TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
चतुस्त्रिशोऽध्यायः

कूर्मपुराणः - चतुस्त्रिशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


चतुस्त्रिशोऽध्यायः

तीर्थमाहात्म्य प्रकरणमें प्रयाम, गया, एकाम्र तथा पुष्कर आदि विविध तीर्थोंकी महिमका वर्णन, सप्तसारस्वत तीर्थके वर्णनमें शिवभक्त मंकणक मुनिका आख्यान

ऋषय ऊचुः

तीर्थानि यानि लोकेऽस्मिन विश्रुतानि महान्ति च ।

तानि त्वं कथयास्माकं रोमहर्षण साम्प्रतम ॥१॥

रोमहर्षण उवाच

श्रृणुध्वं कथयिष्येऽहं तीर्थानि विविधानि च ।

कथितानि पुराणेषु मुनिभिर्ब्रह्मावादिभिः ॥२॥

यत्र स्नानं जपो होमः श्राद्धदानादिकं कृतम ।

एकैकशो मुनिश्रेष्ठोः पुनात्यासप्तमं कुलम ।

पंत्र्चयोजनाविस्तीर्णां ब्रह्माणः परमेष्ठिनः ॥४॥

अन्यच्च तीर्थप्रवरं कुरुणां देववन्दितम ।

ऋषीणामाश्रमैर्जुष्टं सर्वपापविशोधनम ॥५॥

तत्र स्नात्वा विशुद्धात्मा दम्भमात्सर्यवर्जितः ।

ददाति यत्किच्चिदपि पुनात्युभयतः कुलम ॥६॥

गयातीर्थं परं गुह्मां पितृणा चातिवल्लभम ।

कृत्वा पिण्डप्रदानं तु न भुयो जायते नरः ॥७॥

सकृद गयाभिगमनं कृत्वा पिण्डं ददाति यः ।

तारिताः पितरस्तेन यास्यन्ति परमां गतिम ॥८॥

तत्र लोकहितार्थाय रुद्रेण परमात्मना ।

शिलातले पदं न्यस्तं तत्र पितृन प्रसादयेत ॥९॥

गया‍ऽभिगमनं कर्तुं यः शक्तो नाभिगच्छति ।

शोचन्ति पितरस्तं वै वृथा तस्य परिश्रमः ॥१०॥

गायन्ति पितरो गाथाः कीर्तयान्ति महर्षयः ।

गयां यास्यति य कश्चित सोऽस्मान संतरयिष्याति ॥११॥

यदि स्यात पातकोपतेः स्वधर्मरतिवर्जितः ।

गयां यास्यति वंश्यो यः सोऽस्मान संतारयिष्यति ॥१२॥

एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः ।

तेषां तु समवेतानां यद्येकोऽपि गयां व्रजेत ॥१३॥

तस्मात सर्वप्रयत्नेन ब्राह्मणस्तु विशेषतः ।

प्रदद्याद विधिवत पिण्डान गयां गत्वा समाहितः ॥१४॥

धन्यास्तु खलु ते मर्त्या गयायां पिण्डदायिनः ।

कुलान्युभयतः सप्त समुद्धत्याप्नुयात परम ॥१५॥

अन्यच्च तीर्थप्रवरं सिद्धावासमुदाहृतम ।

प्रभासमिति विख्यातं यत्रास्ते भगवान भवः ॥१६॥

तत्र स्नानं तपः श्राद्धं ब्राह्मणानां च पुजनम ।

कृत्वा लोकमवाप्नोति ब्रह्माणोऽक्षय्यमुत्तमम ॥१७॥

तीर्थं त्रैयम्बकं नाम सर्वदेवनमस्कृतम ।

