संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः| नतोऽस्म्यहं त्वाखिलहेतुहे... स्तुतिः स्तवः धर्मराज नमस्तेऽस्तु साक्ष... अश्वत्थोऽयं प्रपञ्चो न हि... कुक्षिस्फुरन्नागभीत्या मू... भज जगदम्बां भज जगदम्बां ज... कञ्जाक्षमुख्यामर पूजिताभ्... करोतु कल्याणपरंपरां नः का... स्मितोद्धूतराकानिशानायकाय... जाड्यवारिधिनिमग्नसुबुद्धे... श्री महालक्ष्मी स्तुतिः श्रीमान् वेङ्कटनाथार्यः क... श्रीमान् वेङ्कटनाथार्यः क... श्रीमान् वेङ्कटनाथार्यः क... नमस्त्रिमूर्तये तुभ्यं प्... संसारपतितस्यैको जन्तोस्त्... इन्द्र उवाच: कृष्ण कृष्ण ... भूमिरापोऽनलो वायुः खं मनो... सन्मात्ररूपिणेऽचिन्त्यमहि... नमस्ते पुण्डरीकाक्ष नमस्त... शङ्खचक्रगदापाणॆ! द्वरकानि... नमःशिवायै गंगायै शिवदायै ... स्फुटं स्फटिकसप्रभं स्फुट... सर्वमार्गेषु नष्टेषु कलौ ... नमो देव्यै प्रकृत्यै च वि... साम्बो नः कुलदैवतं पशुपते... अथ कथमपि मद्रसनां त्वद्गु... योऽन्तः प्रविश्य मम वाचमि... मानातीतप्रथितविभवां मङ्गल... नमामि भक्तवत्सलं कृपालुशी... भीष्म उवाच इति मतिरुपकल्प... किं नाहं पुत्रस्तव मातुः ... बालस्तरुणभक्तौ च वीरश्शक्... जननी मृगयतु मामित्याच्छाद... क्षमस्व भगवत्यंब क्षमाशील... कल्याणवृष्टिभिरिवामृतपूरि... नारद उवाच ध्यात्वा गणपतिं... कल्याणायुतपूर्णचन्द्रवदना... सञ्चितयामि गुरुवायुपुरेश,... करोतु पदविन्यासान्कमलासनक... श्रीकण्ठतनय श्रीश श्रीकर ... ओङ्कारवेद्यः पुरुषः पुराण... कल्पान्तोदितचण्डभानुविलसद... कल्पभानुसमानभासुरधाम लोचन... उत्थिष्ठ कृष्ण गुरुवायुपु... जनमेजय उवाच- शरतल्पेशयानस... दाल्भ्य उवाच- कार्यारंभेष... महादेव उवाच – शृणु देवि प... योगेन सिद्धविबुधैः परिभाव... मयि कुरु मङ्गलमंबुजवासिनि... श्रीवत्सचिह्नमिश्रेभ्यो न... कल्लोलोल्लसितामृताब्धिलहर... जय पद्मविशालाक्षि जय त्वं... वादे शक्तिप्रदात्री प्रणत... शृंगाद्रिवासाय विधिप्रिया... त्वमेकः शुद्धोऽसि त्वयि न... नतोऽस्म्यहं त्वाखिलहेतुहे... या माता दुहिता महाजलनिधेर... प्रणवमाते गतित्राते गयःत्... आदिमाते वेदमाते भक्तानुग्... आनन्दसागरस्तवः षडाननस्तुतिः । हरिहस्तुतिः । श्रीविष्णुस्तुतिः । सुदर्शनचक्रस्तुतिः । गरुड़स्तुतिः । शेषस्तुतिः समुद्रस्तुतिः । मत्स्यावतारस्तुतिः । कूर्मावतारस्तुतिः । परशुरामस्तुतिः । श्रीसीतास्तुतिः । श्रीरामकृष्णस्तुतिः । रुक्मिणीस्तुतिः । श्रीकृष्णनन्दकमणिस्तुतिः । श्रीकृष्णवंशीस्तुतिः । बुद्धस्तुतिः । सूर्याश्वस्तुतिः । चन्द्रस्तुतिः । परब्रह्मस्तुतिः । वीणापाणिस्तुतिः । गौरीश्वरस्तुतिः । श्रीशिवजटाजूटस्तुतिः । शिवजटाजूटस्थितशशिलेखास्तुतिः । शिवलोचनस्तुतिः । शिवकण्ठस्तुतिः । शिवशिरोमालिकास्तुतिः । शिवताण्डवस्तुतिः । भवानीस्तुतिः । कमलनयनस्तुतिः । कमलालयास्तुतिः । मीनवपुधारिभगवत्स्तुतिः । श्रीवराहस्तुतिः । श्रीरामस्तुतिः । गोपालस्तुतिः । ऋषीस्तुतिः । ग्रहस्तुतिः । पुण्यजनस्तुतिः । देवीस्तुतिः । सन्ध्यास्तुतिः । श्रीविष्णुस्तुतिः । परब्रह्मस्तुतिः । श्रीशिवस्तुतिः । श्रीशम्भुस्तुतिः । पार्वतीस्तुतिः । श्रीश्रीनाथस्तुतिः । ब्राह्मणस्तुतिः । श्रीराधाकृष्णस्तुतिः । सर्वेषां कल्याणार्थं भगवत्स्तुतिः । गोपालस्तुतिः । गोपालस्तुतिः । भारती स्तुतिः अक्रूरस्तुति - नतोऽस्म्यहं त्वाखिलहेतुहे... देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते. Tags : godgoddessstutiदेवतादेवीस्तुति अक्रूरस्तुति Translation - भाषांतर नतोऽस्म्यहं त्वाखिलहेतुहेतुं नारायणं पूरुषमाद्यमव्ययम् ।यन्नाभिजातादरविन्दकोशाद् ब्रह्माऽऽविरासीद् यत एष लोकः ॥१॥भूस्तोयमग्निः पवनः खमादिर्महानजादिर्मन इन्द्रियाणि ।सर्वेन्द्रियार्था विबुधाश्च सर्वे ये हेतवस्ते जगतोऽङ्गभूताः ॥२॥नैते स्वरूपं विदुरात्मनस्ते ह्यजादयोऽनात्मतया गृहीताः ।अजोऽनुबद्धः स गुणैरजाया गुणात् परं वद न ते स्वरूपम् ॥३॥त्वां योगिनो यजन्त्यद्धा महापुरुषमीश्वरम् ।साध्यात्मं साधिभूतं च साधिदैवं च माधव ॥४॥त्रय्या च विद्यया केचित्त्वां वै वैतानिका द्विजाः ।यजन्ते विततैर्यज्ञैर्नानारूपामराख्यया ॥५॥एके त्वाखिलकर्माणि संन्यस्योपशमं गताः ।ज्ञानिनो ज्ञानयज्ञेन यजन्ति ज्ञानविग्रहम् ॥६॥अन्ये च संस्कृतात्मानो विधिनाभिहितेन ते ।यजन्ति त्वन्मयास्त्वां वै बहुमूर्त्येकमूर्तिकम् ॥७॥त्वमेवान्ये शिवोक्तेन मार्गेण शिवरूपिणम् ।बह्वाचार्यविभेदेन भगवन् समुपासते ॥८॥सर्व एव यजन्ति त्वां सर्वदेवमयेश्वरम् ।येऽप्यन्यदेवताभक्ता यद्यप्यन्यधियः प्रभो ॥९॥यथाद्रिप्रभवा नद्यः पर्जन्यापूरिता प्रभो ।विशन्ति सर्वतः सिन्धुंतद्वत्त्वां गतयोऽन्ततः ॥१०॥सत्त्वं रजस्तम इति भवतः प्रकृतेर्गुणाः ।तेषु हि प्राकृताः प्रोता आब्रह्मस्थावरादयः ॥११॥तुभ्यं नमोस्त्वविषक्तदृष्टये सर्वात्मने सर्वधियां च साक्षिणे ।गुणप्रवाहोऽयमविद्यया कृतः प्रवर्तते देवनृतिर्यगादिषु ॥१२॥अग्निर्मुखं तेऽवनिरङ्घ्रिरीक्षणं सूर्यो नभो नाभिरथो दिशाः श्रुतिः ।द्यौः कं सुरेन्द्रास्तवबाहवोऽर्णवाः कुक्षिर्मरुत् प्राणबलं प्रकल्पितम् ॥१३॥रोमाणि वृक्षौषधयः शिरोरुहा मेघाः परस्यास्थिनखानि तेऽद्रयः ।निमेषणं रात्र्यहनी प्रजापतिर्मेढ्रस्तु वृष्टिस्तव वीर्यमिष्यते ॥१४॥त्वय्यव्ययात्मन् पुरुषे प्रकल्पिता लोकाः सपाला बहुजीवसङ्कुलाः ।यथा जले सञ्जिहते जलौकसोप्युदुम्बरे वा मशका मनोमये ॥१५॥यानि यानीह रूपाणि क्रीडनार्थं बिभर्षि हि । तैरामृष्टशुचोलोका मुदा गायन्ति ते यशः ॥१६॥नमः कारणमत्स्याय प्रलयाब्धिचराय च ।हयशीर्ष्णे नमस्तुभ्यं मधुकैटभमृत्यवे ॥१७॥अकूपाराय बृहते नमो मन्दरधारिणे ।क्षित्युद्धारविहाराय नमःसूकरमूर्तये ॥१८॥नमस्तेऽद्भुतसिंहाय साधुलोकभयापह ।वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय च ॥१९॥नमो भृगूणां पतयेदृप्तक्षत्रवनच्छिदे ।नमस्ते रघुवर्याय रावणान्तकराय च ॥२०॥नमस्ते वासुदेवाय नमःसङ्कर्षणाय च ।प्रद्युम्नायाऽनिरुद्धाय सात्वतां पतये नमः ॥२१॥नमो बुद्धाय शुद्धाय दैत्यदानवमोहिने ।म्लेच्छप्रायक्षत्रहन्त्रे नमस्ते कल्किरूपिणे ॥२२॥भगवञ्जीवलोकोऽयं मोहितस्तव मायया ।अहंममेत्यसद्ग्राहो भ्राम्यते कर्मवर्त्मसु ॥२३॥अहं चात्मात्मजागारदारार्थस्वजनादिषु ।भ्रमामि स्वप्नकल्पेषुमूढः सत्यधिया विभो ॥२४॥अनित्यानात्मदुःखेषु विपर्ययमतिर्ह्यहम् ।द्वन्द्वारामस्तमोविष्टो न जाने त्वाऽऽत्मनः प्रियम् ॥२५॥यथाबुधो जलं हित्वा प्रतिच्छन्नं तदुद्भवैः ।अभ्येति मृगतृष्णां वै तद्वत्त्वाहं पराङ्मुखः ॥२६॥नोत्सहेऽहं कृपणधीः कामकर्महतं मनः ।रोद्धुं प्रमाथिभिश्चाक्षैर्ह्रियमाणमितस्ततः ॥२७॥सोऽहंतवाङ्घ्र्युपगतोऽस्म्यसतां दुरापं तच्चाप्यहं भवदनुग्रह ईश मन्ये ।पुंसो भवेद् यर्हि संसरणापवर्गस्त्वय्यब्जनाभ सदुपासनया मतिः स्यात् ॥२८॥नमो विज्ञानमात्राय सर्वप्रत्ययहेतवे ।पुरुषेशप्रधानाय ब्रह्मणेऽनन्तशक्तये ॥२९॥नमस्ते वासुदेवाय सर्वभूतक्षयाय च ।हृषीकेश नमस्तुभ्यं प्रपन्नं पाहि मां प्रभो ॥३०॥॥इति श्रीमद्भागवते महापुराणे परमहंस्यां संहितायां दशमस्कन्धेपूर्वार्धेऽक्रूरस्तुतिर्नाम चत्वारिंशोऽध्यायः ॥ N/A References : N/A Last Updated : January 06, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP