संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथगृहप्रवेशनीयहोमः

धर्मसिंधु - अथगृहप्रवेशनीयहोमः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


सचवध्वासहस्वगृहंगतस्यविहितस्तथापिशिष्टाःश्वशुरगृहे एवकुर्वन्ति तत्रार्धरात्रोत्तरंविवाहहोमेपरेद्युः

प्रातस्तिथ्यादिसंकिर्त्यममाग्रेगृह्याग्नित्वसिद्धिद्वाराश्रीपरमे० र्थगृहप्रवेशनीयाख्यंहोमंकरिष्य

इतिसंकल्प्यकार्यःअर्धरात्रात्पूर्वं विवाहहोमेतदैवहोमोत्तरंपुनस्तिथ्यादिसंकीर्त्यसंकल्पपूर्वकंरात्रावापिगृहप्रवेशनीयहोमकरणेदोषोनय

विवाहहोमगृहप्रवेशनीयहोमयोरेकतन्त्रेणानुष्ठानंकुर्वन्तितन्नयुक्तम

विवाहाग्नेरेवगृहप्रवेशनीयहोमोत्तरंगुह्यत्वसिद्धिराश्वलायनतैत्तिरीयादीनांभवति तैत्तिरीयकात्यायनादीनांपुनराधानेप्रकारान्तरमस्ति

यदिरात्रौषटघटीमध्येऽग्न्युत्पत्तिस्तदागृहप्रवेशनीयाभावेपिव्यतीपातादिसंभवेपितदैवोपासनहोमारम्भःतदुत्तरंचेत्पअरदिनेसायमौपासनारंभः

सचेत्थम

सायंसंध्यामुपास्यविवाहाग्निप्रज्वाल्यप्राणानायम्यदेशकालौसंकीर्त्यास्मिन्विवाहाग्नौयथोक्तकालेश्रीपरमेश्वरप्रीत्यर्थंयावज्जीवमुपासनंकरिष्य

इतिसंकल्प्यपुनर्देशकालोसंकीर्त्यश्रीपरमेश्वरप्रीत्यर्थंसायंप्रातरुपासनहोमौकरिष्येतत्रेदानीसायमौपासनहोमंकरिशह्ये

प्रातुस्तुपूर्वसंकल्पितप्रातरौपासनहोमंकरिष्येइतिसंकल्प्यहोमः कार्यः

N/A

References : N/A
Last Updated : May 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP