TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
त्रयस्त्रिंशोऽध्यायः

कूर्मपुराणः - त्रयस्त्रिंशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


त्रयस्त्रिंशोऽध्यायः

प्रायश्चित्त प्रकरण चोरी तथा अभक्ष्यः भक्षणका प्रायश्चित्त, प्रकीर्ण पापोंका प्रायस्चित समस्त पापोंकी एकत्र मुक्तिके विविध उपाय पतिव्रताको कोई पाप नहीं लगता समस्त पापोंकी एकत्र मुक्तिके विविध उपाय पतिव्रताके कोई पाप नहीं लगता, पतिव्रताके माहत्ममें देवी सीताका आख्यान, सीताद्वारा , अग्निस्तुति ज्ञानयोगकी प्रशंसा तथा प्रायश्चित्त प्रकरणका उपसंहार

व्यास उवाच

मनुष्याणां तु हरणं कृत्वा स्त्रीणां गृहस्य च ।

वापीकूपजलानां च शुध्येच्चान्द्रायणेन तु ॥१॥

द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मतः ।

चरेत सांतपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये ॥२॥

धान्यान्नधनचौर्यं तु कृत्वा कामाद द्विजोत्तमः ।

स्वजातीयगृहादेव कृच्छ्रार्धेन विशुध्यति ॥३॥

भक्षभोज्यापहरणे यानशय्यासनस्य च ।

पुष्पमुलफलानां च पंचगव्यं विशोधनम ॥४॥

तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च ।

चैलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम ॥५॥

मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ।

अयः कांस्योपलानां च द्वादशाहं कणाशनम ॥६॥

कार्पासकीटजोणानां द्विशफैकशफस्य च ।

पक्षिगन्धौषधीनां च रज्ज्वाश्चेव त्र्यहं पयः ॥७॥

नरमांसाशनं कृत्वा चान्द्रायणमथाचरेत ।

काकंक चैव तथा श्‍वानं जग्ध्वा हस्तिनमेव च ।

वराहं कुक्कुटं चाथ तत्पकृच्छ्रेण शुध्याति ॥८॥

क्रव्यादानां च मांसानि पुरीषं मुत्रमेव च ।

गोगोमायुकपीनां च तदेव व्रतमाचरेत ।

उपोष्य द्वादशाहं तु कूष्माण्डैर्जुहुयाद घृतम ॥९॥

नकुलोलुकमार्जारं जग्ध्वा सांतपनं चरेत ।

श्वापदोष्ट्रखराज्जग्ध्वा तत्पकृच्छ्रेण शुध्याति ।

व्रतवच्चैव संस्कारं पुर्वेण विधिनैव तु ॥१०॥

बकं चैव बलाकं च हंस कारण्डवं तथा ।

चक्रवाकं प्लवं जग्ध्वा द्वादशाहमभोजनम ॥११॥

कपोतं टिट्टिभं चैव शुकं सारसमेव च ।

उलूकं जालपादं च जधाप्येतद व्रत चरेत ॥१२॥

शिशुमारं तथा चाषं मत्सयमांस तथैव च ।

जग्ध्वा चैव कटाहारमेतदेव चरेद व्रतम ॥१३॥

कोकिलं चैव मत्स्याश्चं मण्डुकं भुजगं तथा ।

गोमुत्रयावकाहारो मासेनैकेन शुध्याति ॥१४॥

जलेचराम्श्च जलजान प्रत्तुदान नखविष्किरान ।

रक्तपादास्तथां जग्ध्वा सप्ताहं चैतदाचरेत ॥१५॥

शुनो मांस शुष्कमांसमात्मार्थं च तथा कृतम ।

भुक्त्वा मांस चरेदेतत तप्तापस्यापनुत्तये ॥१६॥

वार्ताकं भुस्तृणं शिग्रं खुखुण्डं करकं तथा ।

प्राजापत्यं चरेज्जग्ध्वा शंखं कुम्भीकमेव च ॥१७॥

पलाण्डुं लशुनं चैव भुक्त्वा चान्द्रायणं चरेत ।

नालिकां तण्डुलीयं च प्राजापत्येन शुध्याति ॥१८॥

अश्मान्तकं तथा पोतं तत्पककृच्छ्रेण शुध्याति ।

प्राजापत्येन शुद्धिः स्यात ककुभाण्डस्य भक्षणे ॥१९॥

अलांबुयं किंशुकं चैव भुक्त्वा चैतद व्रतं चरेत ।

उदुम्बरं च कामेन तत्पकृच्छ्रेण शुध्याति ॥२०॥

वृथा कृसरसंयावं पायसापुपसंकुलम ।

भुक्त्वा चैवंविधं त्वन्नं त्रिरात्रेण विशुध्यति ॥२१॥

पीत्वा क्षीराण्यपेयानि ब्रह्माचारी समाहितः ।

गोमुत्रयावकाहारो मासेनैकेन शुद्ध्यातिः ॥२२॥

अनिर्दशाहं गोक्षीरं माहिषं चाजमेव च ।

संधिन्याश्च विवत्सायाः पिबन क्षीरमिदं चरेत ॥२३॥

एतेषां च विकाराणि पीत्वा मोहेन मानवः ।

गोमुत्रयावकाहारः सप्तरात्रेण शुध्यति ॥२४॥

भुक्त्वा चैव नवश्राद्धे म्रुतके सुतके तथा ।

चान्द्रायणेन शुध्येन ब्राह्मणस्तु समाहितः ॥२५॥

यस्याग्नौ हूयते नित्यं न यस्याग्रं न दीयते ।

चान्द्रायणं चरेत सम्यक तस्यान्नप्राशने द्विजः ॥२६॥

अभोज्यानां तु सर्वेषां भुक्त्वा चान्नमुपस्कृतम ।

अन्तावसायिनां चैव तत्पकृच्छ्रेण शुध्याति ॥२७॥

चाण्डालान्नां द्विजो भुक्त्वा सम्यक चान्द्रायणं चरेत ।

बुद्धिपूर्वं तु कृच्छ्राब्दं पुनः संस्कारमेव च ॥२८॥

असुरामद्यपानेन कुर्याच्चान्द्रायणव्रतम ।

अभोज्यान्नं तु भुक्त्वा च प्राजापत्येन शुध्यति ॥२९॥

विण्मुत्रप्राशनं कृत्वां रेतसश्चैतदाचरेत ।

अनादिष्टेषु चैकाहं सर्वत्र तु यथार्थतः ॥३०॥

विडवराहखरोष्ट्राणां गोमायोः कपिकाकयोः ।

प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायण चरेत ॥३१॥

अज्ञानात प्राश्य विण्मुत्रं सुरासंस्पृष्टमेव च ।

पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजोतयः ॥३२॥

क्रव्यादां पक्षिणां चैव प्राश्य मूत्रपुरीषकम ।

महासांतपनं मोहात तथा कुर्याद द्विजोत्तमः ।

भासमण्डुककुररे विष्किरे कृच्छ्रमाचरेत ॥३३॥

प्राजापत्येन शुध्येत ब्राह्मणोच्छिष्टभोजने ।

