संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
वादे शक्तिप्रदात्री प्रणत...

श्रीवाग्देवीस्तवः - वादे शक्तिप्रदात्री प्रणत...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


वादे शक्तिप्रदात्री प्रणतजनततेः सन्ततं सत्सभायां
प्रश्नानां दुस्तराणामपि लघु सुसमाधानमाश्वेव वक्तुम् ।
वागीशाद्यैः सुराग्र्‌यैर्विविधफलकृते सन्ततं पूज्यमाना
वाग्देवी वाञ्छितं मे वितरतु तरसा शृङ्गभूभृन्निवासा ॥१॥
व्याख्यामुद्राक्षमालाकलशसुलिखितैः राजदंभॊजपाणिः
काव्यालंकारमुख्येष्वपि निशितधियं सर्वशास्त्रेषु तूर्णम् ।
मूकेभ्योऽप्यार्द्रचित्ता दिशति करुणया या जवात्साकृपाब्धिः
वाग्देवी वाञ्छितं मे वितरतु तरसा शृङ्गभूभृन्निवासा ॥२॥
जाड्यध्वान्तार्कपङ्क्तिस्तनुजितरजनीकान्तगर्वाऽऽगमानां
शीर्षैः संस्तूयमाना मुनिवरनिकरैः सन्ततं भक्तिनम्रैः ।
कारुण्यापारवारांनिधिरगतनयासिन्धुकन्याभिवाद्या
वाग्देवी वाञ्छितं मे वितरतु तरसा शृङ्गभूभृन्निवासा ॥३॥

N/A

References : N/A
Last Updated : February 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP