संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
चत्वारिंशोऽध्यायः

कूर्मपुराणः - चत्वारिंशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


तीर्थमाहात्म्य प्रकरणमें नर्मदा तथा उसके समीपवर्तीं तीर्थोंकी महिमा, मार्कण्डेय तथा युधिष्ठिरके संवादकी समाप्ति

मार्कण्डेय उवाच

ततो गच्छेत राजेन्द्र भृगुतीर्थमनुत्तमम ।

तत्र देवो भृगुः पुर्वं रुद्रमाराधयत पुरा ॥१॥

दर्शनात तस्य देवस्य सद्यः पापात प्रमुच्यते ।

एतत क्षेत्रं सुविपुलं सर्वपापप्रणाशनम ॥२॥

उपानहोस्तथा युग्मां देयमन्नं सकात्र्जनम ।

भोजनं च यथाशक्ति तदस्याक्षयमुच्यते ॥३॥

क्षरन्ति सर्वदानानि यज्ञदानं तपः क्रिया ।

अक्षयं तत तपस्तप्तं भृगुतीर्थे युधिष्ठिर ॥४॥

तस्यैव तपसोग्रेण तुष्टेन त्रिपुरारिणा ।

सांनिध्यं तत्र कथितं भृगुतीर्थे युधिष्ठिर ॥५॥

ततो गच्छेत राजेन्द्र गौतमेश्वरमुत्तमम ।

यत्राराध्य त्रिशुलांग गौतमः सिद्धिमाप्नुयात ॥६॥

तत्र स्नात्वा नरो राजन उपवासपरायनः ।

कात्र्चनेन विमानेन ब्रह्मालोके महीयते ॥७॥

वृषोत्सर्गं ततो गच्छेच्छाश्वतं पदमाप्नुयात ।

न जानन्ति नरा मुढा विष्णोर्मायाविमोहिताः ॥८॥

धौतपापं ततो गच्छेदं धौतं यत्र वृषेण तु ।

नर्मदायां स्थितं राजनं सर्वपातकनाशनम ।

तत्र तीर्थे नरः स्नात्वा ब्रह्माहत्यां व्यपोहति ॥९॥

तत्र तीर्थे तु राजेन्द्र प्राणत्यागं करोति यः ।

चतुर्भुजस्त्रिनेत्रश्च हरतुल्यबलो भवेत ॥१०॥

वसेत कल्पायुतं साग्रं शिवतुल्यापराक्रमः ।

कालेन महता जातः पृथिव्यामेकराड़ भवेत ॥११॥

ततो गच्छेत राजेन्द्र हंसतीर्थमनुत्तमम ।

तत्र स्नात्वा नरो राजन ब्रह्मालोके महीयते ॥१२॥

ततो गच्छेत राजेन्द्र सिद्धों यत्र जनार्दनः ।

वराहतीर्थमाख्यांता विष्णुलोकगतिप्रदम ॥१३॥

ततो गच्छेत राजेंन्द्र चन्द्रतीर्थमनुत्तमम ।

पौर्णमास्यां विशेषेण स्नानं तत्र समाचरेत ।

स्नातमात्रो नरस्तत्र चंन्द्रलोके महीयते ॥१४॥

ततो गच्छेत राजेन्द्र कन्यातीर्थमनुत्तमम ।

शुक्लपक्षे तृतीयांयां स्नानं तत्र समाचरेत ।

स्नातमात्रो नरस्तत्र पृथिव्यामेकराड़ भवेत ॥१५॥

देवतीर्थं ततो गच्छेत सर्वदेवनमस्कृतम ।

तत्र स्नात्वा च राजेन्द्र दैवतैः सह मोदते ॥१६॥

ततो गच्छेत राजेन्द्र शिखितीर्थमनुत्तमम ।

यत तत्र दीयते दानं सर्वं कोटिगुणं भवेत ॥१७॥

ततो गच्छेत राजेन्द्र तीर्थं पैतामहं शुभम ।

यत तत्र क्रियते श्राद्धं सर्वं तदक्षयं भवेत ॥१८॥

सावित्रीतीर्थमासाद्य यस्तु प्राणान परित्यजेत ।

विधुय सर्वपापानि ब्रह्मलोके महीयते ॥१९॥

मनोहरं तु तत्रैव तीर्थंक परमशोभनम ।

तत्र स्नात्वा नरो राजन दैवतैः सह मोदते ॥२०॥

ततो गच्छेत राजेन्द्र मानसं तीर्थमुत्तमम ।

स्नात्वा तत्र नरो राजन रुद्रलोके महियते ॥२१॥

स्वर्गबिन्दुं ततो गच्छेत तीर्थं देवनमस्कृतम ।

तत्र स्नात्वा नरो राजन दुर्गतिं नैव गच्छति ॥२२॥

अप्सरेशं ततो गच्छेत स्नानं तत्र समाचरेत ।

क्रीडते नाकलोकस्थो ह्राप्सरोभिः स मोदते ॥२३॥

ततो गच्छेत राजेन्द्र भारभुतिमनुत्तमम ।

उपोषितोऽर्चयेदीशं रुद्रलोकं महीयते ।

अस्मिस्तीर्थे मृतो राजन गाणपत्यमवाप्नुयात ॥२४॥

कार्तिके मासि देवेशमर्चयेत पार्वतीपतिम ।

अश्वमेधात दशगुणं प्रवदन्ति मनीषिणः ॥२५॥

वृषभं यः प्रयच्छेत तत्र कुन्देन्दुसप्रभम ।

वृषयुक्तेन यानेन रुद्रलोकं स गच्छति ॥२६॥

एतत तीर्थ समासाद्य यस्तु प्राणान परित्याजेत ।

सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥२७॥

जलप्रवेशं यः कुर्यात तस्मिस्तीर्थे नराधिप ।

हंसयुक्तेन यानेन स्वर्गलोकं स गच्छति ॥२८॥

एरण्ड्या नर्मदायास्तु संगमं लोकविश्रुतम ।

तत्र तीर्थंक महापुण्यं सर्वपापप्रणाशनम ॥२९॥

उपवासपरो भूत्वा नित्यं व्रतपरायणः ।

तत्र स्नात्वा तु राजेन्द्र मुच्यते ब्रह्माहत्यया ॥३०॥

ततो गच्छेत राजेन्द्र नर्मदोदधिसंगमम ।

जमदग्निरिति ख्यातः सिद्धो यत्र जनार्दनः ॥३१॥

तत्र स्नात्वा नरो राजन नर्मदोदधिसंगमें ।

त्रिगुणं चाश्‍वमेधस्य फलं प्राप्नोति मानवः ॥३२॥

ततो गच्छेत राजेन्द्र पिंगलेश्‍वरमुत्तमम ।

तत्र स्नात्वा नरो राजन रुद्रलोकं महीयते ॥३३॥

तत्रोपवासं यः कृत्वा पश्येत विमलेश्‍वरम ।

सप्तजन्मकृतं पापं हित्वा याति शिवालयम ॥३४॥

ततो गच्छेत राजेन्द्र आलिकातीर्थमुत्तमम ।

उपोष्य रजनीमेकां नियतो नियताशनः ।

अस्य तीर्थस्य महाम्त्यान्मुच्यते ब्रह्माहत्यया ॥३५॥

एतानि तव संक्षेपात प्राधान्यात कथितानि तु ।

न शक्य विस्तराद वक्तुं संख्या तीर्थेषु पाण्डव ॥३६॥

एषा पवित्रा विमला नदी त्रैलोक्यविश्रुता ।

नर्मदा सरितां श्रेष्ठा महादेवस्य वल्लभा ॥३७॥

मनसा संस्मरेद्यस्तु नर्मदां वै युधिष्ठिर ।

चान्द्रायणशतं साग्रं लभते नात्र संशयः ॥३८॥

अश्रद्दधानाः पुरुषा नास्तिक्यं घोरमाश्रिताः ।

पतन्ति नरके घोरे इत्याह परमेश्वरः ॥३९॥

नर्मदां सेवते नित्यं स्वयं देवो महेश्वरः ।

तेन पुण्या नदी ज्ञेया ब्रह्माहत्यापहारिणी ॥४०॥

इति श्रीकूर्मपुराणे षटसाहस्रयां संहितायामुपरिविभागे चत्वारिंशोऽध्यायः ॥४०॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP