TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
विंशोऽध्यायः

कूर्मपुराणः - विंशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


विंशोऽध्यायः

श्राद्ध प्रकरण श्राद्धके प्रशस्त दिन, विभिन्न तिथियों नक्षत्रों और वारोंमें किये जानेवाले श्रद्धोंका विभिन्न फल, श्राद्धके आठ भेद श्राद्धके लिये प्रशस्त स्थान, श्राद्धमें विहित तथा निषेद्ध पदार्थ

व्यास उवाच

अथ श्राद्धममावास्यां प्राप्य कार्यं द्विजोत्तमैः ।

पिण्डान्वाहर्यकं भक्त्या भुक्तिमुक्तिफलप्रदम ॥१॥

पिण्डान्वाहार्यकं श्राद्धं क्षीणेः राजनि शस्यते ।

अपारह्णे द्विजातीनां प्रशस्तेनामिषेण च ॥२॥

प्रतिपत्प्रभृति ह्रान्यस्तिथयः कृश्णपक्षके ।

चतुर्दशीं वर्जयित्वा प्रशस्ता ह्युत्तारोत्तरा ॥३॥

अमावास्याष्टकास्तिस्त्रः पौषमासादिषु त्रिषुः

तिस्त्रश्चान्वष्टकाः पुण्या माघी पंचदशीं तथा ॥४॥

त्रयोदशी मघायुक्ता वर्षासु तु विशेषतः ।

शस्यापाकश्राद्धकाला नित्याः प्रोक्ता दिने दिने ॥५॥

नैमितिकं तु कर्तव्यं ग्रहणे चन्द्रसुर्ययोः ।

बान्धवानां च मरणे नारकी स्यादतोऽन्यथा ॥६॥

काम्यानि चैव श्राद्धनि शस्यन्ते ग्रहणदिषु ।

अयने विषुवे चैव व्यतीपातेऽप्यननतकम ॥७॥

संक्रान्त्यामक्षयं श्राद्धं तथा जन्मदिनेष्वापि ।

नक्षत्रेषु च सर्वेषु कार्यं कम्यं विशेषतः ॥८॥

स्वर्ग च लभते कृत्वा कृत्तिकासु द्विजोत्तमः ।

अपत्यमथ रोहिण्यां सौम्ये तु ब्रह्मावर्चसम ॥९॥

रौद्राणां कर्मणां सिद्धिमार्द्रायां शौर्यमेव च ।

पुनर्वसौ तथा भुमिं श्रियं पुष्ये तथैव च ॥१०॥

सर्वान कामांस्तथा सार्पें पित्र्यें सौभाग्यमेव च ।

अर्यम्णे तु धनं विन्द्यात फालुग्ण्यां पापनाशनम ॥११॥

ज्ञातिश्रेष्ठयं तथा हस्ते चित्रायां च बहुन सुतान ।

वाणियासिद्धं स्वातौ तु विशाखासु सुवर्णकम ॥१२॥

मैत्रे बहुनि मित्राणि राज्यं शाक्रे तथैव च ।

मुले कृषिं लभेद यानसिद्धमाप्ये समुद्रतः ॥१३॥

सर्वान कामान वैश्वदेवे श्रेश्ठं तु श्रवणे पुनः ।

श्रवैष्ठायां तथा कामान वारुणे च परं बलम ॥१४॥

अजैकपादे कुप्यं स्यदहिर्बुद्ध्ये गृहं शुभम ।

रेवत्यां बहवो गावो ह्राश्चिन्यां तुरगांस्तथा ।

याम्येऽथ जीवनं तत स्यादादि श्राद्धं प्रयच्छति ॥१५॥

आदित्यवारे त्वारोग्यं चंन्द्रे सौभाग्यमेव च ।

कौजे सर्वत्र विजयं सर्वान कामान बुधस्य तु ॥१६॥

विद्यामभीष्टाम जीवें तु धनं वै भार्गवे पुनः ।

शनैश्चरे लभेदायुः प्रतिपत्सु सुतान शुभान ॥१७॥

कन्यकां वै द्वितीयायां तृतीयायां तु वन्दिनः ।

पशुन क्षुद्रांश्चतुर्थ्यां तु पंचम्यां शोभनन सुतान ॥१८॥

षष्ठ्यां द्युतं कृषिं चापि सप्तम्यां लभते नरः ।

अष्टम्यामापि वाणिज्यं लभते श्राद्धदः सदाः ॥१९॥

स्यान्नवम्यामेकखुरं दशम्यां द्विखुरं बहु ।

एकादश्यां तथा रुप्यं ब्रह्मावर्चस्विनः सुतान ॥२०॥

द्वादश्यां जातरुपं च रजतं कुप्यमेव च ।

ज्ञातिश्रेष्ठयं त्रयोदश्यां चतुर्दश्यां तु कुप्रजाः ॥

पंचदश्यां सर्वकामानाप्नोति श्राद्धदः सदा ॥२१॥

तस्माच्छ्राद्धं न कर्तव्यं चतुर्दश्यां द्विजातिभिः ।

शस्त्रेण तु हतानां वै तत्र श्राद्धं प्रकल्पयेत ॥२२॥

द्रव्यब्राह्मणसम्पत्तौ न कालनियमः कृतः ।

तस्माद भोगपवर्गार्थं श्राद्ध कुर्यर्द्विजातयः ॥२३॥

कर्मारम्भेषु सर्वेषु कुर्यादाभ्युदयं पुनः ।

पुत्रजन्मादिषु श्राद्धं पार्वणंपर्वणि स्मृतम ॥२४॥

अहन्यहनि नित्यं स्यात काम्यं नैमित्तिकं पुनः ।

एकोद्दिष्टादि विज्ञेयं वृद्धिश्राद्धं तु पार्वणम ॥२५॥

एतत पंचविधं श्राद्धं मनुना परिकीर्तितम ।

यात्रायां षष्ठमाख्यातं तत्प्रयत्नेन पालयेत ॥२६॥

शुद्धये सप्तमं श्राद्धं ब्रह्माणां परिभाषितम ।

दैविकं चाष्टमं श्राद्धं यत्कृत्व मुच्यते भयात ॥२७॥

संध्यारात्रोर्न कर्तव्यं राहोरन्यत्रं दर्शनात ।

देशानां च विशेषेण भवेत पुण्यमनन्तकम ॥२८॥

गंगायामक्षयं श्राद्धं प्रयागेऽमरकाण्टके ।

गायन्ति पितरो गाथां कीर्तयन्ति मनीषिणः ॥२९॥

एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः ।

तेषा तु समवेतानां यद्येकोऽपि गयां व्रजेत ॥३०॥

गयां प्राप्यानुषगेंण यदि श्राद्धं समाचरेत ।

तारिता पितरस्तेन स याति परमां गतिम ॥३१॥

वराहपर्वते चैव गंगायां व विशेषतः ।

वराणस्यां विशेषेण यत्र देवः स्वयं हरः ॥३२॥

गंगाद्वारे प्रभासे च बिल्वके नीलपर्वते ।

कुरुक्षेत्रे च कुब्जाम्रे भृगुतुगें महालये ॥३३॥

केदारे फल्गुतीर्थ च नैमिषरण्य एव च ।

स्रस्वत्यां विशेषेण पुष्करेषु विशेषतः ॥३४॥

नर्मदायां कुशावर्ते श्रीशैले भद्रकर्णके ।

वेत्रवत्यां विपाशायां गोदावर्यां विशेषतः ॥३५॥

एवमादिषु चान्येशु तीर्थेषु पुलिनेषु च ।

नदीनां चैव तीर्षु तुष्यन्ति पितरः सदा ॥३६॥

व्रीहीभिश्च यवैर्माषैरद्भिर्मलफलेन वा

श्यामाकैश्च यवैः शाकैनीवारैश्च प्रियगुंभिः ।

गोधुमैश्च तिऐर्मुदगौर्मसं प्रीनयते पितृनः ॥३७॥

आम्रान पानेरतानिक्षुन मृद्वेकाश्चं सदाडीमान ।

विदार्याश्च बह्रण्डाश्च श्राद्धाअले प्रदानपयेत ॥३८॥

लाजान मधुयुतान दद्यात सक्तुन शर्करया सह ।

दद्याच्छ्राद्धे प्रयत्नेन श्रृंगाटककशेरुकान ॥३९॥

द्वौ मासौ मत्स्यमांसेन त्रीन मासान हारिण्येन तु ।

औरभ्रेणाथ चतुरः शाकुनेनेह पंच तु ॥४०॥

षण्मासांश्छागमांसेन पार्षतेनाथ सत्प वै ।

अष्टावेणस्य मांसेन रौरवेण नवैव तु ॥४१॥

दशमासास्तुं तृप्यन्ति वराहमहिषामिषैः ।

शशकूर्मयोर्मासेन मासानेद्कादशैव तु ॥४२॥

संवत्स्रं तु गव्येन पयसा पायसेन तु ।

वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥४३॥

कालह्साकं महाशक्लं शडगलोहमिषं मधुः ।

आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः ॥४४॥

क्रीत्वा लब्ध्वा स्वयं वाथ मृतानाहृत्या वा द्विजः ।

दद्याच्छ्राद्धें प्रयत्नेन तदस्याक्षयमुच्यते ॥४५॥

पिप्पलीं क्रमुकं चैव तथा चैव मसुरकम ।

कुष्माण्डालाबुवार्ताकान भूस्तृनं सुरसं तथा ॥४६॥

कुसुम्भपिण्डमुलं वै तन्दुलीयकमेव च ।

राजामाषस्तथां क्षीरं महिषं च विवर्जयेत ॥४७॥

कोद्रवान कोविदाराश्च पालक्यानं मरिचास्तथा ।

वर्जयेत सर्वयत्‍नेन श्राद्धकाले द्विजोत्तमः ॥४८॥

इति श्रीकूर्मपुरणे षटसाहस्रयां संहितायामुपरिविभागे विंशोऽध्यायः ॥२०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2010-04-17T04:14:30.0170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

marked capacity

  • अंकित क्षमता 
RANDOM WORD

Did you know?

relatives kiva veh itar lokanchya divsache bhojan ghyave ka ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site