पुजयित्वा तत्र रुद्रं ज्योतिष्टोमफलं लभेत ॥१८॥

सुवर्णाक्षं महादेवं समभ्यर्च्य कपर्दिनम ।

ब्राह्मणान पूजयित्वा तु गाणपत्यं लभेद ध्रुवम ॥१९॥

सोमेश्‍वरं तीर्थवरं रुद्रस्य परमेष्ठिनः ।

सर्वव्याधिहरं पुण्यं रुद्रसालोक्यकारणम ॥२०॥

तीर्थानां परमं तीर्थ विजयं नाम शोभनम ।

तत्र लिंग महेशस्य विजयं नाम विश्रुतम ॥२१॥

षण्ममासान नियताहारो ब्रह्माचारी समाहितः ।

उषित्वा तत्र विप्रेन्द्रा यास्यान्ति परमं पदम ॥२२॥

अन्यच्च तीर्थप्रवरं पूर्वदेशे सुशोभनम ।

एकाम्रं देवदेवस्य गाणपत्यफलप्रदम ॥२३॥

दत्वात्र शिवभक्तानां किंत्रिच्छश्वन्महीं शुभाम ।

सार्वभौमो भवेद राजा मुमुक्षुर्मोक्षमाप्नुयात ॥२४॥

महानदीजलं पुण्यं सर्वपापविनाशनम ।

ग्रहणे समुपस्पृश्य मुच्यते सर्वपातकैः ॥२५॥

अन्या च विरजा नाम नदी त्रैलोक्यविश्रुता ।

तस्या स्नात्वा नरो विप्रा ब्रह्मालोके महीयते ॥२६॥

तीर्थं नारायणस्यान्यन्नाम्रा तु पुरुशोत्तमम ।

तत्र नारायणः श्रीमानास्ते परमपुरुषः ॥२७॥

पुजयित्वा परं विष्णुं स्नात्वा तत्र द्विजोत्तमः ।

ब्राह्मणान पूजयित्वा तु विष्णुलोकमवाप्नुयात ॥२८॥

तीर्थानां परमं तीर्थ गोकर्णं नाम विश्रुतमः ।

सर्वपापहरं शम्भोर्निवासः परमेष्ठिनः ॥२९॥

दृष्टा लिंग तु देवस्य गोकर्णेश्‍वरमुत्तमम ।

ईप्सिताँल्लभते कामान रुद्रस्य दयितो भवेत ॥३०॥

उत्तरं चापि गोकर्णं लिंग देवस्य शुलिनः ।

महादेवस्यार्चयित्वा शिवसायुज्यमाप्नुयात ॥३१॥

तत्र देवो महादेवः स्थाणुरित्याभिविश्रुतः ।

तं दृष्टा सर्वपापेभ्यो मुच्यते तत्क्षणान्नरः ॥३२॥

अन्यत कुब्जाम्रमतुलं स्थानं विष्णोर्महात्मनः ।

सम्पुज्य पुरुषं विष्णुं श्‍वेतद्वीपे महीयते ॥३३॥

यत्र नारायणो देवो रुद्रेण त्रिपुरारिणा ।

कृत्वा यज्ञस्य मथनं दक्षस्य तु विसर्जितः ॥३४॥

समन्ताद योजदं क्षेत्रं सिद्धर्शिगणवन्दितम ।

पुण्यमायतनं विष्णोस्तत्रास्ते पुरुषोत्तमः ॥३५॥

अन्यत कोकामुखं विष्णोस्तीर्थमदभुतकर्मणः ।

मृतोऽत्र पातकैर्मुक्तो विष्णुसारुप्यमाप्नुयात ॥३६॥

शालग्रामं महातीर्थं विष्णोः प्रीतिविवर्धनम ।

प्राणास्तत्र नरस्त्यक्त्वा हृषीकेशं प्रपश्यति ॥३७॥

अश्वतीर्थमिति ख्यातं सिद्धावांस सुपावनम ।

आस्ते हयशिरा नित्यं तत्र नारायणः स्वयम ॥३८॥

तीर्थं त्रैलोक्यविख्यातं ब्रह्माणः परमेष्ठिनः ।

पुष्करं सर्वपापघ्रं मृतानां ब्रह्मालोकदम ॥३९॥

मनसा संस्मरेद यस्तु पुष्करं वै द्विजोत्तमः ।

पुयते पातकैः सर्वैः शक्रेण सह मोदते ॥४०॥

तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ।

उपासते सिद्धसंघा ब्रह्माणं पद्मसम्भवम ॥४१॥

तत्र स्नात्वा भवेच्छुद्धो ब्रह्माणां परमेष्ठिनम ।

पुजयित्वा द्विजवरान ब्रह्माणां सम्प्रपश्यति ॥४२॥

तत्राभिगम्य देवेशं पुरुहुतमनिन्दितम ।

सुरुपो जायते मर्त्यः सर्वान काम नवाप्नुयात ॥४३॥

सप्तसारस्वतं तीर्थं ब्रह्माद्यैः सेवितं परम ।

पुजयित्वा तत्र रुद्रमश्वमेधफलं लभेत ॥४४॥

यत्र मंकणको रुद्रं प्रपन्नः परमेश्वरम ।

आराधयामास हरं पंचाक्षरपरायणः ॥४५॥

नमः शिवायेति मुनिः जपन पंत्र्चाक्षरं परम ।

आराधयामास शिवं तपसा गोवृषध्वजम ॥४६॥

प्रजज्वालाथ तपसा मुनिर्मकंणकस्तदा ।

ननर्त हर्षवेगेन ज्ञात्वा रुद्रं समागतम ॥४७॥

तं प्राह भगवान रुद्रः किमर्थः नर्तितं त्वया ।

दृष्टापि देवमीशानं नृत्याति स्म पुनः पुनः ॥४८॥

सोऽन्वीक्ष्य भगवानीशः सगर्व गर्वशान्तये ।

स्वकं देहं विदार्यास्मै भस्मराशिमदर्शयत ॥४९॥

पश्येमं मच्छरीरोत्थं भस्मराशिं द्विजोत्तम ।

माह्मात्म्यमेतत तपसस्त्वाद्वशोऽन्योऽपि विद्यते ॥५०॥

यत सगर्वं हि भवता नर्त्तितं मुनिपुंगव ।

न युक्तं तापसस्यैतत त्वत्तोऽप्यत्राधिको ह्राहम ॥५१॥

इत्याभाष्य मुनिश्रेष्ठं स रुद्रः किल विश्‍वदृक ।

आस्थाय परमं भावं ननर्त जगतो हरः ॥५२॥

सहस्त्रशीर्षा भुत्वा सहस्त्राक्षाः सहस्त्रपात ।

दंष्ट्राकरालवदनो ज्वालामालीः भयंकरः ॥५३॥

सोऽन्वाश्यदशेषस्य पार्श्‍वे तस्य त्रिशुलिनः ।

विशाललोचनामेकां देवी चारुविलासिनीम ।

सुर्यायुतसमप्रख्यां प्रसन्नवदनां शिवाम ॥५४॥

सस्मितं प्रेक्ष्यं विश्‍वेशं तिष्ठन्तीममितद्युतिम ।

दृष्टा संत्रस्तहृदयो वेपमानो मुनीश्वरः ।

ननाम शिरसा रुद्रं रुद्राध्यायं जपन वशी ॥५५॥

प्रसन्नो भगवानीशस्त्र्यम्बको भक्तवत्सलः ।

पुर्ववेषं स जग्राह देवी चान्तर्हिताभवत ॥५६॥

आलिंग भक्तं प्रणतं देवदेवः स्वयं शिवः ।

न भेतव्यं त्वया वत्स प्राह किं ते ददाम्यहम ॥५७॥

प्रणम्य मुर्ध्ना गिरिशं हरं त्रिपुरसुदनम ।

विज्ञापयामास तदा हृष्टा प्रष्टुमना मुनिः ॥५८॥

नमो‍ऽस्तु ते महादेव महेश्वर नमोऽस्तु ते ।

किमेतद भगवदरुपं सुघोरं विश्‍वतोमुखम ॥५९॥

का च सा भगवत्पार्श्‍वे राजमाना व्यवस्थिता ।

अन्तर्हितेव सहसा सर्वमिच्छामि वेदितुम ॥६०॥

इत्युक्ते व्याजहारेमं तथा मंकणकं हरः ।

महेशः स्वात्मनो योगं देवीं च त्रिपुरानलः ॥६१॥

अहं सहस्त्रनयनः सर्वात्मा सर्वतोमुखः ।

दाहक सर्वपापानां कालः कालकरो हरः ॥६२॥

मयैव प्रेर्यते कृत्स्नं चेतनाचेतनात्मकम ।

सोऽन्तर्यामी स पुरुषो ह्राहं वै पुरुषोत्तमः ॥६३॥

तस्य सा परमा माया प्रकृतिस्त्रिगुणात्मिका ।

प्रोच्यते मुनिभिः शक्तिर्जद्योनिः सनातनी ॥६४॥

स एष मायया विश्‍वं व्यामोहयति विश्वववित ।

नारायणः परोऽव्यक्तो मायारुप इति श्रुतिः ॥६५॥

एवमेतज्जगत सर्वं सर्वदा स्थापयाम्यहम ।

योजयामि प्रकृत्याहं पुरुषं पंचविशंकम ॥६६॥

तथा वै संगतो देवः कुटस्थः सर्वगोऽमलः ।

सृजत्यशेषमेवेदं स्वमुर्तः प्रकृतेरजः ॥६७॥

स देवो भगवान ब्रह्मा विश्‍वरुपः पितामहः ।

तवैतत कथितं सम्यकं स्त्रष्ट्रत्वं परमात्मनः ॥६८॥

एको‍ऽहं भगवान कालो ह्रानादिश्चान्तकृद विभुः ।

समास्थायं परं भावं प्रोक्तो रुद्रो मनीषिभिः ॥६९॥

मम वै सापरा शक्तिर्देवो विद्येति विश्रुता ।

दृष्टा हि भवता नुनं विद्यादेहस्त्वहं ततः ॥७०॥

एवमेतानि तत्वानि प्रधानपुरुषेश्‍वराः ।

विष्णुर्ब्रह्मा च भगवान रुद्रः काल इति श्रुतिः ॥७१॥

त्रयमेतदनाद्यन्तं ब्रह्माण्येव व्यवस्थितम ।

तदात्मकं तदव्यक्तं तदक्षरमिति श्रुतिः ॥७२॥

आत्मानन्दपरं तत्त्वं चिन्मात्रं परमं पदम ।

आकाशं निष्कलं ब्रह्मा तस्मादन्यन्न विद्यते ॥७३॥

एवं विज्ञाय भवता भक्तियोगाश्रयेण तु ।

सम्पुज्यो वन्दनीयोऽहं ततस्तं पश्य शाश्‍वतम ॥७४॥

एतावदुक्त्वा भगवात्र्जगामादर्शनं हरः ।

तत्रैव भक्तियोगेन रुद्रमाराधनन्मुनिः ॥७५॥

एतत पवित्रमतुलं तीर्थं ब्रह्मार्षिसेवितम ।

संसेव्यं ब्राह्मणो विद्वान मुच्यते सर्वपातकैः ॥७६॥

इति श्रीकूर्मपुराणे षटसाहस्त्रयां संहितायामुपरिविभागे चतुस्त्रिशोऽध्यायः ॥३४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2010-04-17T04:38:24.5400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

brevis

  • लघु 
RANDOM WORD

Did you know?

भक्त आणि भक्ती या संकल्पना स्पष्ट कराव्यात.
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.