संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः| उत्थिष्ठ कृष्ण गुरुवायुपु... स्तुतिः स्तवः धर्मराज नमस्तेऽस्तु साक्ष... अश्वत्थोऽयं प्रपञ्चो न हि... कुक्षिस्फुरन्नागभीत्या मू... भज जगदम्बां भज जगदम्बां ज... कञ्जाक्षमुख्यामर पूजिताभ्... करोतु कल्याणपरंपरां नः का... स्मितोद्धूतराकानिशानायकाय... जाड्यवारिधिनिमग्नसुबुद्धे... श्री महालक्ष्मी स्तुतिः श्रीमान् वेङ्कटनाथार्यः क... श्रीमान् वेङ्कटनाथार्यः क... श्रीमान् वेङ्कटनाथार्यः क... नमस्त्रिमूर्तये तुभ्यं प्... संसारपतितस्यैको जन्तोस्त्... इन्द्र उवाच: कृष्ण कृष्ण ... भूमिरापोऽनलो वायुः खं मनो... सन्मात्ररूपिणेऽचिन्त्यमहि... नमस्ते पुण्डरीकाक्ष नमस्त... शङ्खचक्रगदापाणॆ! द्वरकानि... नमःशिवायै गंगायै शिवदायै ... स्फुटं स्फटिकसप्रभं स्फुट... सर्वमार्गेषु नष्टेषु कलौ ... नमो देव्यै प्रकृत्यै च वि... साम्बो नः कुलदैवतं पशुपते... अथ कथमपि मद्रसनां त्वद्गु... योऽन्तः प्रविश्य मम वाचमि... मानातीतप्रथितविभवां मङ्गल... नमामि भक्तवत्सलं कृपालुशी... भीष्म उवाच इति मतिरुपकल्प... किं नाहं पुत्रस्तव मातुः ... बालस्तरुणभक्तौ च वीरश्शक्... जननी मृगयतु मामित्याच्छाद... क्षमस्व भगवत्यंब क्षमाशील... कल्याणवृष्टिभिरिवामृतपूरि... नारद उवाच ध्यात्वा गणपतिं... कल्याणायुतपूर्णचन्द्रवदना... सञ्चितयामि गुरुवायुपुरेश,... करोतु पदविन्यासान्कमलासनक... श्रीकण्ठतनय श्रीश श्रीकर ... ओङ्कारवेद्यः पुरुषः पुराण... कल्पान्तोदितचण्डभानुविलसद... कल्पभानुसमानभासुरधाम लोचन... उत्थिष्ठ कृष्ण गुरुवायुपु... जनमेजय उवाच- शरतल्पेशयानस... दाल्भ्य उवाच- कार्यारंभेष... महादेव उवाच – शृणु देवि प... योगेन सिद्धविबुधैः परिभाव... मयि कुरु मङ्गलमंबुजवासिनि... श्रीवत्सचिह्नमिश्रेभ्यो न... कल्लोलोल्लसितामृताब्धिलहर... जय पद्मविशालाक्षि जय त्वं... वादे शक्तिप्रदात्री प्रणत... शृंगाद्रिवासाय विधिप्रिया... त्वमेकः शुद्धोऽसि त्वयि न... नतोऽस्म्यहं त्वाखिलहेतुहे... या माता दुहिता महाजलनिधेर... प्रणवमाते गतित्राते गयःत्... आदिमाते वेदमाते भक्तानुग्... आनन्दसागरस्तवः षडाननस्तुतिः । हरिहस्तुतिः । श्रीविष्णुस्तुतिः । सुदर्शनचक्रस्तुतिः । गरुड़स्तुतिः । शेषस्तुतिः समुद्रस्तुतिः । मत्स्यावतारस्तुतिः । कूर्मावतारस्तुतिः । परशुरामस्तुतिः । श्रीसीतास्तुतिः । श्रीरामकृष्णस्तुतिः । रुक्मिणीस्तुतिः । श्रीकृष्णनन्दकमणिस्तुतिः । श्रीकृष्णवंशीस्तुतिः । बुद्धस्तुतिः । सूर्याश्वस्तुतिः । चन्द्रस्तुतिः । परब्रह्मस्तुतिः । वीणापाणिस्तुतिः । गौरीश्वरस्तुतिः । श्रीशिवजटाजूटस्तुतिः । शिवजटाजूटस्थितशशिलेखास्तुतिः । शिवलोचनस्तुतिः । शिवकण्ठस्तुतिः । शिवशिरोमालिकास्तुतिः । शिवताण्डवस्तुतिः । भवानीस्तुतिः । कमलनयनस्तुतिः । कमलालयास्तुतिः । मीनवपुधारिभगवत्स्तुतिः । श्रीवराहस्तुतिः । श्रीरामस्तुतिः । गोपालस्तुतिः । ऋषीस्तुतिः । ग्रहस्तुतिः । पुण्यजनस्तुतिः । देवीस्तुतिः । सन्ध्यास्तुतिः । श्रीविष्णुस्तुतिः । परब्रह्मस्तुतिः । श्रीशिवस्तुतिः । श्रीशम्भुस्तुतिः । पार्वतीस्तुतिः । श्रीश्रीनाथस्तुतिः । ब्राह्मणस्तुतिः । श्रीराधाकृष्णस्तुतिः । सर्वेषां कल्याणार्थं भगवत्स्तुतिः । गोपालस्तुतिः । गोपालस्तुतिः । भारती स्तुतिः श्री गुरुवायुपुरेशसुप्रभातस्तवः - उत्थिष्ठ कृष्ण गुरुवायुपु... देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते. Tags : praisestavstutiस्तवस्तुति श्री गुरुवायुपुरेशसुप्रभातस्तवः Translation - भाषांतर उत्थिष्ठ कृष्ण गुरुवायुपुरेश शौरे उत्थिष्ठ देव वसुदेवसुपुण्यमूर्ते ।उत्थिष्ठ माधव जनार्दन राधिकेशत्रैलोक्यमेतदखिलं कुरु मंगलाढ्यम् ॥१॥श्रीजामदग्न्यभुवि सर्वजगद्धितार्थेजीवेन मारुतयुतेन कृतप्रतिष्ठम् ।गुर्वादिवायुपुरनाथमनाथनाथंवाचा नमामि मनसां वचसामगम्यम् ॥२॥विश्वप्रकाश गुरुवायुकृतप्रतिष्ठक्षेत्रज्ञरूप परमेश्वर विश्वबन्धो ।आनन्दरूप जगतां स्थितिसृष्टि हेतोस्वात्मानमेव भगवन्तमभिष्टवीमि ॥३॥मायागृहीतविधिविष्णुमहेशरूपसुत्रात्म वायुगुरुगेहग विश्वरूप ।विश्वोद्भवप्रलयकेलिषुलोल भुमन्ब्रह्मात्मरूप बहुरूप नमो नमस्ते ॥४॥मायामहाजवनिकापिहितात्म दृष्टिःविश्वोद्भव प्रलयकेलिषु जागरूक ।नित्यप्रबुद्धमपि बोधयितुं प्रवृत्तःसूर्यं तमोवृतमवैति तमोन्धदृष्टिः ॥५॥निद्रा न तेऽस्ति जितमाय सदाऽप्रमेयमायाप्रपञ्चनवनाटकसूत्रधारिन् ।लोकानुसारविधिया ननु बोध्यसे त्वंवातालयेश्वर विभो तव सुप्रभातम् ॥६॥श्रीव्यास नारद सुनन्द सनत्कुमार-द्र्वास गर्ग कपिलाद्यखिला मुनीन्द्राः ।प्राप्ता हरे तव पदांबुज दर्शनार्थंवातालयेश्वर विभो तव सुप्रभातम् ॥७॥प्रत्यूषपूजनरताः किल पूजकास्तेपुष्पोपहार तुलसी दधि दुग्धहस्ताः ।संबोधयन्ति भगवन् श्रुतिसूक्तपाठैःवातालयेश्वर विभो तव सुप्रभातम् ॥८॥भक्ता जनाः सुकदलीफलशर्करादिहैयंगवीन पृथुकान्वित लाजपूपान्तुभ्यं निवेदयितुमद्य समागतास्तेवातालयेश्वर विभो तव सुप्रभातम् ॥९॥वातादिरोग परिपीडित सर्वगात्राःदूरात् समेत्य सततं त्वयि भक्तियुक्ताः ।कृष्णाच्युताघहरणांबुजनाभ विष्णोनारायणाम्बुजभवादि निषेविताङ्घ्रेमां पाहि वातपुरनाथ समीरयन्तिवातालयेश्वर विभो तव सुप्रभातम् ॥१०॥दूरात् समेत्य मनुजास्तव चक्रतीर्थेस्नात्वा विशुद्धहृदयाः फलपुष्पहस्ताः ।त्वत्पुण्यनामगणजापरता भजन्तेवातालयेश्वर विभो तव सुप्रभातम् ॥११॥त्वां देवकी च वसुदेवसुतश्च नन्दःसुप्तप्रबुद्धमिह दुग्धकरा यशोदा ।त्वत्प्रेमभारभरिताः प्रतिपालयन्तिवातालयेश्वर विभो तव सुप्रभातम् ॥१२॥मायात्तदेह मधुसूदन विश्वमूर्तेकायाधवार्चितपदांबुज पुण्यकीर्ते ।राधाधरस्थमधुलोलुप रम्यमूर्तेवातालयेश्वर विभो तव सुप्रभातम् ॥१३॥मीनाकृते श्रुतिसमुद्धरणाय पूर्वंकूर्माकृते गिरिसमुद्धरणाय पश्चात् ।कोलाकृते क्षितिसमुद्धरणाय भूमन्गोपाल सुन्दर विभो तव सुप्रभातम् ॥१४॥श्रीनारसिंह दितिजक्षयहेतुभूतप्रह्लादरक्षक विभो वटुवामनाख्य ।श्रीराम भार्गव हलायुध कृष्ण कल्किन्वातालयेश्वर विभो तव सुप्रभातम् ॥१५॥श्रीकृष्ण वृष्णिवर यादव राधिकेशगोवर्धनोद्धरण कंसविनाश शौरेगोपाल वेणुधर पाण्डुसुतैकबन्धोश्रीमारुतालयविभो तव सुप्रभातम् ॥१६॥कृष्णेति वर्णयुगमत्र सुकीर्तनेनभक्तास्तरन्ति भवसिन्धुमयत्नतो हि ।सत्येवमेनमतिदीनमुपेक्षसे किंकृष्णाखिलेश्वर विभो तव सुप्रभातम् ॥१७॥नित्यं च भागवतवाचनबद्धदीक्षाःभक्ताः कथाश्रवणकौतुकिनश्च शौरे ।त्वत्सन्निधावनुमतिं किल तेऽर्थयन्तेवातालयेश्वर सुजागरणं तवास्तु ॥१८॥भक्तान् विलोकय दृशा करुणार्द्रया त्वंआश्वेव ताननुगृहाण कृतार्थयेश ।त्वत्पादयोर्वितर भक्तिमचञ्चलां मेनित्यं गृणामि वचसा तव मङ्गलानि ॥१९॥सर्वोपनिषदीड्याय निर्गुणाय गुणात्मने ।शंकराभिन्नरूपाय सच्चिद्रूपाय मङ्गलम् ॥२०॥सत्यभामासमेताय सत्यानन्दस्वरूपिणे रुक्मिणीप्राणनाथाय लोकपूज्याय मङ्गलम् ॥२१॥राधाधरमधुप्रीतमानसाय महात्मनेगोपगोपीसमेताय गोपालायास्तु मङ्गलम् ॥२२॥मङ्गलम् वेदवेद्याय वासुदेवाय मङ्गलम् ।मङ्गलम् पद्मनाभाय पुण्यश्लोकाय मङ्गलम् ॥२३॥मङ्गलम् परमानन्द ब्रह्मरूपाय मङ्गलम् ।गुरुवायुपुरेशाय श्रीकृष्णायास्तु मङ्गलम् ॥२४॥ N/A References : N/A Last Updated : February 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP