TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
चतुर्दशोऽध्यायः

कूर्मपुराणः - चतुर्दशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


चतुर्दशोऽध्यायः

ब्रह्मचारीके आचारका वर्णन, गुरुसे अध्ययन आदिकी विधि, ब्रहमचारीका धर्म, गुरु तथा गुरुपत्नीके साथ व्यवहरका वर्णन, वेदाध्ययन और गायत्रीकी महिमा अनध्यायोंका वर्णन, ब्रह्मचारेधर्मका उपसंहार

व्यास उवाच

एवं दण्ददिभिर्युक्तः शौचाचारसमन्वितः ।

आहूतोऽध्ययनं कुर्याद वीक्षमाणो गुरोर्मुखम ॥१॥

नित्यमुद्यतपाणिः स्यात साध्वाचारः सुसंयतः ।

आस्यातामिति चोक्तः सन्नासीताभिमुखं गुरो ॥२॥

प्रतिश्रवणसम्भाषे शयानो न समाचरेत ।

नासीनो न च भुत्र्जानो न तिष्ठन्न परांगमुखः ॥३॥

नीचं शय्यासनं चास्य सर्वदा गुरुसंनिधौ ।

गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत ॥४॥

नोदाहरेदस्य नाम परोक्षमापि केवलम ।

न चैवास्यानुकुर्वीत गतिभाषणचेष्टितम ॥५॥

गुरोर्यत्र परिवादो निन्दा चापि प्रवर्तते ।

कर्णो तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥६॥

दुरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः ।

न चैवास्योत्तरं ब्रुयात स्थितो नासीत संनिधौ ॥७॥

उदकुम्भं कुशान पुष्पं समिधोऽस्याहरेत सदा ।

मार्जनं लेपनं नित्यमंगानां वै समाचरेत ॥८॥

नास्य निर्माल्यशयनं पादुकोपानहावपि ।

आक्रमेदासनं चास्य छायादीन वा कदाचन ॥९॥

साधयेद दन्तकाष्ठादीन लब्धं चास्मै निवेदयेत ।

अनापृच्छय न गन्तव्यं भवेत प्रियहिते रतः ॥१०॥

न पादौ सारयेदस्य संनिधाने कदाचन ।

जृम्भितं हसितं चैव कण्ठप्राव्रणं तथा ।

वर्जयेत सन्निंधौ नित्यमवस्फ्टनमेव च ॥११॥

यथाकालमधीयीत यावन्न विमना गुरुः ।

आसीताधो गुरोः कुर्चे फलके वा समाहितः ॥१२॥

आसने शयने याने नैव तिष्टेत कदाचन ।

धावन्तमनुधावेत गच्छन्तमनुगच्छति ॥१३॥

गोऽश्चोष्ट्रयानप्रासदप्रस्तरेषु कटेषु च ।

आसीत गुरुणा सार्धं शिलाफलकनौषु च ॥१४॥

जितेन्द्रियः स्यात सततं वश्यात्माक्रोधनः शुचिः ।

प्रयुत्र्चीत सदा वाचं मधुरां हितभषिणीम ॥१५॥

गन्धमाल्यं रसं कल्यां शुक्तं प्रणिविर्हिसनम ।

अभ्यंग चात्र्चनोपानच्छत्रधरणमेव च ॥१६॥

कामं लोभं भयं निद्रां गीतावादित्रनर्तनम ।

आतर्जनं परिवादं स्त्रीप्रेक्षलम्भनं तथा ।

परोपघातं पैशुन्यं प्रयत्नेन विवर्जयेत ॥१७॥

उदकुम्भं सुमनसो गोश्कृन्मृत्तिका कुशन ।

अहरेद यावदर्थानि भैक्ष्यः चाहरहश्चरेत ॥१८॥

कृतं च लवणं सर्वं वर्ज्यं पर्युषितं च यत ।

अनृत्यदर्शीं सततं भवेद गीतादिनीः स्पृहः ॥१९॥

नादित्यं वै समीक्षेत न चरेद दन्तधावनम ।

एकान्तमशुचिस्त्रीभिः शुद्रान्त्यैरभिभाषणम ॥२०॥

गुरुच्छिष्टं भेषाजार्थं प्रयुज्जीत न कामतः ।

मलापकर्षणस्नानं नाचरेद्धि कदाचन ॥२१॥

न कुर्यान्मानसं विप्रो गिरोस्त्याने कदाचन ।

मोहाद वा यदि वा लोभात त्यक्तेन पतितो भवेत ॥२२॥

लौकिकं वैदिकं चापि तथाध्यात्मिकमेव च ।

आददीत यतो ज्ञानं न तं द्गुह्रोत कदाचन ॥२३॥

गुरोरप्यवलिप्तस्य कार्याकार्यमजानत ।

उप्तथप्रतिपन्नस्य मनुस्यागं समब्रवीत ॥२४॥

गुरोर्गुरौ संनिहिते गुरुवद भक्तिमाचरेत ।

न चातिष्टुष्टो गुरुणो स्वान गुरुनाभिवादयेत ॥२५॥

विद्यागुरुष्वेतदेव नित्या वृत्तिः स्वयोनिषुः ।

प्रतषेधत्सु चाधर्माद्धितं चोपदिशत्स्वपि ॥२६॥

श्रेयस्सु गुरुवद वृत्तिं नित्यमेव समाचरेत ।

गुरुपुत्रेष दारेषु गुरोश्चैव स्वबन्धुष ॥२७॥

बालः समानजन्मा वा शिष्यो वा यज्ञकर्माणि ।

अध्यापयन गुरुसुतो गुरुवन्मानमर्हति ॥२८॥

उत्सादनं वै गात्राणां स्नापनोच्छिष्टभोजने ।

न कुर्याद गुरुपुत्रस्य पादयो शौचमेव च ॥२९॥

गुरुवत परिपुज्यास्तुः सुवर्णा गुरुयोषितः ।

असवर्णास्तु सम्पुज्याः प्रत्युत्थानाभिवादनैः ॥३०॥

अभ्यत्र्जनं स्नापनं च गोत्रोत्सादनमेव च ।

गुरुपन्त्यां न कार्याणि केशानां च प्रसाधनम ॥३१॥

गुरुपत्नी तु युवती नाभिवाद्येह पादयोः ।

कुर्वीत वन्दनं भुम्यामसावहमिति ब्रुवन ॥३२॥

विप्रोष्य पादग्रहणमन्वहं चाभिवादनम ।

गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन ॥३३॥

मातृष्वस मातुलानी श्‍वश्रुश्चाथ पितृष्वसा ।

सम्पुज्या गुरुपत्‍नीव समास्ता गुरुभार्यया ॥३४॥

भ्रातुर्भार्योपसंग्राह्या सवर्णाहन्यहन्यपि ।

विप्रोष्य तुपसंग्राह्या ज्ञातिसम्बान्धियोषितः ॥३५॥

पितृर्भगिन्यां मातुश्च ज्यायस्यां च स्वयर्यपि ।

मातृवद वृत्तिमातिष्ठेन्माता ताभ्यो गरियसी ॥३६॥

एवमाचरसम्पन्नमात्मवन्तमदाम्भिकम ।

वेदमध्यापयेत धर्मं पुराणागंनि नित्यशः ॥३७॥

संवत्सरोषिते शिष्ये गुरुर्ज्ञानमनिर्दिशन ।

हरते दुष्कृतं तस्य शिष्यस्य वसतो गुरुः ॥३८॥

आचर्यपुत्रः शुश्रुषुर्ज्ञनदो धार्मिकः शुचिः ।

शक्तोऽन्नदोऽर्थि स्वःसाधुरध्याप्या दश धर्मतः ॥३९॥

कृतज्ञश्च तथद्रोही मेधावी शुभकृन्नरः ।

अप्तः प्रियोऽथ विधिवत षडधाप्या द्विजातयः ।

एतेषु ब्राह्मणो दानमन्यत्र तु यथोदितान ॥४०॥

आचन्य संयतो नित्यमधीयीत उदंमुखः ।

उपसंगृह्म तत्पादौ विक्षंमाणो गुरोर्मुखम ।

अधीष्व भो इति विरामोऽस्त्विति चारमेत ॥४१॥

प्राक्वूलान पर्यपासीनः पवित्रैश्चैव पावितः ।

प्राणायामैस्त्रिभिः पुतस्तत ओंकारमर्हति ॥४२॥

ब्राह्मणः प्रणवं कुर्यदन्ते च विधिवद द्विज ।

कुर्यादध्ययनं नित्यं स ब्रह्मात्र्चलिपुर्वतः ॥४३॥

सर्वेषामेव भुतानां वेदश्चक्षुः सनातनम ।

अधीयीताप्ययं नित्यं ब्राह्मण्याच्चयवतेन्यथा ॥४४।

योऽधीयीत ऋचो नित्यं क्षीराहुत्या स देवताः ।

प्रीणाति तर्पयन्त्येन कामैस्तुत्पाः सदैव हि ॥४५॥

यजुंष्यधीते नियतं दध्ना प्रीणति देवताः ।

सामान्यधीते प्रीणति घृताहुतिभिरन्वहम ॥४६॥

अथर्वागिंरसो नित्यं मध्वा प्रीणाति देवताः ।

धर्मागाणि पुराणानि मांसैस्तर्पयते सुरान ॥४७॥

अपां समीपे नियतो नैत्यकं विधिमाश्रितः ।

गायत्रीमप्यधीयीत गत्वारण्यं समाहितः ॥४८॥

सहस्त्रपरमां देवी शतमध्यां दशावराम ।

गायत्रें वै जपेन्नित्यं जपयज्ञः प्रकीर्तितः ॥४९॥

गायत्रीं चैव वेदांश्च तुलयोऽतोलयत प्रभुः ।

एकतश्चतुरो वेदान गायत्रें च तथैकतः ॥५०॥

ओंकारमादितः कृत्वा व्याहृतिस्तदनन्तरम ।

ततोऽधीयीत सावित्रीमेकाग्रः श्रद्धायान्वितः ॥५१॥

पुराकल्पे समुप्तता भूर्भुवः स्व सनातनाः ।

महव्याह्रुतयस्तिस्त्रः सर्वाशुभनिबर्हणाः ॥५२॥

प्रधानं पुरुषःकालो विष्णूर्ब्रह्मा महेश्वरः ।

सत्त्वं रजस्तमस्तिस्त्रः क्रमाद व्याहृतयः स्मृताः ॥५३॥

ओकारस्तत परं ब्रह्मा सावित्री स्यात तदक्षरम ।

एष मन्त्रो महायोग सारात सार उदाहृतः ॥५४॥

योऽधीतेऽहन्यहन्येतां गायत्रीं वेदमताम ।

विज्ञायर्थं ब्रहमचारी स याति परमा गतिम ॥५५॥

गायत्री वेदजननी गायत्री लोकपावनी ।

न गायत्र्याः परं जप्यमेतद विज्ञाय मुच्यते ॥५६॥

श्रावणस्य तु मासस्य पौर्णमास्यां द्विजोत्तमाः ।

आषाढ्यां प्रोष्ठपद्मां वा वेदोपाकरणं स्मृतम ॥५७॥

उत्सुज्य ग्रामनगरं मासान विप्रोऽर्धपचंमान ।

अधीयीत शुचौ देशे ब्रह्माचारी समाहितः ॥५८॥

पुष्ये तु छन्दसां कुर्याद बहिरुत्सर्जनं द्विजः ।

माघशुक्लस्य वा प्राप्ते पुर्वाह्ने प्रथमेऽहनिः ॥५९॥

छन्दांस्युर्ध्वमथोऽभयस्येच्छुक्लपक्षेषु वै द्विजः ।

वेदांगनि पुरणानि कृष्णपक्षे च मानवम ॥६०॥

इमान नित्यमनध्यायानधीयानो विवर्जयेत ।

अध्यापनं कुर्वाणो ह्माभ्यस्यन्नपि यत्‍नतः ॥६१॥

कर्णश्रवेऽनिले रात्रौ दिवा पांशुसमुहने ।

विद्युत्स्तनितवर्षषु महोल्कानां च सम्प्लवे ।

आकालिकमनध्यायमेतेष्वाह प्रजापतिः ॥६२॥

एतानभ्युदितान विद्यात यदा प्रादुष्कृताग्निषु ।

तदा विद्यादनध्यायमनृती चाभ्रदर्शने ॥६३॥

निर्धाते भूमिचलने ज्योतिषां चोपसर्जने ।

एतानाकालिकान विद्यादनध्यायानृतावपि ॥६४॥

प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिस्वने ।

सज्येतिः स्यादनध्यायः शेषरत्रौ यथा दिवा ॥६५॥

नित्यानध्याय एव स्याद ग्रामेषु नगरेषु च ।

धर्मनै पुण्यकामानां पुत्रिगन्धे च नित्यशः ॥६६॥

अन्तः शवगते ग्रामे वृषलस्य च संनिधौ ।

अनध्ययो रुद्यमानो समवाये जनस्य च ॥६७॥

उदके मध्यरात्रे च विण्मुत्रे च विसर्जने ।

उच्छिष्टः श्राद्धभुक चैव मनसापि न चिन्तयेत ॥६८॥

प्रतिगृह्मा द्विजो विद्वानेकोदिष्टास्य केतनम ।

त्र्यहं न कीर्तयेद ब्रह्मा राज्ञो राहोश्च सुतके ॥६९॥

यावदेकोऽनुदिष्टस्य स्नेहो गन्धश्च तिष्ठति ।

विप्रस्य विदुषो देहे तावद ब्रह्म न कीर्तयेत ॥७०॥

शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम ।

नाधीयातमिषं जग्ध्वा सुतकान्नाद्यमेव च ॥७१॥

नीहारे बाणशब्दे च संध्ययोरुभयोरपि ।

अमावास्यां चतुर्दश्यां पौर्णमास्यष्टमीषु च ॥७२॥

उपाकर्मणि चोत्सर्ग त्रिरात्रं क्षपणं स्मृतम ।

अष्टकासु त्वहोरात्रं ऋत्वन्त्यासु च रात्रिषु ॥७३॥

मार्गशीर्षे तथ पौषे माघमासे तथैव च ।

तिस्त्रोऽष्टकाः समाख्याताः कृष्णपक्षे तु सुरिभिः ॥७४॥

श्‍लेषमातकस्य छयायां शाल्मलेर्मधुकस्य च ।

कदाचिदपि नाध्येयं कोविदारकपित्थयोः ॥७५॥

समानविद्ये च मृते तथा सब्रहाचारिणी ।

आचर्ये संस्थिते वापि त्रिरात्रं क्षपणं स्मृतम ॥७६॥

छिद्राण्येतानि विप्राणां येऽनध्यायाः प्रकीर्तिताः ।

हिंसन्ति राक्षसास्तेषु तस्मादेतान विवर्जयेत ॥७७॥

नैत्यिके नास्त्यनध्यायः संध्योपासन एव च ।

उपाकर्मणि कर्मान्ते होममन्त्रेषु चैव हि ॥७८॥

एकामृचमथैकं वा यजुः सामाथवा पुनः ।

अष्टकाद्यास्वधीयीत मारुते चातिवायति ॥७९॥

अनध्यायस्तु नांगेषु नेतिहासपुराणयोः ।

न धर्मशास्त्रेष्वन्येषु पर्वन्येतानि वर्जयेत ।८०॥

एष धर्मः समासेन कीर्तितो ब्रह्माचारिणाम ।

ब्रह्माणाभिहित पुर्वमृषीणां बहवितात्मनाम ॥८१॥

योऽन्यत्र कुरुते यत्नमनधीत्य श्रुतिं द्विजः ।

स सम्मुढो न सम्भाष्यो वेदबाह्यों द्विजातिभिः ॥८२॥

न वेदपाठमात्रेण संतुष्ठो वै भवेद द्विजः ।

पाठमात्रावसन्नस्तु पकें गौरिव सीदति ॥८३॥

योऽधीत्य विधिवद वेदं वेदर्थ न विचारयेत ।

स सान्वयः शुद्रकल्पः पात्रतां न प्रपद्यते ॥८४॥

यदि त्वात्यन्तिकं वासं कतुमिच्छति वै गुरौ ।

युक्तः ज्परिचरेदेनमाशरीरविमोक्षणात ॥८५॥

गत्वा वनं वा विधिवज्जुहयाज्जावदेव्सम ।

अधीयीत सदा नित्यं ब्रह्मानिष्ठ समाहितः ॥८६॥

सावित्रीं शतरुद्रीय वेदान्ताश्च विशेषतः ।

अभ्यसेत सतत युक्तो भस्मस्नानपरायणः ॥८७॥

एतद विधानं परमं पुराणं विदागमें सम्यगिहेरितं वः ।

पुरा महर्षिप्रवराभिपृष्टः स्ययम्भुवो यन्मनुराह देवः ॥८८॥

एवमीश्वरसमर्पितान्तरो योऽनुतिष्ठिति विधिं विधानवित ।

मोहजालमपहाय सोऽमृतो याति तत पदमनामयं शिवम ॥८९॥

इति श्रीकूर्मपुराण षटसाहस्रयां संहितायामुपारिविभागे चतुर्दशोऽध्यायः ॥१४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2010-04-17T02:04:19.6070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ILĀVṚTA (ILAVṚTTA)(इलावृत)

  • A locality. (See Bhūguṇita). 
RANDOM WORD

Did you know?

वास्‍तुदोषावर आरसा काय करतो आरशांचा उपयोग कसा होतो
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site