क्षत्रिये तत्पकृच्छ्रंस्याद वैश्ये चैवातिकृच्छ्रकम ।

शुद्रोच्छिष्टं द्विजो भुक्त्वा कुर्याच्चान्द्रायणव्रतम ॥३४॥

सुराभाण्डोदरेवारि पीत्वा चान्द्रायण चरेत ।

शुनोच्छिष्टं द्विजो भुक्त्वा त्रिरात्रेण विशुध्यति ।

गोमुत्रयावकाहारः पीतशेषं च रागवान ॥३५॥

अपो मुत्रपुरीषाद्यैर्दूषिताः प्राशयेद यदा ।

तदा सांतपनं प्रोक्तं व्रतंक पापविशोधनम ॥३६॥

चाण्डालकूपभाण्डेषु यदि ज्ञानात पिबेज्जलम ।

चरेत सांतपनं कृच्छ्रंक ब्राह्मणः पापशोधनम ॥३७॥

चाण्डालेन तु संस्पृष्टं पीत्वा वारि द्विजोत्तमः ।

त्रिरात्रेण विशुध्येत पंचगव्येन चैव हि ॥३८॥

महापातकिसंस्पर्शे भुंक्तेऽस्नात्वा द्विजो यदि ।

बुद्धिपुर्व तु मुढात्मा तत्पकृच्छ्रं समाचरेत ॥३९॥

स्पृष्टा महापातकिनंक चाण्डालं वा रजस्वलाम ।

प्रमादाद भोजनं कृत्वा त्रिरात्रेण विशुध्यति ॥४०॥

स्नानार्हों यदि भुत्र्जीत अहोरात्रेण शुध्यति ।

बुद्धिपुर्व तु कृच्छ्रेण भगवानाह पद्मजः ॥४१॥

शुष्कपर्युषितादीनि गवादिप्रतिदुषितम ।

भुक्त्वोपवासं कुर्वीत कृच्छ्रपादमथापि वा ॥४२॥

संवत्सरान्ते कृच्छ्रं तु चरेद विप्रः पुनः पुनः ।

अज्ञातभुक्तशुद्धयर्थ ज्ञातस्य तु विशेषतः ॥४३॥

व्रात्यानां यजनं कृत्वा परेषामन्त्यकर्म च ।

अभिचारमहीनं च त्रिभिः कृच्छ्रैर्विशुध्यति ॥४४॥

ब्राह्मणदिहतानां तु कृत्वा दाहादिकाः क्रिया ।

गोमुत्रयावकाहारः प्राजापत्येन शुध्यति ॥४५॥

तैलाभ्यक्तोऽथवा कुर्याद यदि मुत्रपुरीषके ।

अहोरात्रेण शुध्येत श्मश्रुकर्म च मैथुनम ॥४६॥

एकाहेन विवाहाग्निं परिहार्य द्विजोत्तमः ।

त्रिरात्रेण विशुध्येत त्रिरात्रात षडहं पुनः ॥४७॥

दशाहं द्वादशाहं वा परिहार्य प्रमादतः ।

कृच्छ्रं चान्द्रायणं कुर्यात तत्पापस्यापनुत्तये ॥४८॥

पतिताद द्रव्यामादाय तदुत्सर्गेण शुध्यति ।

चरेत सांतपनं कृच्छ्रमित्याह भगवान प्रभुः ॥४९॥

अनाशकनिवृत्तास्तु प्रव्रज्यावसितास्तथा ।

चरेयुस्त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च ॥५०॥

पुनश्च जातकर्मादिसंस्कारैः संस्कृता द्विजाः ।

शुध्येयुस्तद व्रतं सम्यकं चरेयुर्धर्मवर्धनाः ॥५१॥

अनुपासितसंध्यस्तु तदहर्यापको वसेत ।

अनश्‍नन संयतमना रात्रौ चेद रात्रिमेव हि ॥५२॥

अकृत्वा समिदाधानं शुचिः स्नात्वा समाहितः ।

गायत्र्यष्टसहस्त्रस्य जप्यं कुर्याद विशुद्धये ॥५३॥

उपासीत न सेत संध्यां गृहस्थेऽपि प्रमादतः ।

स्नात्वा विशुध्यते सद्यः परिश्रान्तस्तु संयमात ॥५४॥

वेदोदितानि नित्यानि कुर्माणि च विलोप्य तु ।

स्नातकाव्रतालोपंअ तु कृत्वा चोपवसेद दिनम ॥५५॥

संवत्सरं चरेत कृच्छ्रमग्न्युत्सादो द्विजोत्तमः ।

चान्द्रायणं चरेद व्रात्यो गिप्रदानेन शुध्यति ॥५६॥

नास्तिक्यं यदि कुर्वीत प्राजापत्यं चरेद द्विजः ।

देवद्रोहंक गुरुद्रोहं तत्पकृच्छ्रेण शुध्यति ॥५७॥

उष्ट्रयानं समारुह्मा खरयानं च कामतः ।

त्रिरात्रेण विशुध्येत तु नग्नो वा प्रविशेज्जलम ॥५८॥

षष्ठान्नकालतामासं संहिताजप एव च ।

होमाश्‍च शाकला नित्यमपांक्तातानां विशोधनम ॥५९॥

नीलं रक्तं वसित्वा च ब्राह्मणो वस्त्रमेव हि ।

अहोरात्रोषितः स्नातः पंचगव्येन शुध्यति ॥६०॥

वेदधर्मपुराणानां चण्डालस्य तु भाषणे ।

चान्द्रायणेन शुद्धिः स्यान्न ह्रान्या तस्य निष्कृतिः ॥६१॥

उदबन्धनादिनिहतं संस्पृश्य ब्राह्मणः क्वचित ।

चान्द्रायणेन शुद्धिः स्यात प्राजापत्येन वा पुनः ॥६२॥

उच्छिष्टो यद्यनाचान्तश्चाण्डालादीन स्पृशेद द्विजः ।

प्रमादाद वै जपेत स्नात्वा गायत्र्यष्टसह्स्त्रकम ॥६३॥

द्रुपदानां शतं वापि ब्रह्माचारी समाहितः ।

त्रिरात्रोपोषितः सम्यक पंचगव्येन शुध्यति ॥६४॥

चण्दालपतितादींस्तु कामाद यः संस्पृशेत द्विजः ।

उच्छीष्टस्तत्र कुर्वीत प्राजापत्यं विशुद्धये ॥६५॥

चाण्डालसुतकशवांस्तथा नारीं रजस्वलाम ।

स्पृष्टा स्नायाद विशुद्धर्थं तत्स्पृष्टं पतितं तथा ॥६६॥

चाण्डालसुतकशवैः संस्पृष्टं संस्पृशेद यदि ।

प्रमादात तत आचम्य जपं कुर्यात समाहितः ॥६७॥

तत्स्पृष्टस्पर्शिनं स्पृष्टा बुद्धिपुर्वं द्विजोत्तमः ।

आचमेत तदविशुद्धर्थं प्राह देवः पितामहः ॥६८॥

भुत्र्जानस्य तु विप्रस्य कदाचित संस्त्रवेद गुदम ।

कृत्वा शौचं ततः स्नायादुपोष्य जुहुयाद घृतम ॥६९॥

चाण्दालान्त्यशवं स्पृष्टा कृच्छ्रं कुर्याद विशुद्धये ।

स्पृष्टाभ्यक्तस्त्वसंस्पृश्यमहोरात्रेण शुध्यति ॥७०॥

सुरां स्पृष्टां द्विजः कुर्यात प्राणायामत्रयं शुचिः ।

पलाण्डुं लशुनं चैव घृतं प्राश्य ततः शुचिः ॥७१॥

ब्राह्मणस्तु शुना दष्टस्त्र्यहं सायं पयं पिबेत ।

नाभेरुर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत ॥७२॥

स्यादेतत त्रिगुणं ब्राह्णोर्मूर्ध्रि च स्याच्चतुर्गुणम ।

स्नात्वा जपेद वा सावित्रीं श्वभिर्दष्टो द्विजोत्तमः ॥७३॥

अनिर्वर्त्य महायज्ञान यो भुक्तें तु द्विजोत्तमः ।

अनातुरः सति धने कृच्छ्रार्धेन स शुध्यति ॥७४॥

आहिताग्निरुपस्थानं न कुर्याद यस्तु पर्वणि ।

ऋतौ न गच्छेद भार्या वा सोऽपि कृच्छ्रार्धमारेत ॥७५॥

विनाऽद्भिरप्सु वाप्यार्तः शारिरं संनिवेश्य च ।

सचैलो जलमाप्लुत्य गामालभ्य विशुध्यति ॥७६॥

बुद्धिपुर्व त्वभ्युदितो जपेदन्तर्जले द्विजः ।

गायत्र्यष्टसहस्त्रं तु त्र्यहं चोपवसेद व्रती ॥७७॥

अनुगम्येच्छया शूद्रं प्रेतीभूतं द्विजोत्तमः ।

गायत्र्यष्टसहस्त्रं च जप्यं कुर्यान्नदीषु च ॥७८॥

कुत्वा तु शपथं विप्रो विप्रस्य वधसंयुतम ।

मृषैव यावकान्नेन कुर्याच्चान्द्रायणं व्रतम ॥७९॥

पंक्त्या विषमदानं तु कृत्वा कृच्छ्रेण शुध्यति ।

छायां श्वापाकस्यरुहा स्नात्वा सम्प्राशयेद घृतम ॥८०॥

ईक्षेदादित्यमशुचिर्दृष्ट्वाग्निं चन्द्रमेव वा ।

मानुषं चास्थि संस्पृश्य स्नानं कृत्वा विशुध्यति ॥८१॥

कृत्वा तु मिथ्याध्ययनं चरेद भैक्षं तु वत्सरम ।

कृतघ्र्नो ब्राह्मणगृहे पंच संवत्सरं व्रती ॥८२॥

हुंकारं ब्राह्मणस्योक्त्वा त्वंकारं च गरीयसः ।

स्नात्वानश्यनन्नहः शेषं प्रणिपत्यं प्रसादयेत ॥८३॥

ताडयित्वा तृणेनापि कण्ठं बद्धवापि वाससा ।

विवादे वापि निर्जित्य प्रणिपत्य प्रसादयेत ॥८४॥

अवगूर्य चरेत कृच्छ्रमतिकृच्छ्रं निपातने ।

कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम ॥८५॥

गुरोराक्रोशमनृतं कृत्वा कुर्याद विशोधनम ।

एकरात्रं त्रिरात्रं वा तत्पापस्यापनुत्तये ॥८६॥

देवर्षीणामभिमुखं ष्ठीवनाक्रोशने कृते ।

उल्मुकेन दहेज्जिह्वां दातव्यं च हिरण्यकम ॥८७॥

देवोद्याने तु यः कुर्यान्मुत्रोच्चारं सकृद द्विजः ।

छिन्द्याच्छिश्‍नं तु शुद्धर्थं चरेच्चान्द्रायणें तु वा ॥८८॥

देवतायतने मुत्रं कृत्वा मोहाद द्विजोत्तमः ।

शिश्यनस्योत्कर्तनं कृत्वा चान्द्रायणमथाचरेत ॥८९॥

देवतानामृषीणां च देवानां चैव कुत्सनम ।

कृत्वा सम्यक प्रकृर्वीत प्राजापत्यं द्विजोत्तमः ॥९०॥

तैस्तु सम्भाषणं कृत्वा स्नात्वा देवान समर्चयेत ।

दृष्टा वीक्षेत भास्वन्तं स्मृत्वा विश्वेश्वरं स्मरेत ॥९१॥

यः सर्वभुताधिपतिं विश्‍वेशानं विनिन्दति ।

न तस्य निष्कृतिः शक्या कर्तु वर्षशतैरपि ॥९२॥

चान्द्रायणं चरेत पुर्वं कृच्छ्रं चैवातिकृच्छ्रकम ।

प्रपन्नं शरणं देवं तस्मात पापाद विमुच्यते ॥९३॥

सर्वस्वदानं विधिवत सर्वपापविशोधनम ।

चान्द्रायणं च विधिनां कृच्छ्रं चैवातिकृच्छ्रकम ॥९४॥

पुण्यक्षेत्राभिगमनं सर्वपापविनाशनम ।

देवताभ्यर्चनं नृणामशेषाघविनाशनम ॥९५॥

अमावस्यां तिथिं प्राप्य यः समाराधयेच्छिवम ।

ब्राह्मणान भोजयित्वा तु सर्वपापैः प्रमुच्यते ॥९६॥

कृष्णाष्टम्यां महादेवं तथा कृष्णाचतुर्दशीम ।

सम्पुज्य ब्राह्मणमुखे सर्वपापैः प्रमुच्यते ॥९७॥

त्रयोदश्यां तथा रात्रौ सोपहारं त्रिलोचनम ।

द्वष्टेशं प्रथमे यामे मुच्यते सर्वपातकेः ॥९८॥

उपोषितश्चतुर्दश्यां कृष्णापक्षे समाहितः ।

यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥९९॥

वैवस्वताय कालाय सर्वभूतक्षयाय च ।

प्रत्येकं तिलसंयुक्तनं दद्यात सत्पोदकात्र्जलीन ।

स्नात्वा नद्यां तु पुर्वाह्णे मुच्यते सर्वपातकैः ॥१००॥

ब्रह्माचर्यमधः शय्यामुपवासं द्विजार्चनम ।

व्रतेष्वेतेषु कुर्वीत शान्तः संयतमानसः ॥१०१॥

अमावस्यायां ब्रह्माणं समुद्दिश्य पितामहम ।

ब्राह्मणास्त्रीन कुर्वीत शान्तः संयतमानसः ॥१०२॥

षष्ठयामुपोषितो देवं शुक्लपक्षे समाहितः ।

सप्तम्यामर्चयेद भानुं मुच्यते सर्वपातकैः ॥१०३॥

भरण्यां च चतुर्थ्यं च शनैश्चरदिने यमम ।

पुजयेत सप्तजन्मोर्त्थैर्मुच्यते पातकैर्नरः ॥१०४॥

एकादश्यां निराहारः समभ्यर्च्य जनार्दनम ।

द्वादश्यां शुक्लपक्षस्य महापापै प्रमुच्यते ॥१०५॥

तपो जपस्तीर्थसेवा देवब्राह्मणपुजनम ।

ग्रहणादिषु कालेषु महापातकशोधनम ॥१०६॥

यः सर्वपापयुक्तोऽपि पुण्यतीर्थेषु मानवः ।

नियमेव त्यजेत प्राणान स मुच्यते सर्वपातकैः ॥१०७॥

ब्रह्माघण वा कृतघ्नं व महापातकदुषितम ।

भर्तारमुद्धरेन्नारी प्रविष्ट सह पावकम ॥१०८॥

एतदेव परं स्त्रीणां प्रायश्चित्तं विदुर्बुधाः ।

सर्वपापसमुदभूतौ नात्र कार्या विचारणा ॥१०९॥

पतिव्रता तु या नारी भर्तुशश्रुषणोत्सुका ।

न तस्या विद्यते पापमिह लोके परत्र च ॥११०॥

पतिव्रता धर्मरता रुद्राण्येव न संशयः ।

नास्या पराभवं कर्तुं शक्रोतीह जनः क्वचित ॥१११॥

यथा रामस्य सुभगा सीता त्रैलोक्यविश्रुता ।

पत्‍नी दाशरथेर्देवी विजिग्यो राक्षसेश्वरम ॥११२॥

रामस्य भार्यां विमलां रावणो राक्षसेश्वरः ।

सीतां विशालनयनां चकमे कालचोदितः ॥११३॥

गृहीत्वा मायया वेषं चरन्तीं विजने वने ।

समाहर्तुं मतिं चक्रे तापसः किल कामिनीम ॥११४॥

विज्ञाय सा च तदभावं स्मृत्वा दाशरथिं पतिम ।

जगाम शरणं वह्निमावसथ्यं शुचिस्मिता ॥११५॥

उपतस्थे महायोगं सर्वदोषविनोशनम ।

कृतात्र्जली रामपत्नी साक्षात पतिमिवाच्युतम ॥११६॥

नमस्यामि महायोगं कृतान्तं गहनंक परम ।

दाहकं सर्वभुतानामीशानं कालरुपिणम ॥११७॥

नमस्ये पावकं देवं साक्षिणं विश्‍वतोमुखम ।

आत्मानं दीप्तवपुषंक सर्वभुतहृदि स्थितम ॥११८॥

प्रपद्ये शरणं वह्निं ब्रह्माण्यं ब्रह्मारुपिणम ।

भुतेशं कृत्तिवसनं शरण्यं परमं पदम ॥११९॥

ॐ प्रपद्ये जगन्मुर्ति प्रभवं सर्वतेजसाम ।

महायोगेश्वरं वह्निमादित्यं परमेष्ठिनम ॥१२०॥

प्रपद्ये शरणं रुद्रं महाग्रासं त्रिशुलिनम ।

कालाग्निं योगिनामीशं भोगमोक्षफलप्रदम ॥१२१॥

प्रपद्ये त्वां विरुपाक्षं भुर्भुवः स्वः स्वरुपिणम ।

हिरण्यमये गृहे गुप्तं महान्तममितौजसम ॥१२२॥

वैश्वानरं प्रपद्येऽहं सर्वभुतेष्ववस्थितम ।

हव्यकव्यवहं देवं प्रपद्ये वह्निमीश्वरम ॥१२३॥

प्रपद्ये तत्परं तत्त्वं वरेण्यं सवितुः स्वयम ।

भर्गमग्निपरं ज्योति रक्ष मां हव्यवाहन ॥१२४॥

इति वह्नयष्टकं जत्प्वा रामापत्नी यशस्विनी ।

ध्यायन्ती मनसा तस्थौ राममुन्मीलितेक्षणा ॥१२५॥

अथावसस्थाद भगवान हव्यवाहो महेश्वरः ।

आविरसीत सुदीप्तात्मा तेजसा प्रवहन्निवः ॥१२६॥

सृष्टा मायामयीं सीतां स रावणवधेप्सया ।

सीतामादाय धर्मिष्ठां पावकोऽन्तरधीयत ॥१२७॥

तां दृष्टा तादुर्शीं सीतां रावणो राक्षसेश्‍वरः ।

समादाय ययौ लंकां सागरान्तरसंस्थिताम ॥१२८॥

कृत्वाथ रावणवधं रामो लक्ष्मणसंयुतः ।

समादायाभवत सीता शंकाकुलितमानसः ॥१२९॥

सा प्रत्ययाय भूतानां सीता मायामयी पुनः ।

विवेशवं पावकं दीप्तं ददाह ज्वलनोऽपि ताम ॥१३०॥

दग्ध्वा मायामयीं सीतां भगवनुग्रदीधितिः ।

रामायादर्शयत सीतां पावकोऽभुत सुरप्रियः ॥१३१॥

प्रगृह्मा भर्तुश्चरणौ कराभ्यां सा सुमध्यमा ।

चकार प्रणतिं भूमौ रामाय जनकात्मजा ॥१३२॥

द्वष्टा हृष्टामना रामो विस्मयाकुललोचनः ।

ननाम वह्निं शिरसा तोषयामास राघवः ॥१३३॥

उवाच वह्नेर्भगवान किमेषा वरवर्णिनी ।

दग्धा भगवता पुर्वं दृष्टा मत्पार्श्‍वमागता ॥१३४॥

तमाह देवो लोकानां दाहको हव्यवाहनः ।

यथावृतं दाशरथिं भुतानामेव संनिधौ ॥१३५॥

इयं सा मिथिलेशेन पार्वतीं रुद्रवल्लभाम ।

आराध्य लब्धा तपसा देव्याश्चात्यन्तवल्लभा ॥१३६॥

भर्तुः शुश्रुषाणोपेता सुशीलेयं पतिव्रता ।

भवानीपार्श्‍वमानीता मया रावणाकामिता ॥१३७॥

या नीता राक्षसेशेन सीता भगवताहृता ।

मया मायामयी सृष्टा रावणस्य वधाय सा ॥१३८॥

तदर्थं भवता दुष्टो रावणो राक्षसेश्‍वरः ।

मयोसहृता चैव हतो लोकविनाशनः ॥१३९॥

गृहाण विमलामेनां जानकीं वचनान्मम ।

पश्य नारायणं देवं स्वात्मानं प्रभवाव्ययम ॥१४०॥

इत्युक्त्वा भगवाश्चण्डो विश्वार्चिर्वश्‍वतोमुखः ।

मानितो राघवेणाग्निर्भूतैश्चान्तरधीयत ॥१४१॥

एतत पतिव्रतानां वै माहात्म्यं कथितं मया ।

स्त्रीणां सर्वाघशमनं प्रायश्चित्तमिदं स्मृतम ॥१४२॥

अशेषपापयुक्तसतुअ पुरुषोऽपि सुसंयतः ।

स्वदेहं पुण्यतीर्थेषु त्यक्त्वा मुच्यते किल्बिषात ॥१४३॥

पृथिव्यां सर्वतीर्थेषु स्नात्वा पुण्येषु वा द्विजः ।

मुच्यते पातकैः सर्वैः समस्तैरपि पुरुषः ॥१४४॥

व्यास उवाच

इत्येष मानवो धर्मो युष्माकं कथितो मया ।

महेशाराधनार्थाय ज्ञानयोगं च शाश्वतम ॥१४५॥

यो‍ऽनेन विधिना युक्तं ज्ञानयोगं समाचरेत ।

स पश्यति महादेवं नान्यः कल्पशतैरपि ॥१४६॥

स्थापयेद यः परं धर्मं ज्ञानं पत्पारमेश्वरम ।

स्थापयेद यः परं धर्मं ज्ञानं तत्पारमेश्वरम ।

न तस्मादधिको लोके स योगी परमो मतः ॥१४७॥

यः संस्थापयितुं शक्तो न कुर्यान्मोहितो जनः ।

स योगयुक्तोऽपि मुनिर्नात्यर्थं भगवत्प्रियः ॥१४८॥

तस्मात सदैव दातव्यं ब्राह्मणेषु विशेषतः ।

धर्मयुक्तेषु शान्तेषु श्रद्धया चान्वितेषु वै ॥१४९॥

यः पठेद भवतां नित्यं संवादं मम चैव हि ।

सर्वपापविनिर्मुक्तो गच्छेत परमां गतिम ॥१५०॥

श्राद्धे वा दैविके कार्ये ब्राह्मणानां च संनिधौ ।

पठेत नित्यं सुमनाः श्रोतव्यं च द्विजातिभिः ॥१५१॥

योऽर्थ विचार्य युक्तात्मा श्रावयेद ब्राह्मणान शुचीन ।

स दोषकत्र्चुकं त्यक्त्वा याति देवं महेश्वरम ॥१५२॥

एतावदुक्त्वा भगवान व्यासः सत्यवतीसुतः ।

समाश्वास्य मुनीन सूतं जगाम यथागतम ॥१५३॥

इति श्रीकूर्मपुराणे षटसाहस्त्रयां संहितायामुपरिविभागे त्रयस्त्रिंशोऽध्यायः ॥३३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2010-04-17T04:36:57.2470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

वाव्हणी

  • प्र . वाहण , वाहवणी , वाहवणे , वाहवरा . वाहणे पहा . 
RANDOM WORD

Did you know?

How do I contact you?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.