त्राजीवस्य चैव ही ।

क्लीबसंन्यासिनोश्चान्नं मत्तोन्मत्तस्य चैव ही ।

भीतस्त रुदिस्यान्नमवक्रुष्टं परिक्षुतम ॥१०॥

ब्रह्माद्विषः पापरुचेः श्राद्धान्नं सुतकस्य च ।

वृथापाकस्य चैवान्नं शावान्नं श्वशुरस्य च ॥११॥

अप्रजानां तु नारिणां भृतकस्य तथैव च ।

कारुकान्नं विशेषेण शस्त्रविक्रयिणस्तथा ॥१२॥

शौण्डान्नं घाटिकान्नं च भिषजामन्नमेव च ।

विद्धपरजननस्यान्नं परिवित्यन्नमेव च ॥१३॥

पुनर्भुवो विशेषेण तथैव दिधिषुपतेः ।

अवज्ञातं चावधूत सरोषं विस्मयान्वितम ।

गुरेरपि न भोक्तव्यमन्नं संस्कारवर्जितम ॥१४॥

दृष्कृतं हि मनुष्यस्य सर्वमन्ये व्यवस्थितम ।

यो यस्यान्नं समश्‍नाति सं तस्याश्नाति किब्लिषम ॥१५॥

आर्द्धिकः कुलामित्रश्च स्वगोपालश्च नापितः ।

एते शुद्रेषु भोज्यन्न यश्चात्मानं निवेदयेत ॥१६॥

कुशीलवः कुम्भकारः क्षेत्रमर्मक एव च ।

एते शुद्रेषु भोज्यान्ना दत्त्वा स्वल्पं पणं बुधैः ॥१७॥

पायसं स्नेहपक्वं यद गोरसं चैव सक्तवः ।

पिण्यकं चैव तैलं शुद्राद ग्राह्यं द्विजातिभिः ॥१८॥

वृन्ताकं नालिकाशाकं कुसुम्भश्मन्तकं तथा ।

पलाण्डुं लशुनं शुक्तं निर्यसं चैव वर्जयेत ॥१९॥

छत्राकं विडवराहं च शेलु पेयुषमेव च ।

विलयं सुमुखं चैव कवकानि च विर्जयेत ॥२०॥

गृत्र्जनं किंशुकं चैव ककुभान्डं तथैव च ।

उदुम्बरमलाबुं च जग्धा पतति वै दिव्जः ॥२१॥

वृथा कृशरसंयावें पायसापुपमेव च ।

अनुपाकृतमांस च देवान्नानि हर्वीषि च ॥२२॥

यवागुं मातुलिंगः च मत्स्यानप्यनुपाकृतान ।

नीपं कपित्थं प्लक्षं च प्रयत्नेन विवर्जयेत ॥२३॥

पिण्याकं चोद्धतस्नेहं देवधान्यं तथैव च ।

रात्रौ च तिलसम्बद्धं प्रयत्नेन दधि त्यजेत ॥२४॥

नाश्‍नीयात पयसा तक्रं न बीजान्युपजीवयेत ।

क्रियादृष्टं भावदृष्टमसत्संगं च वर्जयेत ॥२५॥

केशकीटावपन्नं च सहल्लेखं च नित्यशः ।

श्वाघ्रातं च पुनः सिद्धं चण्डालावेक्षित तथा ॥२६॥

उदक्यया च पतितैर्गवा चाघ्रातमेव च ।

अनर्चित पर्युषितं पर्यायान्नं च नित्यशः ॥२७॥

काककुक्कुटसंसप्ष्टं कृमिभिश्चैव संयुतम ।

मनुष्यैरप्यवघ्रातं कुष्ठिना स्पृष्टमेव च ॥२८॥

न रजस्वलया दत्तं न पुंश्चल्या सरोषया ।

मलवद्वाससा वापि परवासोऽथ वर्जयेत ॥२९॥

विवत्सायाश्च गोः क्षीरमौष्टं वानिर्दशं तथा ।

आविकं सन्धिनीक्षीरमपेयं मनुरब्रवीत ॥३०॥

बलाकं हंसदात्युहं कलविकम शुकं तथा ।

कुररं च चकोरं च जालपादं च कोकिलम ॥३१॥

वायसं खत्र्जरीटं श्येनं गृध्रं तथैव च ।

उलुकं चक्रवाकं च भासं परावतानापि ।

कपोतं टिट्टिभं चिअव ग्रामकुक्कुटमेव च ॥३२॥

सिंहव्याघ्रं च मार्जारं श्‍वानं शुकरमेव च ।

श्रृगालं मर्कट चैव गर्दभं च न भक्षयेत ॥३३॥

न भक्षयेत सर्वमृगान पक्षिणोऽन्यान वनेचरान ।

जलेचरान स्थलचरान प्राणिनश्चेति धारणा ॥३४॥

गोध कूर्मः शशः श्वाविच्छल्यकश्‍चेति सत्तमा ।

भक्ष्याः पंचनखा नित्यं मनुराह प्रजापतिः ॥३५॥

मत्स्यान सशल्कान भुत्र्जीयान्मासं रौरवमेव च ।

निवेद्य देवताभ्यस्तु ब्राह्मणेभ्यस्तु नान्यथा ॥३६॥

मयुरं तित्तिरं चैव कपोतं च कपित्र्जलम ।

वाध्रीणसं वकं भक्ष्यं मीनहंसपराजिताः ॥३७॥

शफरं सिंहतुण्डं च तथा पाठीनरोहितौ ।

मत्स्याश्चैते समुद्दिष्टा भक्षणाय द्विजोत्तमाः ॥३८॥

प्रोक्षितं भक्षयेदेषां मांसं च द्विजकाम्यया ।

यथाविधि नियुक्तं च प्राणानामपि चात्यये ॥३९॥

भक्षयेन्नैव मांसानि शेषभोजी न लिप्यते ।

औषधार्थमशक्तौ वा नियोगाद यज्ञकारणात ॥४०॥

आमन्त्रितस्तु यः श्राद्धे दैवे वा मांसमूत्सृजेत ।

यावन्ति पशुरोमाणि तावतो नरकान व्रजेत ॥४१॥

अदेयं चाप्यपेयं च तथैवास्पृश्यमेव च ।

द्वीजाती नामनालोक्यं नित्यं मद्यामिति स्थितिः ॥४२॥

तस्मात सर्वप्रकारेण मद्यं नित्यं विवर्जयेत ।

पीत्वा पतति कर्मभ्यस्त्वम्सम्भष्यो भवेद द्विजः ॥४३॥

भक्शयित्वा ह्माभक्षाणि पीत्वाऽपेयान्यापि द्विजः ।

नधिकारी भवेत तावद यावद तन्न जहात्यधः ॥४४॥

तस्मात परिहरेन्नित्यमभक्ष्याणि प्रयत्‍नतः ।

अपेयानि च विप्रो वै तथा चेद याति रौरवम ॥४५॥

इति श्रीकूर्मपुराणे षटसाहस्त्रयां सवंहितायामुपरिविभागे सप्तदशोऽध्यायः ॥१७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2010-04-17T02:06:51.9270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

serious action

  • स्त्री. कडक कार्यवाही 
RANDOM WORD

Did you know?

घरातील देव्हारा कोणत्या वस्तुपासून बनविलेला असावा?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site