TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
द्वाविंशोऽध्यायः

कूर्मपुराणः - द्वाविंशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


द्वाविंशोऽध्यायः

श्राद्ध प्रकरणमें ब्राह्मण निमन्त्रित करनेकी विधि, निमन्त्रित ब्राह्मणके कर्तव्य, श्राद्धविधि, श्राद्धमें प्रशस्त पात्र, पितरोंकी प्रर्थना श्राद्धके दिन निशिद्ध कर्म, वृद्धिश्रद्धका विधान, श्राद्ध प्रकरणका उपसंहार

व्यास उवाच

गोमयेनोदकैर्भूमिं शोधायित्वा समाहितः ।

संनिपत्य द्विजान सर्वान साधुभिः संनिमन्त्रयेत ॥१॥

श्वो भविष्यति मे श्राद्धं पुर्वेद्दुरभिपुज्य च ।

असम्भवे परेद्युर्वा यथोर्क्तैर्लक्षर्णैर्युतान ॥२॥

तस्य ते पितरः श्रुत्वा श्राद्धकालमुपस्थितम ।

अन्योन्यं मनसा ध्यात्वा सम्पतन्ति मनोजवाः ॥३॥

ब्राह्मणैस्ते सहाश्नन्तिं पितरो ह्रान्तरिक्षगाः ।

वायुभुतास्तु तिष्ठन्ति भुक्त्वा यान्ति परां गतिम ॥४॥

आमन्त्रिताश्च ते विप्राः श्राद्धकाल उपस्थिते ।

वसेयुर्नियताः सर्वे ब्रह्माचर्यपरायणः ॥५॥

अक्रोधनोऽत्वरोमत्तः सत्यवादी समाहितः ।

भारं मैथुनमध्वानं श्राद्धकृद वर्जयेज्जपम ॥६॥

आमान्त्रितो ब्राह्मणो वा योऽन्यस्मै कुरुते क्षणम ।

स याति नरकं घोरं सुकरत्वं प्रयाति च ॥७॥

आमन्त्रयित्वा यो मोहादन्यं चामन्त्रयेद द्विजम ।

स तस्मादधिकः पापी विष्ठाकीटोऽभिजायते ॥८॥

श्राद्धे निमिन्त्रितो विप्रो मैथुनं योऽधिगच्छति ।

ब्रह्माहत्यामवाप्नोति तिर्यग्योनौ च जायते ॥९॥

निमन्त्रितस्तु यो विप्रो ह्याध्वानं याति दुर्मति ।

भवन्ति पितरस्तस्य तं मासं पांशुभोजनाः ॥१०॥

निमन्त्रितस्तु यः श्राद्धे प्रकृर्यात कलहं द्विजः ।

भवन्ति तस्यः तन्मस पितरो मलभोजनाः ॥११॥

तस्मान्निमन्त्रित श्रद्धे नियतात्मा भवेद द्विजः ।

आक्रोधन शौचपरः कर्ता चैव जितेन्द्रियः ॥१२॥

श्वोभुते दक्षिणा गत्वा दिशं दर्भान समाहितः ।

समुलानाहरेद वारि दक्षिणाग्रान सुनिर्मलान ॥१३॥

दक्षिणाप्रवणं स्निग्धं विभक्तं शुभलक्षणम ।

शुचिं देशं विविक्तं च गोमयेनोपलेपयेत ॥१४॥

नदीतीरेशु तीर्थेषु स्वभुमौ चैव सानुषु ।

विविक्तेषु च तुष्यन्ति द्त्तेन पित्तरः सदा ॥१५॥

पारक्ये भुमिभागे तु पितृणां नैव निर्वपते ।

स्वामीभिस्तद विहन्येत मोहाद्यत क्रियते नरैः ॥१६॥

अटव्याः पर्वता पुण्यास्तीर्थान्यायतानानि च ।

सर्वाण्यस्वामिकान्याहुर्न हि तेषु परिग्रहः ॥१७॥

तिलान प्रविकिरेत तत्र सवतो बन्धयेजजान ।

असुरोपहतं सवं तिलैः शुद्धत्यजेन वा ॥१८॥

ततोऽन्नं बहुसंस्कारं नैकव्यत्र्जनमच्युतम ।

चोष्यपेयसमृद्धं यथाशक्त्या प्रकल्पयेत ॥१९॥

ततो निवृत्ते मध्याहे लुप्तलोमनखान द्विजान
अभिगम्य यथामार्गं प्रयच्छेद दन्तधावनम ॥२०॥

तैलमभ्यत्र्जनं स्नानं स्नानीयं च पृथग्विधम ।

पात्रैरौदुम्बरैर्दद्यादं वैशवैदत्यपूर्वकम ॥२१॥

ततः स्नात्वा निवृत्तेभ्यं प्रत्युत्थाय कृतात्र्जालिः ।

पाद्यमाचमनीयं च सम्प्रयच्छेद यथाक्रमम ॥२२॥

ये चात्र विश्वेदेवानां विप्राः पुर्व निमन्त्रिताः ।

प्राडमुखान्यासनान्येषां त्रिदर्भोपहितानि च ॥२३॥

दक्षिणामुखयुक्तानि पितृणामासनानि च ।

दक्षिणाग्रेनकर्भाणि प्रेक्षितानि तिलोदकैः ॥२४॥

तेषुपवेशयेदेतानासनं स्पृश्य स दिजम ।

असध्वमिति संजल्पन आसनास्ते पृथक पृथक ॥२५॥

द्वौ दैवे प्रामुखौ पित्र्ये त्रयश्चोदण्डमुखास्तथा ।

एकैकं वा भवेत तत्र देवामातामहेष्वापि ॥२६॥

सत्क्रियां देशकालौ च शौच्रं ब्राह्मणसमप्दम ।

पंचैतान विस्तरौ हन्ति तस्मान्नेहेत विस्तरम ॥२७॥

अपि वा भोजयेदेकं ब्राह्मकं वेदपारगम ।

श्रुतशीलादिसम्पन्नमलक्षणविवर्जितम ॥२८॥

उद्धृत्य पात्रे चान्नं तत सर्वस्मात प्रकृतात पुनः ।

देवतायने चास्मै निवेद्यान्यत प्रवर्तयेत ॥२९॥

प्रस्येदग्नौ तदन्तं तु दद्यात वा ब्रह्माचारिणे ।

तस्मादेकमपि श्रेष्ठं विद्वांस भोजयेद द्विजम ॥३०॥

भिक्षुको ब्रह्माचारी वा भोजनर्थमुपस्थित ।

उपविष्टेषु यः श्राद्धे कामं तमापि भोजयेत ॥३१॥

अतिथिर्यस्य नाश्यन्ति न तच्छ्रद्धं प्रशस्यते ।

तस्मात प्रयत्नाच्छ्राद्धेषु पुज्या ह्रातिथयो द्विजैः ॥३२॥

आतिथ्यरहिते श्राद्धे भुत्र्जते ये द्विजातयः ।

काकयोनिं व्रजन्त्येते दाता चैव न संशयः ॥३३॥

हीनांगः पतितिः कुष्ठी व्रणी पुक्वसनास्तिकौ ।

कुक्कुटाः शुकरा श्‍वानो वर्ज्याः श्राद्धेषु दुरतः ॥३४॥

बीभत्सुमशुचिं नग्नं मत्तं ध्रुर्तं रजस्वलाम ।

नीलकाषायवसनं पाषण्डाश्च विवर्जयेत ॥३५॥

यत तत्र क्रियते कर्म पैतृकं ब्राह्मणान प्रति ।

तत्सर्वमेव कर्तव्यं वैश्वदैवत्यपर्वकम ॥३६॥

यथोपविष्टान सर्वास्तानलंकुर्याद विभुषणैः ।

स्तग्दमाभिः शिरोवेष्टैर्धूपवासोऽनुलेपनैः ॥३७॥

ततस्त्वावाहयेद देवान ब्राह्मणानामनुज्ञया ।

उदंमुखो यथान्यायं विश्वे देवास इत्युचा ॥३८॥

द्वे पवित्रे गुहीत्वाथ भाजने क्षलिते पुनः ।

शं नो देव्या जलं क्षित्वा यवोऽसीति यवांस्तथा ॥३९॥

या दिव्या इति मन्त्रेण हस्ते त्वर्घं विनिक्षिपेत ।

प्रदद्याद गन्धमाल्यानि धुपादिनि च शक्तितः ॥४०॥

अपसव्यं ततः कृत्वा पितृणां दक्षिणामुखः ।

आवाहनं ततः कुर्यादुशन्तस्त्वेत्यृचा बुधः ॥४१॥

आवाह्य तदनुज्ञातो जपेदा यन्तु नस्ततः ।

शं नो देव्योदकं पात्रे तिलोऽसीति तिलांस्तथा ॥४२॥

क्षित्त्वा चर्घ यथापुर्वं दत्वा हस्तेषु वै पुनः ।

संस्रवाश्च ततः सर्वान पात्रे कुर्यात समाहितः ।

पितृभ्यः स्थानमेतेन न्युब्जं पात्रं निधापयेत ॥४३॥

अग्नौ करिशःयेत्यादाय पृच्छत्यन्नं घृतप्लुतम ।

कुरुष्वेत्यभ्यनुज्ञातो जुहुयादुपवीतवान ॥४४॥

यज्ञोपवीतिना होमः कर्तव्यः कुशपाणिना ।

प्राचीनावीतिना पित्र्यं वैश्वदेवं तु होमवत ॥४५॥

दक्षिणं पातयेज्जानुं देवान परिचरण पुमान ।

पितृणां परिचर्यासु पातयेदितरं तथा ॥४६॥

सोमाय वै पितृमते स्वधा नम इति ब्रुवन ।

अग्नये कव्यवाहाय स्वधेति जुहुयात ततः ॥४७॥

अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत ।

महादेवान्तिके वाथ गोष्ठे वा सुस्माहितः ॥४८॥

ततस्तैरभ्यनुज्ञातो गत्वा वै दक्षिणां दिशम ।

गोमयेनोपिलप्योर्वीं स्थानं कृत्वा तु सैकतम ॥४९॥

मण्डलं चतुरस्रं वा दक्षिणावनतं शुभम ।

त्रिरुल्लिखेत तस्य मध्यं दर्भेणैकेन चैव हि ॥५०॥

ततः संस्तीर्य तत्स्थाने दर्भान वै दक्षिणाग्रकान ।

त्रीन पिण्डान निर्वपेत तत्र हविःशेषत समाहितः ॥५१॥

न्युप्य पिण्डस्तुं तं हस्तं निमृज्याल्लेपभागिनाम ।

तेषु दभेष्वथाचम्य त्रिरायम्ब शनैरसून ।

तदन्नं तु नमस्कूर्यात पितृनेव च मन्त्रवित ॥५२॥

उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः ।

अवजिघ्रेच्च तान पिण्डान यथान्युत्पान समहितः ॥५३॥

अथ पिण्डावशिष्टान्नं विधिना भोजयेद द्विजन ।

मांसान्यपुपान विविधान दद्यात कृसरपायसम ॥५४॥

सूपशाकफलानीक्षुन पयो दधि घृतं मधु ।

अन्नं चैव यथाकामं विविधं भक्ष्यपेयकम ॥५५॥

यद यदिष्टं द्विजेन्द्राणां तत्सर्व विनिवेदयेत ।

धान्यास्तिलांश्च विविधान शर्करा विविधास्तथा ॥५६॥

उष्णमन्नं द्विजातिभ्यो दातव्यं श्रेय इच्छता ।

अन्यत्र फलमुलेभ्यः पानकेभ्यस्तथैव च ॥५७॥

नाश्रुणि पातयेज्जातु न कुप्येन्नानृतं वदेत ।

न पादेन स्पृशेदन्नं न चैतदवधुनयेत ॥५८॥

क्रोधेन चैव यद दत्तं यद भुक्तं त्वरया पुनः ।

यातुधाना विलम्पन्ति जल्पता चोपपादितम ॥५९॥

स्विन्नगात्रो न तिष्ठेत संनिधी तु द्विजन्मनाम ।

न चात्र श्यनेकाकादीन पक्षिनः प्रतिषेधयेत ।

तदरुपाः पितरस्तत्र समायान्ति बुभुक्षवः ॥६०॥

न दद्यात तत्र हस्तेन प्रत्यक्षलवणं तथा ।

न चायसेन पात्रेण न चैवाश्रद्धया पुनः ॥६१॥

कात्र्चनेन तु पात्रेण राजतौदुम्बरेण वा ।

दत्तमक्षयतां याति खंगेंन च विशेषतः ॥६२॥

पात्रे तु मृणमये यो वै श्राद्धे भोजयते पितृन ।

स याति नरकं घोरं भोक्ता चैव पुरोधसः ॥६३॥

न पक्त्यां विषमं दद्यान्न याचेन्न च दापयेत ।

याचिता दापिता दाता नरकान यान्ति दारुणान ॥६४॥

भुत्र्जीरन वाग्यताः शिष्टा न ब्रुयुः प्राकृतान गुणान ।

तावाद्भिःपितरोऽश्नन्ति यावन्नोक्ता हविर्गुणाः ॥६५॥

नाग्नासनोपविष्टस्तु भुत्र्जीत प्रथमं द्विजः ।

बहुनां पश्यतां सोऽज्ञः पक्त्यां हरति किल्बिषम ॥६६॥

न कित्र्चिद वर्जयेच्छ्राद्धे नियुक्तस्तु द्विजोत्तम ।

न मासं प्रतिषेधेन्त न चान्यस्यान्नमीक्षयेत ॥६७॥

यो नाश्नाति द्विजो मांस नियुक्तः पित्रुकर्माणि ।

स प्रेत्य पशुतां यति सम्भवानेकाविंशतिम ॥६८॥

स्वाध्यायं शावयेदेषां धर्मशास्त्राणि चैव हि ।

इतिहासपुराणानि श्राद्धकल्पांश्च शोभनान ॥६९॥

ततोऽन्नमुत्सृजेद भुक्ते अग्रतो विकिरन भुवि ।

पृष्टा तृप्ताः स्थ इत्येवं तृप्तानाचामयेत ततः ॥७०॥

आचान्ताननुजानीयादभिती रम्यतामिति ।

स्वधाऽस्त्व्ति च तं ब्रुयुर्ब्राह्माणास्तदनन्तरम ॥७१॥

ततो भुक्तवतां तेषामन्नशेषं निवेदयेत ।

यथा ब्रुयुस्तथा कुर्यादनुज्ञातस्तु वै द्विजैः ॥७२॥

पित्र्ये स्वदितमित्येव वाष्ठ गोष्ठेषु सूनुतम ।

सम्पन्नमित्यभ्युदये दैवे रोचत इत्यपि ॥७३॥

विसृज्य ब्राह्मणांस्तान वै दैवपुर्वं तु वाग्यतः ।

दक्षिणां दिशामाकांक्षण याचेतेमान वरान पितृन ॥७४॥

दातारो नोऽभिवधन्तां वेदाः संततिरेव च ।

श्रद्धाच नो मा व्यगमद बहुदेयं न नोऽस्त्विति ॥७५॥

पिण्डास्तु गोऽजाविप्रेभ्यो दद्यादग्नी जलेऽपी वा ।

मध्यमं तु ततः पिण्डमद्यात पत्‍नी सुतार्थिनी ॥७६॥

प्रक्षाल्य हस्तावाचम्य ज्ञातीन शेषेण तोषयेत ।

ज्ञातिष्वपि च तुष्टेषु स्वान भृत्यान भोजयेत ततः ।

पश्चत स्वयं च पत्नीभिः शेषमन्नं समचरेत ॥७७॥

नोद्वासयेत तदुच्छिष्टं यावन्नास्तंगतो रविः ।

ब्रह्माचारी भवेतां तु दम्पती रजनीं तु ताम ॥७८॥

दत्वा श्राद्धं तथा भुक्त्वा सेवते यस्तु मैथुनम ।

महारौरवामासद्य कीटयोनिं व्रजेत पुनः ॥७९॥

शुचिरक्रोधनः शान्तः सत्यवदी समहितः ।

स्वध्ययं च तथाध्वानं कर्ता भोक्ताः च वर्जयेत ॥८०॥

श्राद्धं भुक्त्वा परश्राद्धं भुत्र्चते ये द्विजातयः ।

महापातिकिभिस्तुल्या यान्ति ते नरकान बहुनु ॥८१॥

एष वे विहितः सम्यकः श्राद्धकल्पः सनातनः ।

आमेन वर्तयेन्नित्यमुदसीनोऽथ तत्ववित ॥८२॥

अनग्निरध्वगो वापि तथैव व्यसनन्वितः ।

आमश्राद्धं द्विजः कुर्याद विधिज्ञः श्रद्धयान्वितः ।

तेनाग्नौकरणं कुर्यात पिण्डांस्तेनैव निर्वपेत ॥८३॥

योऽनेन विधिना श्राद्धं कुर्यात संयतमानसः ।

व्यपेतकल्मषो नित्यं योगिनां वर्तते पदम ॥८४॥

तस्मात सर्वप्रयत्‍नेने श्राद्धं कुर्याद द्विजोत्तमः ।

आराधितो भवेदीशस्तेन सम्यक सनातनः ॥८५॥

अपि मुलैर्फलैर्वापि प्रकुर्यान्निर्धनो द्विजः ।

तिलोदकैस्तर्पयेद वा पितृन स्नात्वा समाहित ॥८६॥

न जीवात्पितृको दद्याद्धोमान्तं चाभिधीयते ।

येषा वापि पिता दद्यात तेषां चैके प्रचक्षते ॥८७॥

पिता पितामहश्चैव तथैव प्रतितामहः ।

यो यस्य म्रियते तस्मैं देयं नान्यस्य तेन तु ॥८८॥

भोजयेद वपि जीवन्तं यथाकामं यु भक्तितः ।

न जीवन्तमतिक्रम्य ददाति श्रुयते श्रुति ॥८९॥

द्वायामुष्यायणिको दद्याद बीजिक्षेत्रिकियोः समम ।

रिक्थादर्धं समदद्यान्नियोगोत्पादितो यादि ॥९०॥

अनियुक्तः सुतो यश्च शुक्लतो जायते त्विह ।

प्रदद्यह बीजिने पीन्डं क्षेत्रिणे तु ततोऽन्यथा ॥९१॥

द्वौ पिण्डौ निर्वेपेत तभ्यां क्षेत्रिणें बीजिने तथा ।

कीर्तयेदथ चैकास्मिन बीजिनं क्षेत्रिणं ततः ॥९२॥

मृताहानि तु कर्तव्यामेकोद्दिष्टं विधानतः ।

अशौचे स्वे परिक्षीणे काम्यं वे कामतः पुनः ॥९३॥

पुर्वाह्णे चैव कर्तव्यं श्राद्धमभ्युदयार्थिना ।

देववत्सर्वमेव स्याद यवैः कर्या तिलक्रिया ॥९४॥

दर्भाश्च ऋज्यवः कर्या युग्मान वै भोजयेद द्विजान ।

नान्दीमुखास्तु पितरः प्रीयन्तामिति वाचयेत ॥९५॥

मातृश्राद्धं तु पुर्वं स्यात पितृणां स्यादनन्तरम ।

ततो मातामहानां तु वृद्धों श्राद्धत्रयं स्मृतम ॥९६॥

देवपुर्ण प्रदद्याद वै न कुर्यादप्रदक्षिणम ।

प्राडमुखो निर्वपेत पिण्डानुपवीती समाहितः ॥९७॥

पुर्वं तु मातरः पुज्या भक्त्या वै सगणेश्वराः ।

स्थण्डिलेषु विचित्रेषु प्रतिमासु द्विजातिषु ॥९८॥

पुष्पैर्धुपैश्च नैवेद्यैर्गन्धाद्यैर्भूषणैरपि ।

पुजायित्वा मातृगणं कुर्याच्छ्राद्धत्रयं बुधः ॥९९॥

अकृत्वा मातृयागं तु यः श्राद्धं परिवेषयेत ।

तस्य क्रोधसमाविष्टा हिंसामिच्छान्ति मातरः ॥१००॥

इति श्रीकूर्मपुराणे षटसाहस्त्रयां संहितायामुपरिविभागे द्वाविंशोऽध्यायः ॥२२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2010-04-17T04:16:35.6000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

deflocculated suspension

  • अनुर्णित निलंबन 
RANDOM WORD

Did you know?

Why Cows are considered secred in Hinduism?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.