संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
भवानीस्तुतिः ।

स्तुतिः - भवानीस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


आनन्दमन्थरपुरन्दरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य ।

पादाम्बुजं भवतु वो विजयाय मंजुमंजीरशिंजितमनोहरमम्बिकायाः ॥१॥

ब्रह्मादयोऽपि यदपांगतरंगभङ्ग्या सृष्टिस्थितिप्रलयकारणतां व्रजंति ।

लावण्यवारिनिधीवीचिपरिप्लुयायै तस्यै नमोऽस्तु सततं हरवल्लभायै ॥२॥

पौलस्त्यपीनभुजसंपुददस्यमानकैलाससंभ्रमविलोलदृशः प्रियायः ।

श्रेयांसि वो दिशतु निह्नतकोपचिह्नमालिङ्गनोत्पुलकभासितमिन्दुमौलैः ॥३॥

दिश्यान्महासुरशिरःसरसीप्सितानि प्रेखन्नखावलियमयूखमृणालनालम् ।

चण्ड्याश्चलच्चटुलनूपुरचंचरीकझांकारहारि चरणाम्बुरुहद्वयं वः ॥४॥

इति भवानीस्तुतिः ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP