संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः|
सेवाभिनन्दनं सप्तमं स्तोत्रम्

सेवाभिनन्दनं सप्तमं स्तोत्रम्

स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.


निशान्तनिद्रेव दशेव शैशवी
नवीनवध्वाश्चकितेव दृक्छटा ।
सुरस्रवन्तीव कथेव शाम्भवी
कवीन्द्रवाङ्निर्वृतिमातनोतु वः ॥१॥

अलौकिकाह्लादनिबन्धनं मनः
प्रसादनं स्वानुभवैकसक्षिकम् ।
प्रकाशतां वो हृदि पारमेश्वरं
महो रहस्यं सुकवेर्गिरामिव ॥२॥

स यस्य चापात्सपदि च्युतोऽच्युतः
शिखाभिरुग्रो विशिखः शिखावतः ।
पुराण्यकार्षीदपुराणि भैरवो
भयानि भिन्द्यादभवो भवः स वः ॥३॥

स यस्य पृष्ठे चरणार्पणं वृषा
वृषाधिरोहे कलयत्यनुग्रहम् ।
त्रिलोकनाथः स गिरा सुधावृषा
वृषाकपिस्तापमपाकरोतु वः ॥४॥

स यस्य पादद्वयमिद्धशासनः
सदा समभ्यर्चति पाकशासनः ।
प्रभुः प्रसादाऽमलया दृशा स नः
क्रियाद्विपद्भङ्गमनङ्गशासनः ॥५॥

चमूर्जयन्भीजनकानका न काः
स यस्य सूनुः क्लमहा महामहाः ।
जटाः स बिभ्रत्तरुणारुणारुणाः
श्रियः क्रियाद्वः शुभयाभयाऽभया ॥६॥

मयि ध्रुवं दृग्भवता वताऽवता
कृपामृतार्द्रा महिता हिताऽऽहिता ।
अतस्तवास्तप्रमयामया मया
कृता नुतिः सातिशयाशयाऽऽशया ॥७॥

अनभ्रवर्षप्रतिमं विमत्सरा
नरा जरारुङ्मरणार्त्तिभीरवः ।
मुधा सुधासूतिवतंसशंसनं
विहाय धावन्ति रसायनाय किम् ॥८॥

मणिः सुसूक्ष्मोऽपि यथोल्बणं विषं
कृशोपि वह्निः सुमहद्यथा तृणम् ।
शिशुर्मृगेन्द्रोपि यथा गजव्रजं
तनुः प्रदीपोऽपि यथा तमोभरम् ॥९॥

यथाल्पमप्यौषधमुन्मदं गदं
यथामृतं स्तोकमपि क्षयाद्भयम् ।
ध्रुवं तथैवाणुरपि स्तवः प्रभोः
क्षणादघं दीर्घमपि व्यपोहति ॥१०॥

अमन्दसन्दर्भगभीरविभ्रमः
प्रगल्भवैदर्भपरिश्रमः क्रमः ।
अवश्यमासाद्य गुणोचितं विभुं
बिभर्त्ति सौभाग्यमभङ्गुरं गिरः ॥११॥

यथा हि शीलेन विना कुलाङ्गना
यथा विवेकेन विना मनीषिता ।
सदर्थबोधेन विना यथा श्रुति-
र्महीभुजङ्गेन विना यथा मही ॥१२॥

यथा विना द्यौररविन्दबन्धुना
विना शशाङ्केन यथा निशीथिनी ।
विदग्धवर्गेण विना यथा सभा
विना विभूतिर्विनयेन वा यथा ॥१३॥

कृपाविपाकेन विना यथा मति-
र्यथा सुपुत्रेण विना गृहस्थितिः ।
तथैव शोच्या हरिणाङ्कशेखर-
स्तवोपयोगेन विना सरस्वती ॥१४॥

रमापि देवी मम नो मनोरमा
क्षमापि मामभ्यवपत्तुमक्षमा ।
मम क्षमैका भगवत्परानुति-
र्भवार्त्तिभङ्गे सरसा सरस्वती ॥१५॥

अचेतनो यः किल कुस्थितिप्रियः
पृथग्विधोपाधिशतक्षताशयः ।
निषेव्यते पादतले स यद्गिरि-
श्चिरं मुनीन्द्रैरपि शुद्धमानसः ॥१६॥

निसर्गतः सत्पथगर्हितस्थिति-
र्मलीमसो जिह्मगतिश्च यः फणी ।
स कुण्डली यन्मणिमौलिमण्डितो
महाभुजङ्गः पृथुभोगभागपि ॥१७॥

यदप्यजस्रं जडसङ्गमोचितः
स्वभावतुच्छः शशभृत् कलामयः ।
कलङ्कमुक्तं वहते सुधामयं
विधूतदोषोदयमुज्ज्वलं वपुः ॥१८॥

स एष गौरीश्वरसंश्रयात्मनः
फलोद्गमः कल्पमहामहीरुहः ।
अमुं समासादयितुं हितायति-
र्यतेत को नाम न चेतनो जनः ॥१९॥

निदाघनिर्दग्धमहामरुभ्रम-
क्लमच्छिदो मार्गमहीरुहादपि ।
कलिन्दकन्यासलिलौघसङ्गत-
त्रिमार्गगाम्भोभरसम्प्लवादपि ॥२०॥

सरस्वतीसौभगसारसम्भृत-
प्रसन्नगम्भीरपदक्रमादपि ।
कुरङ्गनाभीघनकुङ्कुमाङ्कित-
स्तनाङ्गनालिङ्गनविभ्रमादपि ॥२१॥

अमन्दमानन्दसुधारसद्रवं
स्रवन्नवन्ध्यं भवदुःखिते हृदि ।
इयत्यमुष्मिन्भुवनाध्वनि ध्वनि-
र्नमः शिवायेति चमत्करोति मे ॥२२॥

विचिन्तयञ्जीवनमेव जीवनं
समर्थयन् पार्थिवमेव पार्थिवम् ।
विभावयन् वैभवमेव वै भवं
कदाऽऽश्रये शङ्करमेव शङ्करम् ॥२३॥

वरं भवेदप्यवरं कलेवरं
परं हराराधनसाधनं हि यत् ।
न तु क्रतुध्वंसिनिषेवणोत्सवं
विनिघ्नती मुक्तिरयुक्तिपातिनी ॥२४॥

क्व नीलकण्ठायतनोपसर्पण-
स्फुटोपकारौ चरणौ महागुणौ ।
क्व चाञ्चनोद्वर्त्तनचर्चनादिभिः
पुरारिपूजार्पणतर्पणौ करौ ॥२५॥

क्व नाम नामग्रहणोत्सवं विभो-
रभिप्रवृत्ता रसना दिने दिने ।
क्व चाद्रिपुत्रीपतिपादपङ्कज-
स्फुरद्रजोराजिविराजितं शिरः ॥२६॥

क्व दृक्चिरं पारितचन्द्रशेखर-
स्वरूपसौभाग्यविलोकनस्पृहा ।
क्व सन्तताकर्णितदर्पकद्विष-
द्विचित्रचारित्रपवित्रिता श्रुतिः ॥२७॥

क्व निर्धुताऽनल्पविकल्पविप्लव-
त्रिलोचनध्याननिबन्धनं मनः ।
क्व चाऽपवर्गोऽयममार्ग एव यः
स्मरारिसेवासुखसर्वसम्पदाम् ॥२८॥

इदं विदन्तः सुधियो भियोज्झिताः
समाधिमाधिच्छिदमाश्रिता अपि ।
प्रभुप्रणामस्तुतिचिन्तनार्चन-
स्फुटोपयोगं बहु मन्वते वपुः ॥२९॥

किमङ्गमङ्गल्यमनङ्गभङ्गद-
प्रसादनादन्यदधन्यमन्यसे ।
यदर्थमर्थक्षतिकृत्सुदुष्करप्रयास-
साध्येषु मखेषु खिद्यसे ॥३०॥

इमा हिमानीविमला हविर्भुजां
प्रभुप्रसादप्रभवा विभूतयः ।
करोषि यत्तर्पणमात्रकाम्यया
दयास्पदप्राण्युपघातपातकम् ॥३१॥

सखे ! सखेदस्य धनार्जनं प्रति
प्रतिग्रहाध्यापनयाजनादिभिः ।
प्रयाति ते वायुरिवायुरिङ्गितं
विहन्ति हन्त क्रतवे तवेहितम् ॥३२॥

अतः स्वतः प्रार्थितसम्पदां पदं
कदर्थनाहीनमदीनमेनसा ।
निदानमानन्दभुवः स्वयम्भुवो
भजस्व पादाम्बुजसेवनोत्सवम् ॥३३॥

अक्लेशपेशलमलङ्घ्यकृतान्तदूत-
हुङ्कारभङ्गभिदुरं दुरितेन्धनाग्निम् ।
को नाम नामयहरं हरपादपद्म-
सेवासुखं सुमतिरन्वहमाद्रियेत ॥३४॥

रोमन्थमन्थरकुरङ्गशताश्रितेषु
भागीरथीशिशिरशीकरशीतलेषु ।
रोहन्महार्हफलकन्दलसुन्दरेषु
बद्धास्पदास्तुहिनभूधरकन्दरेषु ॥३५॥

धन्याः समाधिमवधानधना धनादि-
सम्बन्धबन्धमवधूय धियाऽधियन्तः ।
ज्योतिः परं गलदनल्पविकल्पजाल-
मालोकयन्ति भगवन्तमनन्तमन्तः ॥३६॥

धन्या भजन्ति नृपवेश्मसु वेत्रिवक्त्र-
हुङ्कारकातरधियस्तरुणेन्दुमौलिम् ।
वैराग्यनिर्वृतमनस्विजनावकीर्ण-
स्वर्गापगापुलिनबाललतालयेषु ॥३७॥

सन्तः स्मरन्ति शशिखण्डशिखण्डसेवा-
हेवाकिनः सुरसरित्पुलिनस्थलेषु ।
लक्ष्मीलवोल्लसदमन्दमदाऽवलेप-
भूपालवालिशविलङ्घनविप्लवानाम् ॥३८॥

इदं मधुमुखं विषं हरति जीवितं तत्क्षणा-
दपथ्यमिदमाशितं व्यथयते विपाके वपुः ।
इदं तृणगणावृतं विलमधो विधत्ते क्षणा-
द्यदत्र मलिनोल्बणैर्द्रविणमर्जितं कर्मभिः ॥३९॥

अतः प्रतनुवैभवोद्भवदखर्दगर्वक्षमा-
पतिप्रणयसम्भवं भुवि विडम्बनाडम्बरम् ।
विहाय सुरवाहिनीपुलिनवासहेवाकिनो
भजन्ति कृतिनस्तमीरमणखण्डचूडामणिम् ॥४०॥

किं भूयोभिः परुषविषयैः श्रीविकारैरसारैः
किं वा भूयः पतनविरसैः स्वर्गभोगाभिलाषैः ।
मन्ये नाऽन्यद्भवभयविपत्कातराणां नराणां
मुक्त्वा भक्तिं भगवति भवे शस्यमाशास्यमस्ति ॥४१॥

दूरोदञ्चच्चटुललहरीहारिहस्तव्युदस्त-
व्यापत्तापत्रिदशतटिनीमज्जनोन्मज्जनेषु ।
श्रद्धाबन्धं शशधरशिरःपादराजीवसेवा-
हेवाकैकव्यसनमनसस्तेन तन्वन्ति सन्तः ॥४२॥

इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``सेवाभिनन्दनं'' नामकं सप्तमं स्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : January 30, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP