संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
षडविंशोऽध्यायः

कूर्मपुराणः - षडविंशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


दानधर्मका निरुपण एवं नित्य, नैमित्तिकं काम्य तथा विमल चतुर्विध दान भेद दानके अधिकारी तथा अनधिकारी कामना भेदसे विविध देवताओंकी आराधानका विधान, ब्राह्मणकी महिमा तथा दानधर्मप्रकरणका उपसंहार

व्यास उवाच

अथातः सम्प्रवक्षामि दानधर्ममनुत्तमम ।

ब्रह्माणाभिहितं पुर्वमृषीणां ब्रह्मावादिनाम ॥१॥

अर्थानामूदिते पात्रे श्रद्धया प्रतिपादनम ।

दानमित्याभिनिर्दिष्टं भुक्ति मुक्तिफलप्रदम ॥२॥

यद ददति विशिष्टेभ्यः श्रद्धया परया युतः ।

तद वै वित्तमहं मन्ये शेषं कस्यापि रक्षति ॥३॥

नित्यं नैमित्तिकं काम्यं त्रिविंध दानमुच्यते ।

चतुर्थं विमलं प्रोक्तं सर्वदानोत्तमोत्तमम ॥४॥

अहन्यहनि यत किंचिद दीयतेऽनुपकारिणे ।

अनुद्दिश्य फलं तस्माद ब्राह्मणाय तु नित्यकम ॥५॥

यत तु पापेपाश्यन्त्यर्थं दीयते विदुषां करे ।

नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुष्ठितम ॥६॥

अपत्यविजयैश्वर्यस्वार्गार्थं यत प्रदीयते

दान ततं काम्यमाख्यातमृषिभिर्धर्मचिन्तकै ॥७॥

यदीश्वरप्रीणनार्थं ब्रह्मावित्सु प्रदियते ।

चेतस धर्मयुक्तेन दानं तद विमलं शिवम ॥८॥

दानधर्म निषेवेत पात्रमासाद्य शक्तितः ।

उप्तस्यते हि तत्पात्रं यत तारयति सर्वतः ॥९॥

कुटुम्बभक्तावसनाद देयं यदतिरिच्यते ।

अन्यथा दीयते यद्धि न तद दानं फलप्रदम ॥१०॥

श्रोत्रियय कुलीनाय विनीताय तपस्विने ।

वृत्तस्थाय दरिद्राय प्रदेयं भक्तिपुर्वकम ॥११॥

यस्तु दद्यान्महीं भाक्त्या ब्राह्मणायहिताग्नये ।

स याति परमं स्थानं यत्र गत्वा न शोचति ॥१२॥

इक्षुभिः संततां भुंमिं यवगोधुमशालिनीम ।

ददति वेदाविदुषें यः स भुयो न जायते ॥१३॥

गोचर्ममात्रामपि वा यो भूमिं सम्प्रयच्छति ।

ब्राह्मणाय दरिद्राय सर्वपापैः प्रमुच्यते ॥१४॥

भूमिदानात परं दानं विद्यते नेह किंचन ।

अन्नदानं तेन तुल्यं विद्यादानं ततोऽधिकाम ॥१५॥

यो ब्राह्मणाय शान्ताय शुचये धर्मशालीने ।

ददाति विद्यं विधिनां ब्रह्मालोके महीयते ॥१६॥

दद्यादहहस्त्वनां श्रद्धया ब्रह्माचारिणे ।

सर्वपापविनिर्मुक्तो ब्रह्माणः स्थानामाप्नुयात ॥१७॥

गृहस्थायान्नदानेन फलं प्रात्नोति मानवः ।

आममेवास्य दातव्यं दत्त्वाप्नोति परां गतिम ॥१८॥

वैशाक्यां पौर्णमास्यं तु ब्राह्मणान सप्त पंत्र्च वा ।

उपोष्य विधिना शान्तः शुचि प्रयतमानसः ॥१९॥

पुजयित्वा तिलैः कृष्णैर्मुधना च विशेषतः ।

गन्धादिभिः समभ्यर्च्य वचयेद वा स्वयं वदेत ॥२०॥

प्रीयतां धर्मराजेति यद वा मनासि वर्तते ।

उआवज्जेवाकृतं पापं तत्क्षणदेव नश्यति ॥२१॥

कृष्नाजिने तिलान कृत्वा हिरण्यं मधुसर्पिषी ।

ददाति यस्तु विप्राय सर्व तराति दुष्कृतम ॥२२॥

कृतान्नमुदकुम्भं च वैशाख्यां च विशेषताः ।

निर्दिश्य धर्मराजाय विप्रेभ्यो मुच्यते भयात ॥२३॥

सुवर्णतिलयुक्तैस्तु ब्राह्मणान सप्त पंच वा ।

तर्पयेदौदपात्रस्तु ब्रह्माहस्त्यां व्यपोहति ॥२४॥

माघमासे तु विप्रस्तु द्वाद्श्यां समुपोषितः ।

शुक्लमबरधरः कॄष्णस्तिलैर्हुत्व हुतशनम ॥२५॥

प्रदद्याद ब्राह्मणेभ्यस्तु तिलानेव समाहितः ।

जन्मप्रभृति यत्पातं सर्व तरति वै द्विजः ॥२६॥

अमावस्यामनुप्राप्य ब्राह्मणय तपस्विने ।

यत्किंचिद देवदेवेशं दद्याच्चोद्दिश्य शंकरम ॥२७॥

प्रीयतामीश्वरः सोमो महादेवः सनातन ।

सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ॥२८॥

यस्तु कृष्णचतुर्दश्यां स्नात्वा देव पिनाकिनम ।

आराधयेद द्विजमुखे न तस्यास्ति पुनर्भव ॥२९॥

कृष्णाष्टम्यं विशेषेण धार्मिकाय द्विजातये ।

स्नात्वा भ्यच्य यथान्यायं पादप्रक्षालनादिभिः ॥३०॥

प्रीयतां मे महादेवो दद्याद द्रव्यं स्वकीयकम ।

सर्वपापविनिर्मुक्तः प्राप्नोत परमां गतिम ॥३१॥

द्विजैः कृष्णचतुर्दश्यां कृष्णाष्टम्यां विशेषतः ।

अमावास्यायां भक्तैस्तु पुजनीयस्त्रिलोचनः ॥३२॥

एकादश्यां निरहारो द्वादश्यां पुरुषो्त्तमम ।

अर्चयेद ब्राह्मणामुखे स गच्छेद परमं पदम ॥३३॥

एषा तिथिर्वैष्णवी स्यद द्वाद्शी शुक्लपक्षके ।

तस्यमाराधयेद देवं प्रयत्नेन जनार्दनम ॥३४॥

यत्कित्र्चिद देवमीशानमुद्दिश्य ब्राह्माणे शुचौ ।

दीयते विष्णवे वापि तदनन्तफलप्रदम ॥३५॥

यो हि यां देवतांमिच्छेत समाराधयितुं नरः ।

ब्राह्मणान पुजनेद यत्‍नाद स तस्यां तोषयेत ततः ॥३६॥

द्विजानं वपुरास्थाय नित्यं तिष्ठन्ति देवताः ।

पुज्यन्ते ब्राह्मणालाभे प्रतिमादिष्वपि क्वचित ॥३७॥

तस्मात सर्वप्रयत्नेन तत तत फलमषीप्सता ।

द्विजेषु देवता नित्यं पुजनीया विशेषतः ॥३८॥

विभुतिकामः सततह पुजयेदं वै पुरन्दरम ।

ब्रहमवर्चसकामस्तु ब्रह्माणं ब्रह्माकामुकः ॥३९॥

आरोग्यकामोऽथ रविं धनकामो हृताशयनम ।

कर्मणा सिद्धिकम्स्तु पुजयेद वै विनायकम ॥४०॥

भोगकामस्तुशशिनं बलकामः समीरणम ।

मुमुक्षुः सर्वसंसारात प्रयत्नेनार्चयेद्धरिम ॥४१॥

यस्तु योगं तथा मोक्षमन्विच्छेज्ञानमैश्वरम ।

सोऽर्चयेद वै विरुपाक्षं प्रयत्नेनेश्वरेश्वरम ॥४२॥

ये वात्र्छन्ति माहायोगान ज्ञानानि च महेश्वरम ।

ते पुजयान्ति भुतेशं केशवं चापि भोगिनः ॥४३॥

वारिदस्तृप्तिमाप्नोति सुखमक्षयमन्नदः ।

तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम ॥४४॥

भूमिदः सर्वमात्नोहि दीर्घमायुर्हिरण्यदः ।

गृहदोऽग्रयाणि वेश्यानि रुप्यदो रुपमुत्तमम ॥४५॥

वासोदश्चन्द्रसालोक्यमाश्व्सालोक्यमश्वमद ।

अनडुदः श्रियं पुष्टां गोदो व्रध्नस्य विष्टपम ॥४६॥

यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः ।

धान्यदः शाश्वतं सौख्यं ब्रह्मादो ब्रह्मासात्म्यताम ॥४७॥

धान्यान्यपि यथाशक्ति विप्रेषु प्रतिपादयेत ।

वेदवित्सु विशिष्टेषु प्रेत्य स्वर्गं समश्‍नुते ॥४८॥

गवां घासप्रदानेन सर्वपापैः प्रमुच्यते ।

इन्धनानां प्रदानेन दीप्ताग्निर्जायते नरः ॥४९॥

फलमुलानि शाकानि भोज्यानि विविधानि च ।

प्रदद्याद ब्राह्मणोभ्यस्तु मुदा युक्तः सदा भवेत ॥५०॥

औषधं स्नहमारारं रोगिणे रोगशान्तये ।

ददानो रोगरहितः सुखी दीर्घायुरेव च ॥५१॥

असिपत्रवनं मार्गं क्षुरधारासमन्वितम ।

तीव्रतापं च तरपि छत्रोपानत्प्रदो नरः ॥५२॥

यद यदिष्टतमं लोके यच्चापि दयितं गृहे ।

तत्तद गुणवते देयं तदेवाक्शयमिच्छता ॥५३॥

अयने विषुवे चैव ग्रहणे चन्द्रसुर्ययोः ।

संक्रान्त्यादिषु कालेषु दत्तं भवति चाक्षयम ॥५४॥

प्रयागादिषुः तीर्थषु पुण्येष्वायतनेषु च ।

दत्त्वा चाक्षयमाप्नोति नदीषु च वनेषु च ॥५५॥

दानधर्मात परो धर्मो भुतानां नेह विद्यते ।

तस्माद विप्राय दातव्यं श्रोतियाय द्विजातिभिः ॥५६॥

स्वर्गायुर्भूतिकमेन तथा पापोपशान्तये ।

मुमुक्षुणा च दातव्यं ब्रह्माणेभ्यस्त्थऽन्वहम ॥५७॥

दीयमानं तु यो मोहाद गोविप्राग्निसुरेषु च ।

निवारयति पापात्मा तिर्यग्योनिं व्रजेत तु सः ॥५८॥

यस्तु द्रव्यार्जनं कृत्वा नार्चयेद ब्राह्मणान सुरान ।

सर्वस्वमपहृत्यैनं राजा राष्ट्रात प्रवासयेत ॥५९॥

यस्तु दुर्भिक्शवेलायामन्नद्यं न प्रयच्छतिः ।

म्नियमाणेषु विप्रेषु ब्राह्मणः स तु गार्हितः ॥६०॥

न तस्मात प्रतिग्रुह्णीयुर्न विशेयुश्च तेन हि ।

अंकयित्वा स्वकाद राष्ट्रात तं राजा विप्रवासयेत ॥६१॥

यस्त्वदभ्यो ददातीह स्वद्रव्यं धर्मसाधनम ।

स पुर्वभ्यधिकः पापी नरके पच्यते नरः ॥६२॥

स्वाध्यायवन्तो ये विप्रा विद्यावन्तो जितेन्द्रियाः ।

सत्यसंयमसंयुक्तास्तेभ्यो दद्याद द्विजोत्तमाः ॥६३॥

सुभुक्तमपि विद्वासं धार्मिक भोजयेद द्विजम ।

न तु मुर्खमवृत्तस्थ दशरात्रमुपोषितम ॥६४॥

संनिकृष्टमातिक्रम्य श्रोतित्रं यः प्रयच्छति ।

स तेन कर्मणा पापी दहत्यासप्तमं कुलम ॥६५॥

यदि स्यादधिको विप्रः शीलविद्यादिभिः स्वयम ।

तस्मैः यत्नेन दातव्यं अतिक्रम्यापि संनिधिम ॥६६॥

योऽर्चितं प्रतिगृह्णीयाद दद्यादर्चितमेव च ।

तावुभौ गच्छतः स्वर्ग नरकं तु विपर्यये ।६७॥

न वार्यपि प्रयच्छेत नास्तिके हैतुकैऽपि च ।

पाषण्डेषु च सर्वेषु नावेदविदि धर्मवित ॥६८॥

अपुपं च हिरण्यं च गामश्यं पृथिवी तिलान ।

अविद्वान प्रतिगृह्णानो भस्मीभवति काष्ठवत ॥६९॥

द्विजातिभ्यो धनं लिप्सेत प्रशस्तेभ्यो द्विजोत्तमः ।

अपि वा जातिमात्रेभ्यो न तु शुद्रात कथत्र्चन ॥७०॥

वृत्तिसंकोचमन्विच्छेन्नेहेत धनविस्तरम ।

धनलोभे प्रसक्तसु ब्राह्मण्यादेव हीयते ॥७१॥

वेदानधीत्य सकलान यज्ञा श्चवाप्य सर्वशः ।

न तां गतिमवाप्नोति संकोचद यामवप्नुयात ॥७२॥

प्रतिग्रहरुचिर्न स्यात यात्रार्थ तु समाहरेत ।

स्थित्यर्थदधिकं गृह्णन ब्राह्मणो यात्यधोगतिम ॥७३॥

यस्तु याचनको नित्यं न स स्वर्गस्य भाजनम ।

उद्वेजयति भुतानि यथा चैरस्तथैव सः ॥७४॥

गुरुन भृत्याश्चोज्जिहिर्षुरर्चिस्ष्यष्यन देवतातिथीन ।

सर्वतः प्रतिगृह्णीयान्न तु तृप्येत स्वयं ततः ॥७५॥

एवं गृहस्थो युक्तात्मा देवतातिथिपुजकः ।

वर्तमानः संयतात्मा याति तत परमं पदम ॥७६॥

पुत्रे निधाय वा सर्वं गत्वारण्यमं तु तत्ववित ।

एकाकी विचरेओन्नित्यमुदासीनः समाहितः ॥७७॥

एष वः कथितो धर्मो गृहस्थानां द्विजोत्तमाः ।

ज्ञात्वानुतिष्ठेन्नियतं तथानुष्ठापयेद द्विजान ॥७८॥

इति देवतानादिमेकमीशं गृहधर्मेण समर्चयेदजस्त्रम ।

समतीत्य स सर्वभूयोनिं प्रकृतिं याति परं न यति जन्म ॥७९॥

इति श्रीकुर्मपुराणे षटसाहस्रयां संहितायामुपरिविभागे षडविंशोऽध्यायः ॥२६॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP