संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः| अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः प्रस्तावना सूचिपत्रम् स्तुतिप्रस्तावना प्रथमं स्तोत्रम् नमस्कारात्मकं द्वितीयं स्तोत्रम् आशीर्वादाख्यं तृतीयं स्तोत्रम् मङ्गलाष्टकं चतुर्थं स्तोत्रम् कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् हराष्टकं षष्ठं स्तोत्रम् सेवाभिनन्दनं सप्तमं स्तोत्रम् शरणाश्रयणं अष्टमं स्तोत्रम् कृपणाक्रन्दनं नवमं स्तोत्रम् करुणाक्रन्दनं दशमं स्तोत्रम् दीनाक्रन्दनं एकादशं स्तोत्रम् तमःशमनं द्वादशं स्तोत्रम् प्रभुप्रसादनं त्रयोदशं स्तोत्रम् हितस्तोत्रं चतुर्दशं स्तोत्रम् करुणाराधनं पञ्चदशं स्तोत्रम् उपदेशनं षोडशं स्तोत्रम् भक्तिस्तोत्रं सप्तदशं स्तोत्रम् सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् हसितस्तोत्रं विंशं स्तोत्रम् अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् द्विपदयमकं चतुर्विंशं स्तोत्रम् रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् महायमकस्तोत्रं त्रिंशं स्तोत्रम् नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् ग्रन्थकर्तुर्वंशवर्णनम् अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे. Tags : stuti kusumanjaliकुसुमाञ्जलिजगद्धर jagaddharस्तुति अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् Translation - भाषांतर सर्पत्कन्दर्पदर्पज्वरभरहरणव्यग्रवर्चःप्रपञ्च-प्रत्यग्रब्रध्नचन्द्रज्वलदनलवलत्पक्ष्मलत्र्यक्षवक्त्रः ।शर्वस्तर्षप्रकर्षश्रमशमनमनस्तर्पणस्वर्णवर्ष-स्वस्थं तन्वन्सहर्षं जनमनघमघः कल्पयत्वक्षयं वः ॥१॥यद्वद्वन्द्यं प्रसन्नं लसदसमरसस्पन्दसन्दर्भगर्भंमङ्गल्यं नर्मनद्धं तव वचनमदः शस्यमस्यत्कलङ्कम् ।तद्वद्भर्गस्य वर्यं शशधरशकलं द्यत्ववद्यं कपर्द-न्यस्तं वक्त्रं प्रशस्तं प्रबलतमतमःखण्डनं मण्डनं वः ॥२॥षट्चक्रस्थः षडध्वप्रसरसरभसः सर्गबन्धप्रगल्भःप्रत्यग्रप्रह्वनव्यस्तवपठनपरब्रह्मसच्चक्रशक्रः ।दक्षक्रत्वन्तकत्वं दधदधममदध्वंसलक्ष्यप्रशंसःसंसर्गध्वस्तपङ्को गणगणमचलं कल्पयन्हन्त्वशं वः ॥३॥वक्षःसद्मस्थपद्मं करकमलतलप्रज्वलच्छङ्खचक्रंकंसघ्नं सर्पतल्पं खगवरवहनं नन्दयत्यर्धगं यः ।धर्मं बध्नन्ध्वजस्थं करगतकलशं वर्ष्म यश्च व्रतस्थंशंसन्तं संस्मरन्तं नतमनवरतं सोऽव्ययःस्यत्वघं वः ॥४॥संरक्षन्भक्तवर्गं यमभटभयतः सभ्यमभ्यर्णलभ्यंधन्यम्मन्यं वदन्यं प्रणयपरवशं पर्षदग्र्यव्यवस्थम् ।वर्षत्वच्छिन्नचञ्चद्गरगवलगलः कस्थरङ्गत्तरङ्ग-स्वर्गङ्गः शश्वदङ्कस्थलगतनगजस्त्र्यम्बकः सम्पदं वः ॥५॥अम्भःकम्प्रं कटप्रं सबहलगरलं पन्नगं कण्ठलग्नंग्रथ्नन्मह्यम्नभस्वत्खरकरदहनस्वर्क्षपत्यम्बरत्वम् ।स्कन्धस्थं चर्म भर्मप्रभमलकचयं चन्दनत्वं प्रपन्नंप्रत्यङ्गं भस्म सप्तच्छददलधवलं स्यत्वजः कल्मषं वः ॥६॥सद्यः सन्यस्तगर्वग्रहमहतमहस्त्यक्तसङ्गप्रसङ्गंसत्त्वस्थं लब्धतत्त्वं मलशबलगलत्सर्वसम्बन्धबन्धम् ।यत्सम्पर्कप्रयत्नक्षममलयदयं तथ्यपथ्यप्रसक्तंयच्छत्वच्छं मनस्तत्स्मरहरचरणद्वन्द्वनम्रस्य शं वः ॥७॥सत्यं नश्यत्यवश्यं घनमघपटलं यत्पदस्पर्शबद्ध-श्रद्धस्य स्पष्टकष्टप्रशमनमनसः कस्य न व्यक्तकल्कम् ।तस्य व्यस्यत्वशं वः सितकरशरणं मस्तकं ध्वस्तकम्पंसम्पत्सम्पर्करम्यप्रभमभयकरस्यर्षभस्यन्दनस्य ॥८॥अत्यन्तस्वच्छमन्तःकरणमशरणप्रत्तरक्षं समक्षंव्यञ्जन्भञ्जन्नजस्रं नयनतवदनस्तम्भसंरम्भदम्भम् ।सर्वज्ञः सत्त्वसङ्घक्लमकरणचणं जन्मकर्मप्रबन्धंमथ्नन्नत्यर्थमर्थं क्षतसकलमलं वर्धयत्वव्ययं वः ॥९॥गल्वर्कप्रस्थपस्त्यं धरमथमलयं मन्दरं सह्यमन्त-र्नन्दद्गन्धर्वयक्षं सकनककटकं कल्पतर्वन्तरङ्गम् ।भद्रं सङ्क्रन्दनस्य प्रहसनसदनं नन्दनं स्वर्गरङ्गंगच्छन्स्वच्छन्दचर्यः परबलदलनस्तर्पयत्वन्वहं वः ॥१०॥पद्मस्थं पद्महस्तं गजवरवदनं नन्दनं स्कन्दसंज्ञंपर्जन्यं हंसमब्जं दशशतनयनं हव्यभक्षं सदण्डम् ।रक्षःप्रख्यं जलस्थप्रथमथ पवनं मर्त्यपत्त्रं मखघ्नंसम्पश्यत्यत्यजन्तं चरणतलमलं यः स कर्षत्वघं वः ॥११॥अव्यक्तं यः समग्रं जगदगनगरं व्यञ्जयत्यब्जजः स-न्यः संरक्षत्यनन्तः स्मरयमदमनः संहरत्यक्रमं यः ।स त्रयक्षस्तन्त्रमन्त्रप्रणयनसफलग्रन्थकर्मण्यखर्व-ज्ञत्वः सद्गम्यवर्त्मप्रकटनपरमः स्पर्शयत्वद्वयं वः ॥१२॥द्रष्टव्यं सम्यगर्थप्रवचनपरमं शर्मदं पद्यबद्धंप्रष्ठप्रज्ञप्रशस्यं नमदमरवरः शङ्करः सङ्करघ्नः ।वर्षन्तं भग्नघर्मं प्रमदमयपयः सत्यसङ्कल्पजल्प-श्रव्यं भव्यं वसव्यं नवमवगमयत्वग्र्यवर्णस्तवं वः ॥१३॥इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचितेभगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ``अग्र्यवर्णस्तोत्रं'' नामकं चतुस्त्रिंशं स्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : January 30, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP