संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथभरद्वाजाः

धर्मसिंधु - अथभरद्वाजाः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथभरद्वाजाः तेचत्वारः भरद्वाजाः गर्गाः ऋक्षाः कपयश्चेति भरद्वाजाः क्षाम्यायणाः

देवाश्वइत्यादयः षष्ट्युत्तरशताधिकाभरद्वाजास्तेषामांगिरसबार्हस्पत्यभारद्वाजेतित्रयः गर्गाः

सांभरायणाः सखीनयः इत्यादयः पञ्चाशदधिकागर्गास्तेषामांगिरसबार्हस्पत्यभारद्वाजशैन्यगार्ग्येतिपञ्च

आंगिरसशैन्यगार्ग्येतित्रयोवा अन्त्ययोर्व्यत्ययोवा भारद्वाजगार्ग्यशैन्येतिवा

गर्गभेदानामांगिरसतैत्तिरिकापिभुवेति ऋक्षाः रौक्षायणाः कपिलः

इत्यादयोनवाधिकाऋक्षास्तेषामांगिरसबार्हस्पत्यभारद्वाजवान्दनमातवचसेतिपञ्च

आंगिरसवान्दनमातवचसेतित्रयोवा कपयःस्वस्तितरयःदण्डिनःइत्यादयःपञ्चविंशत्यधिकाः

कपयस्तेषामांगिरसामहय्यौरुक्षय्येतित्रयः आंगिरसामहीयवौरूक्षयसेत्याश्वलायनपाठः

आत्मभुवामांगिरसभारद्वाजबार्हस्पत्यवरात्मभुवेतिपञ्च अयंगणःक्वचित्

भरद्वाजानांसर्वेषांपरस्परमविवाहःसगोत्रत्वात् प्रायेणद्वित्रिप्रवरसाम्याच्च

ऋक्षान्तर्गतानांकपिलानांविश्वामित्रैरप्यविवाहः इति भारद्वाजांगिरसः ॥

N/A

References : N/A
Last Updated : May 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP