संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः|
ग्रन्थकर्तुर्वंशवर्णनम्

ग्रन्थकर्तुर्वंशवर्णनम्

स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.


पुरा पुरारेः पदधूलिधूसरः
सरस्वतीस्वैरविहारभूरभूत् ।
विशालवंशश्रुतवृत्तविश्रुतो
विपश्चितां ``गौरधरः'' किलाऽग्रणीः ॥१॥

भ्रमादनिर्माय पुरातनः कवि-
र्यमग्रिमश्लोकमवश्यमग्रतः ।
विमृश्य पङ्क्तेरुपरि द्विजन्मनां
न्यवीविशत्काकपदाङ्कितं पुनः ॥२॥

अनन्तसिद्धान्तपथान्तगामिनः
समस्तशास्त्रार्णवपारदृश्वनः ।
ऋजुर्यजुर्वेदपदार्थवर्णना
व्यनक्ति यस्याऽद्भुतविश्रुतं श्रुतम् ॥३॥

सुतोऽभवद्रत्नधरः शिरोमणि-
र्मनीषिणामस्य गुणौघसागरः ।
यमाश्रिताह्वास्त सरस्वती हरे-
रुरःस्थलं ``रत्नधरं'' श्रितां श्रियम् ॥४॥

उदारसत्त्वं विपुलं सुनिर्मलं
प्ररूढमर्यादमगाधमाशयम् ।
प्रविश्य यस्य स्ववशा सरस्वती
पदं बबन्ध स्थिरमम्बुधेरिव ॥५॥

कपोलदोलायितकर्णभूषणं
तरङ्गितभ्रूयुगभङ्गुरालिकम् ।
सचेतसामर्धनिमीलितेक्षणं
क्षणं वितन्वन्ति मुखं यदुक्तयः ॥६॥

अथाऽस्य धीमानुदपादि वादिनां
वितीर्णमुद्रो वदनेष्वनेकशः ।
उदारसंस्कारसुसारभारती-
पवित्रवक्त्राम्बुरुहो ``जगद्धरः'' ॥७॥

अपि स्थवीयःस्वकृतस्थिरस्थितिः
कुशाग्रतीक्ष्णामधिरुह्य यन्मतिम् ।
अहो बत स्वैरविहारलीलया
पदं न्यधादस्खलितं सरस्वती ॥८॥

निर्मत्सरः सहृदयः श्रुतपारदृश्वा
विश्वातिशायिविनयः प्रियवाक् सुशीलः ।
किं वाऽपरं कविगिरां सदसद्विचार-
चातुर्यधुर्यधिषणः शरणं य एकः ॥९॥

तेनादृतेन शिशुनैव निवेद्यमान-
मानन्दकन्दलितभक्तिकुतूहलेन ।
एतं मृगाङ्ककलिकाकलितावतंस-
शंसारसायनरसं रसयन्तु सन्तः ॥१०॥

गृह्णन्तु कञ्चन विशेषमशेषमस्मा-
दस्माकमात्तवचनाः(नात्)क्वचनाऽन्तरज्ञाः ।
चिन्वन्ति पल्वलजलात्कुशला विशाल-
शेवालजालकलिलात्कमलौघमेव ॥११॥

यद्यप्यासामनलसरसस्फारसारं न किञ्चि-
द्वाचामन्तर्विरचितचमत्कारमस्त्यर्थतत्त्वम् ।
तत्राऽप्येतास्त्रिभुवनगुरुस्तोत्रमैत्रीपवित्राः
कर्णाभ्यर्णाभरणसरणिं नेतुमर्हन्ति सन्तः ॥१२॥

प्रेमाणं मणिकर्णिकां प्रति बुधा मन्दीकुरुध्वं मतिं
मुक्तादामनि माकृत स्पृशत मा ताम्बूलहेवाकिताम् ।
भूषार्थं प्रभवन्ति कर्णपुलिने कण्ठे मुखाम्भोरुहे
देवस्य स्मरशासनस्य यदिमाः स्तोत्रावलीसूक्तयः ॥१३॥

निक्षिप्तं शतसप्तकेन सहितं पादायुतार्धं मया
निर्हिंसे गुणिनि द्विजेन्द्रमुकुटे धर्मैकधाम्नीश्वरे ।
प्रायेण क्लिशितस्य दीनवचसः क्ष्माक्षिप्तमूर्ध्नोऽपि मे
पादं नैकमयं प्रयच्छति विधौ वक्रे करोम्यत्र किम् ॥१४॥

कारङ्कारमकारि वारितशमैरक्षैररक्षैरिदं
निघ्नं विघ्नितशम्भुसेवनसुखाभोगोपभोगं मनः ।
किन्तु क्वापि कदापि काऽपि पतिता सा साधुदृष्टिर्यतः
प्राप्तः सूक्तिवपुर्जितोर्जितसुधास्वादः प्रसादः प्रभोः ॥१५॥

यत्सत्यं सदसद्विवेकविकलग्रामीणकग्रामणी-
मिथ्यास्तोत्रपरा पराभवभुवं नीतासि भीतास्यतः ।
मातः कातरतां विमुञ्च यदसौ सौभाग्यभाग्यावधिः
सञ्जातो जगदेकनाथनुतिभिर्वाग्देवि ते विभ्रमः ॥१६॥

इति श्रीमज्जगद्धरभट्टकविवंशावलीविवरणं सम्पूर्णम् ।

॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचितः स्तुतिकुसुमाञ्जलिः सम्पूर्णा ॥

N/A

References : N/A
Last Updated : January 30, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP