संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
एकोनचत्वारिंशोऽध्यायः

कूर्मपुराणः - एकोनचत्वारिंशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


तीर्थमाहात्म्य वर्णनके प्रसंगमें नर्मदाके तटवर्ती तीर्थोंका विस्तारसे वर्णन

मार्कण्डेय उवाच

नर्मदा सरिता श्रेष्ठा सर्वपापविनाशिनी ।

मुनिभिः कथिता पुर्वमीश्वरेण स्वयम्भुवा ॥१॥

मुनिभिः संस्तुता ह्रोषा नर्मदा प्रवरा नदी ।

रुद्रगात्राद विनिष्क्रान्ता लोकानां हितकाम्यया ॥२॥

सर्वपापहरा नित्यं सर्वदेवनमस्कृता ।

संस्तुता देवगन्धर्वैरप्सरोभिस्तथैव च ॥३॥

उत्तरे चैव तत्कूले तीर्थ त्रैलोक्यविश्रुतम ।

नाम्रा भद्रेश्वरं पुण्यं सर्वपापहरं शुभम ।

तत्र स्नात्वा नरो राजन दैवतैः सह मोदते ॥४॥

ततो गच्छेत राजेन्द्र तीर्थमाम्रातके श्वरम ।

तत्र स्नात्वा नरो राजन गोसहस्त्रफलं लभेत ॥५॥

ततो‍ऽगंरेश्वरं गच्छेन्नियतो नियताशनः ।

सर्वपापविशुद्धात्मा रुद्रलोके महीयते ॥६॥

ततो गच्छेत राजेन्द्र केदारं नाम पुण्यदम ।

तत्र स्नात्वोदकं कृत्वा सर्वान कामानवाप्नुयात ॥७॥

पिप्पलेशं ततो गच्छेत सर्वपापविनाशनम ।

तत्र स्नात्वा महाराज रुद्रलोके महीयते ॥८॥

ततो गच्छेत राजेन्द्र विमलेश्वरमुत्तमम ।

तत्र प्राणान परित्यज्य रुद्रलोकमवाप्नुयात ॥९॥

ततः पुष्करिणीं गच्छेत स्नानं तत्र समाचरेत ।

स्नातमात्रो नरस्त्रत्र इन्द्रस्यार्धासनं लभेत ॥१०॥

ततो गच्छेत राजेन्द्र शुलभेदमिति श्रुतम ।

तत्र स्नात्वार्चयेद देवं गोसहस्त्रफलं लभेत ॥११॥

ततो गच्छेत राजेन्द्र बलितीर्थमनुत्तमम ।

तत्र स्नात्वा नरो राजन सिंहासनपतर्भवेत ॥१२॥

शक्रतीर्थ ततो गच्छेत कुले चैव तु दक्षिणे ।

उपोष्य रजनीमेका स्नानं कृत्वा यथाविधि ॥१३॥

आराधयेन्महायोगं देवं नारायणं हरिम ।

गोसहस्त्रफलं प्राप्य विष्णुलोकं स गच्छति ॥१४॥

ऋषितीर्थं ततो गत्वा सर्वपापहरं नृणाम ।

स्नातमात्रो नरस्तत्र शिवलोके महीयते ॥१५॥

नारदस्य तु तत्रैव तीर्थं परमशोभनम ।

स्नातमात्रो नरस्तत्र गोसहस्त्रफलं लभेत ॥१६॥

यत्र तप्तं तपः पुर्व नारदेन सुरर्षिणा ।

प्रीतस्तस्य ददौ योगं देवदेवो महेश्वरः ॥१७॥

ब्रह्माणा निर्मितं लिंग ब्रह्मोश्वरमिति श्रुतम ।

यत्र स्नात्वा नरो राजन ब्रह्मालोके महीयते ॥१८॥

ऋणतीर्थ ततो गच्छेत स ऋणान्मुच्यते ध्रुवम ।

महेश्वरंक ततो गच्छेत पर्याप्तं जन्मनः फलम ॥१९॥

भीमेश्वरं ततो गच्छेत सर्वव्याधिविनाशनम ।

स्नातमात्रो नरस्तत्र सर्वदुःखैः प्रमुच्यते ॥२०॥

ततो गच्छेत राजेन्द्र पिंगलेश्वरमुत्तमम ।

अहोरात्रोपवासेन त्रिरात्रफलमाप्नुयात ॥२१॥

तस्मिंस्तीर्थे तु राजेन्द्र कपिलं यः प्रयच्छति ।

यावान्ति तस्या रोमाणि तत्प्रसुतिकुलेषु च ।

तावद वर्षसहस्त्राणि रुद्रलोके महीयते ॥२२॥

यस्तु प्राणपरित्यागं कुर्यात तत्र नराधिप ।

अक्षयं मोदते कालं यावचन्द्रदिवाकरौ ॥२३॥

नर्मदातटमाश्रित्य तिष्ठन्ते ये तु मानवाः ।

ते मृताः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥२४॥

ततो दीप्तेश्वरं गच्छेद व्यासतीर्थ ततोवनम ।

निवर्तिता पुरा तत्र व्यासभीता महानदी ।

हुंकारिता तु व्यासेन दक्षिणेन ततो गता ॥२५॥

प्रदक्षिणं तु यः कुर्यात तस्मिस्तीर्थं युधिष्ठिर ।

प्रीतस्तस्य भवेद व्यासो वात्र्छितं लभते फलम ॥२६॥

ततो गच्छेत राजेन्द्र इक्षुनद्यास्तु संगमम ।

त्रैलोक्यविश्रुतं पुण्यं तत्र संनिहितः शिवः ।

तत्र स्नात्वा नरो राजन गाणपत्यमवाप्नुयात ॥२७॥

स्कन्दतीर्थं ततो गच्छेत सर्वपापप्रणाशनम ।

आनन्मनः कृतं पापं स्नातस्तीव्रं व्यपोहति ॥२८॥

तत्र देवाः सगन्धर्वा भवात्मजमनुत्तमम ।

उपासते महात्मानंस्कन्दं शक्तिधरं प्रभुम ॥२९॥

ततो गच्छेदागिंरसं स्नानं तत्र समाचरेत ।

गोसहस्त्रफलं प्राप्यं रुद्रलोकं स गच्छति ॥३०॥

अंगिरा यत्र देवेशं ब्रह्मापुत्रो वृषध्वजम ।

तपसाराध्य विश्‍वेशं लब्धवान योगमुत्तमम ॥३१॥

कुशतीर्थं ततो गच्छेत सर्वपापप्रणाशनम ।

स्नानं तत्र प्रकुर्वीत अश्‍वमेधफलं लभेत ॥३२॥

कोटितीर्थं ततो गच्छेत सर्वपापप्रणाशनम ।

तत्र स्नात्वा नरो राज्यं लभते नात्र संशयः ॥३३॥

चन्द्रभागां ततो गच्छेत स्नान तत्र समाचरेत ।

स्नातमात्रो नरस्तत्र सोमलोके महीयते ॥३४॥

नर्मदादक्षिणे कुले संगमेश्वरमुत्तमम ।

तत्र स्नात्वा नरो राजन सर्वयज्ञफलं लभेत ॥३५॥

नर्मदायोत्तरे कुले तीर्थं परमशोभनम ।

आदित्यायतनं रम्यमीश्वरेण तु भाषितम ॥३६॥

तत्र स्नात्वा तु राजेन्द्र दत्वा दानं तु शक्तिताः ।

तस्य तीर्थप्रभावेण लभते चाक्षयं फलम ॥३७॥

दरिद्रा व्याधिता ये तु ये च दुष्कृतकारिणः ।

मुच्यन्ते सर्वपापेभ्यः सुर्यलोकं प्रयान्ति च ॥३८॥

मार्गेश्वरं ततो गच्छेत स्नानं तत्र समाचरेत ।

स्नातमात्रो नरस्तत्र स्वर्गलोकमवाप्नुयात ॥३९॥

ततः पश्चिमतो गच्छेन्मरुदालयमुत्तमम ।

तत्र स्नात्वा तु राजेन्द्र शुचिर्भूत्वा प्रयत्‍नतः ॥४०॥

कात्र्चनं तु द्विजो दद्याद यथाविभवविस्तरम ।

पुष्पकेण विमानेन वायुलोकं स गच्छति ॥४१॥

ततो गच्छेत राजेन्द्र अहल्यातीर्थमुत्तमम ।

स्नानमात्रादप्सरोभिर्मोदते कालमक्षयम ॥४२॥

चैत्रमासे तु सम्प्राप्ते शुक्लपक्षे त्रयोदशी ।

कामदेवदिने तस्मिन्नहल्यां यस्तुक पुजयेत ॥४३॥

यत्र तत्र नरोप्तन्नो वरस्तत्र प्रियो भवेत ।

स्त्रीवल्लभो भवेच्छ्रीमान कामदेव इवापरः ॥४४॥

अयोध्यां तु समासाद्य तीर्थं शक्रस्य विश्रुतम ।

स्नातामात्रो नरस्तत्र गोसहस्त्रफलं लभेत ॥४५॥

सोमतीर्थं ततो गच्छेत स्नानं तत्र समाचरेत ।

स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते ॥४६॥

सोमग्रहे तु राजेन्द्र पापक्षयकरं भवेत ।

त्रैलोक्यविश्रुतं राजनं सोमतीर्थं महाफलम ॥४७॥

यस्तु चान्द्रायणं कुर्यात तत्र तीर्थे समाहितः ।

सर्वपापविशुद्धात्मा सोमलोकं स गच्छति ॥४८॥

अग्निप्रवेशं यः कुर्यात सोमतीर्थे नराधिप ।

जले चानशनं वापि नासौ मर्त्योऽभिजायते ॥४९॥

स्तम्भतीर्थे ततो गच्छेत स्नानं तत्र समाचरेत ।

स्नातमात्रो नरस्तत्र सोमलोके महीयते ॥५०॥

ततो गच्चेत राजेन्द्र विष्णुतीर्थमनुत्तमम ।

योधनीपुरमाख्यातं विष्णोः स्थानमनुत्तमम ॥५१॥

असुरा योधितास्तत्र वासुदेवेन कोटिशः ।

तत्र तीर्थ समुत्पन्नं विष्णुश्रीको भवेदिह ।

अहोरात्रोपवासेन ब्रह्माहत्यां व्यपोहति ॥५२॥

नर्मदादक्षिणे कुले तीर्थं परमशोभनम ।

कामतीर्थिमिति ख्यातं यत्र कामोऽर्चयद भवम ॥५३॥

तस्मिंस्तीर्थे नरः स्नात्वा उपवासपरायणः ।

कुसुमायुधरुपेण रुद्रलोके महीयते ॥५४॥

ततो गच्छेत राजेन्द्र ब्रह्मातीर्थमनुत्तमम ।

उमाहकमिति ख्यातं तत्र संतर्पयेत पितृन ॥५५॥

पौर्णमास्याममावास्यां श्राद्धं कुर्याद यथाविधि ।

गजरुपा शिला तत्र तोयमध्ये व्यवस्थिता ॥५६॥

तस्मिस्तु दापयेत पिण्डान वैशाख्यां तु विशेषतः ।

स्नात्वा समाहितमना दम्भमात्सर्यवर्जितः ।

तृप्यन्ति पितरस्तस्य यावत तिष्ठति मेदिनी ॥५७॥

सिद्धेश्वरं ततो गच्छेत स्नानं तत्र समाचरेत ।

स्नातमात्रो नरस्तत्र गाणपत्यपदं लभेत ॥५८॥

ततो गच्छेत राजेन्द्र लिंगो यत्र जनार्दनः ।

तत्र स्नात्वा तु राजेन्द्र विष्णुलोकं महीयते ॥५९॥

यत्र नारायणो देवो मुनीनां भावितात्मनाम ।

स्वात्मानं दर्शयामास लिंगं तत परमं पदम ॥६०॥

अंगोंलं तु ततो गच्छेत सर्वपापविनाशनम ।

स्नानं दानं च तत्रैव ब्रहमणानां च भोजनम ।

पिण्डप्रदानं च कृतं प्रेत्यानन्तफलप्रदम ॥६१॥

त्रैयम्बकेन तोयेन यश्चरुं श्रपयेत ततः ।

अंकोलमुले दद्याच्च पिंण्डाश्‍चैव यथाविधि ।

तारिताः पितरस्तेन तृप्यन्त्याचन्द्रतारकम ॥६२॥

ततो गच्छेत राजेन्द्र तापसेश्वरमुत्तमम ।

तत्र स्नात्वा तु राजेन्द्र प्राप्नुयात तपसः फलम ॥६३॥

शुक्लतीर्थं ततो गच्छेत सर्वपापविनाशनम ।

नास्ति तेन समं तीर्थं नर्मदायां युधिष्ठिरं ॥६४॥

दर्शनात स्पर्शनात तस्य स्नानदानतपोजपात ।

होमाच्चैवोपवासाच्च शुक्लतीर्थे महत फलम ॥६५॥

योजनं तत स्मृतं क्षेत्रं देवगन्धर्वसेवितम ।

शुक्लतीर्थामिति ख्यातं सर्वपापविनाशनम ॥६६॥

पादपाग्रेण दृष्टेन ब्रह्माहत्यां व्यपोहति ।

देव्या सह सदा भर्गस्तत्र तिष्ठति शंकरः ॥६७॥

कृष्णपक्षे चतुर्दश्यां वैशाखे मासि सुव्रत ।

कैलासाच्चाभिनिष्क्रम्य तत्र संनिहितो हरः ॥६८॥

देवदानवगन्धर्वाः सिद्धविद्याधरास्तथा ।

गणाश्चाप्सरसां नागास्तत्र तिष्ठन्ति पुंगव ॥६९॥

रजकेन यथा वस्त्रं शुक्लं भवति वारिणा ।

आजन्मनि कृतं पापं शुक्लतीर्थे व्यपोहति ।

स्नानं दानं तपः श्राद्धमनन्तं तत्र दृश्यते ॥७०॥

शुक्लतीर्थात परं तीर्थं न भुतं भविष्यति ।

पुर्वे वयासि कर्माणि कृत्वा पापनि मानवः ।

अहोरात्रोपवासेन शुक्लतीर्थे व्यपोहति ॥७१॥

कार्तिकस्य तु मासस्य कृष्णपक्षे चतुर्दशी ।

घृतेन स्नापयेद देवमुपोष्य परमेश्वरम ।

एकविशंत्कुलोपेतो न च्यवेदैश्‍वरात पदात ॥७२॥

तपसा ब्रह्माचर्येण यज्ञदानेन वा पुनः ।

न तां गतिमवाप्नोति शुक्लतीर्थे तु यां लभेत ॥७३॥

शुक्लतीर्थे महातीर्थमृषिसिद्धनिषेवितम ।

तत्र स्नात्वा नरो राजन पुनर्जन्म न विन्दति ॥७४॥

अयने वा चतुर्दश्यां संक्रान्तौ विषुवे तथा ।

स्नात्वा तु सोपवासः सन विजितात्मा समाहितः ॥७५॥

दानं दद्याद यथाशक्ति प्रीयेतां हरिशंकरौ ।

एतत तीर्थप्रभावेण सर्वं भर्वति चाक्षयम ॥७६॥

अनाथं दुर्गतं विप्रं नाथवन्तमथापि वा ।

उद्वाहयति यस्तीर्थे तस्य पुण्यफलं श्रृणु ॥७७॥

यावत तद्रोमसंख्या तु तत्प्रसुतिकुलेषु च ।

तावद वर्षसहस्त्राणि रुद्रलोके महीयते ॥७८॥

ततो गच्छेत राजेन्द्र यमतीर्थमनुत्तमम ।

कृष्णपक्षे चतुर्दश्यां माघमासे युधिष्ठिर ।

स्नानं कृत्वा नक्तभोजी न पश्येद योनिसंकटम ॥७९॥

ततो गच्छेत रजेन्द्र एरण्दीतीर्थमुत्तमम ।

संगमे तु नरः स्नायादुपवासपरायणः ।

ब्राह्माणं भोजयेदेकं कोटिर्भवति भोजिताः ॥८०॥

एरण्दीसंगमें स्नात्वा भक्तिभावात तु रज्जितः ।

मृत्तिकां शिरसि स्थाप्य अवगाह्रा च तज्जलम ।

नर्मदोदकसम्मिश्रं मुच्यते सर्वकिल्बिषैः ॥८१॥

ततो गच्छेत राजेन्द्र तीर्थं कार्णाटिकेश्वरम ।

गंगावतरते तत्र दिने पुण्ये न संशयः ॥८२॥

तत्र स्नात्वा च पीत्वा च दत्वा चैव यथाविधि ।

सर्वपापविनिमुक्तो ब्रह्मालोके महीयते ॥८३॥

नन्दितीर्थं ततो गच्छेत स्नानं तत्र समाचरेत ।

प्रीयते तस्य नन्दीशः सोमलोके महीयते ॥८४॥

ततो गच्छेत राजेन्द्रः तीर्थं त्वनरकं शुभम ।

तत्र स्नात्वा नरो राजन नरकं नैव पश्यति ॥८५॥

तस्मिस्तीर्थें तु राजेन्द्र स्वान्यस्थीनि विनिक्षिपेत ।

रुपवान जायते लोके धनभोगसमन्वितः ॥८६॥

ततो गच्छेत राजेन्द्र कपिलतीर्थमुत्तमम

तत्र स्नात्वा नरो राजन गोसहस्त्रफलं लभेत ॥८७॥

ज्येष्थ मासे तु साम्प्राप्ते चतुर्दश्यां विशेषतः ।

तत्रोपोष्य नरो भक्त्या दद्याद दीपं घृतेन तु ॥८८॥

घृतेन स्नापयेद रुद्रं सघृतं श्रीफलं दहेत ।

घण्टाभरणसंयुक्तां कपिलां वै प्रदापयेत ॥८९॥

सर्वाभरणसंयुक्तः सर्वदेवनमस्कृतः ।

शिवतुल्यबलो भूत्वा शिववत क्रीडते चिरम ॥९०॥

अंगारकदिने प्राप्ते चतुर्थ्यां तु विशेषतः ।

स्नापयित्वा शिवं दद्याद ब्राह्मणेभ्यस्तु भोजनम ॥९१॥

सर्वभोगसमायुक्तो विमानैः सार्वकामिकैः ।

गत्वा शक्रस्य भवनं शक्रेण सह मोदते ॥९२॥

ततः स्वर्गात परिभ्रष्टो धनवान भोगवान भवेत ।

अंगारकनवम्यां तु अमावास्यां तथैव च ।

स्नापयेत तत्र यत्‍नेन रुपवान सुभगो भवेत ॥९३॥

ततो गच्छेत राजेन्द्र गणेश्वरमनुत्तमम ।

श्रावणे मासि सम्प्रप्ते कृष्णपक्षे चतुर्दशी ॥९४॥

स्नातमात्रो नरस्तत्र रुद्रलोके महीयते ।

पितृणां तर्पणं कृत्वा मुच्यतेऽसावृणत्रयात ॥९५॥

गंगेश्वरसमीपे तु गंगावदनमुत्तमम ।

अकामो वा सकामो वा तत्र स्नात्वा तु मानवः ।

आजन्मजनितैः पापैर्मुच्यते नात्र संशयः ॥९६॥

तस्य वै पश्चिमें देशे समीपे नातिदुरतः ।

दशाश्वमेधिकं तीर्थं त्रिषु लोकेषु विश्रुतम ॥९७॥

उपोष्य रजनीमेकां मासि भाद्रपदे शुभे ।

अमावस्या नरः स्नात्वा पूजयेद वृषभध्वजम ॥९८॥

कात्र्चनेन विमानेन किंकिणीजालमालिना ।

गत्वा रुद्रपुरं रम्यं रुद्रेण सह मोदते ॥९९॥

सर्वत्र सर्वदिवसे स्नानं तत्र समाचरेत ।

पितृणां तर्पणं कुर्यादश्वमेधफलं लभेत ॥१००॥

इति श्रीकूर्मपुराण षटसाहस्रयां संहितायामुपरिविभागे एकोनचत्वारिंशोऽध्यायः ॥३९॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP