संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः| अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः प्रस्तावना सूचिपत्रम् स्तुतिप्रस्तावना प्रथमं स्तोत्रम् नमस्कारात्मकं द्वितीयं स्तोत्रम् आशीर्वादाख्यं तृतीयं स्तोत्रम् मङ्गलाष्टकं चतुर्थं स्तोत्रम् कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् हराष्टकं षष्ठं स्तोत्रम् सेवाभिनन्दनं सप्तमं स्तोत्रम् शरणाश्रयणं अष्टमं स्तोत्रम् कृपणाक्रन्दनं नवमं स्तोत्रम् करुणाक्रन्दनं दशमं स्तोत्रम् दीनाक्रन्दनं एकादशं स्तोत्रम् तमःशमनं द्वादशं स्तोत्रम् प्रभुप्रसादनं त्रयोदशं स्तोत्रम् हितस्तोत्रं चतुर्दशं स्तोत्रम् करुणाराधनं पञ्चदशं स्तोत्रम् उपदेशनं षोडशं स्तोत्रम् भक्तिस्तोत्रं सप्तदशं स्तोत्रम् सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् हसितस्तोत्रं विंशं स्तोत्रम् अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् द्विपदयमकं चतुर्विंशं स्तोत्रम् रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् महायमकस्तोत्रं त्रिंशं स्तोत्रम् नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् ग्रन्थकर्तुर्वंशवर्णनम् अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे. Tags : stuti kusumanjaliकुसुमाञ्जलिजगद्धर jagaddharस्तुति अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् Translation - भाषांतर वन्देमह्यमलमयूखमौलिरत्नंदेवस्य प्रकटितसर्वमङ्गलाख्यम् ।अन्योन्यं सदृशमहीनकङ्कणाङ्कंदेहार्धद्वितयमुमार्धरुद्धमूर्तेः ॥१॥तद्वन्दे गिरिपतिपुत्रिकार्धमिश्रंश्रैकण्ठं वपुरपुनर्भवाय यत्र ।वक्त्रेन्दोर्घटयति खण्डितस्य देव्यासाधर्म्यं मुकुटगतो मृगाङ्कखण्डः ॥२॥एकत्र स्फटिकशिलामलं यदर्धेप्रत्यग्रद्रुतकनकोज्ज्वलं परत्र ।बालार्कद्युतिभरपिञ्जरैकभाग-प्रालेयक्षितिधरशृङ्गभङ्गिमेति ॥३॥यत्रैकं चकितकुरङ्गभङ्गि चक्षुःप्रोन्मीलत्कुचकलशोपशोभि वक्षः ।मध्यं च क्रशिमसमेतमुत्तमाङ्गंभृङ्गालीरुचिकचसञ्चयाञ्चितं च ॥४॥साभोगं घननिबिडं नितम्बबिम्बंपादोपि स्फुटमणिनूपुराभिरामः ।आलोक्य क्षणमिति नन्दिनोप्यकस्मा-दाश्चर्यं परमुदभूदभूतपूर्वम् ॥५॥यत्रार्धं घटयति भूरिभूतिशुभ्रंचन्द्रांशुच्छुरितकुबेरशैलशोभाम् ।अर्धं च प्रणिहितकुङ्कुमाङ्गराग-म्पर्यस्तारुणरुचिकाञ्चनाद्रिमुद्राम् ॥६॥यत्कान्तिं दधदपि काञ्चनाभिरामांप्रोन्मीलद्भुजगशुभाङ्गदोपगूढम् ।विभ्राणं मुकुटमुपोढचारुचन्द्रंसन्धत्ते सपदि परस्परोपमानम् ॥७॥आश्चर्यं तव दयिते हितं विधातुंप्रागल्भ्यं किमपि भवोपतापभाजाम् ।अन्योन्यं गतमिति वाक्यमेकवक्त्र-प्रोद्भिन्नं घटयति यत्र सामरस्यम् ॥८॥प्रत्यङ्गं घनपरिरम्भतः प्रकम्पंवामार्धं भुजगभयादिवैति यत्र ।यत्रापि स्फुटपुलकं चकास्ति शीत-स्वःसिन्धुस्नपिततयेव दक्षिणार्धम् ॥९॥एकत्र स्फुरति भुजङ्गभोगभङ्गि-र्नीलेन्दीवरदलमालिका परत्र ।एकत्र प्रथयति भस्मनोऽङ्गरागःशुभ्रत्वं मलयजरञ्जनं परत्र ॥१०॥एकत्राऽर्पयति विषं गलस्य कार्ष्ण्यंकस्तूरीकृतमपि पुण्ड्रकं परत्र ।एकत्र द्युतिरमलाऽस्थिमालिकाना-मन्यत्र प्रसरति मौक्तिकावलीनाम् ॥११॥एकत्र स्रुतरुधिरा करीन्द्रकृत्तिःकौसुम्भं वसनमनश्वरं परत्र ।इत्यादीन्यपि हि परस्परं विरुद्धा-न्येकत्वं दधति विचित्रधाम्नि यत्र ॥१२॥दन्तानां सितिमनि कज्जलप्रयुक्ते-मालिन्येऽप्यलिकविलोचनस्य यत्र ।रक्तत्वे करचरणाधरस्य चान्योनाऽन्योन्यं समजनि नूतनो विशेषः ॥१३॥कण्ठस्य भ्रमरनिभा विभार्धभागंमुक्त्वा किं स्थितिमकरोच्छिरोरुहार्धे ।अर्धं वा कनकसदृग्रुचिः कचानांसन्त्यज्य न्यविशत किं गलैकदेशे ॥१४॥सौवर्णः करकमले यथैव वामेसव्येऽपि ध्रुवमभवत्तथैव कुम्भः ।क्रीडैकप्रसृतमतिर्विभुर्बिभर्तिस्वाच्छन्द्यादुरसि तमेव नूनमेनम् ॥१५॥यत्रासीज्जगदखिलं युगावसानेपूर्णत्वं यदुचितमत्र मध्यभागे ।संरम्भाद्गलितमदस्तदेव नूनंविश्रान्तं घनकठिने नितम्बबिम्बे ॥१६॥इत्यादीन्प्रविदधुरेव यत्र ताव-त्सङ्कल्पान्प्रथमसमागमे गणेन्द्राः ।यावत्स प्रणतिविधौ पदारविन्दंभृङ्गीशः परिहरति स्म नाऽम्बिकायाः ॥१७॥किमयं शिवः किमु शिवाऽथ शिवा-विति यत्र वन्दनविधौ भवति ।अविभाव्यमेव वचनं विदुषा-मविभाव्यमेव वचनं विदुषाम् ॥१८॥एकः स्तनः समुचितोन्नतिरेकमक्षिलक्ष्याञ्जनं तनुरपि क्रशिमान्वितेति ।लिङ्गैस्त्रिभिर्व्यवसिते सविभक्तिकेऽपियत्राऽव्ययत्वमविखण्डितमेव भाति ॥१९॥यत्र ध्रुवं हृदय एव यदैक्यमासी-द्वाक्काययोरपि पुनः पतितं तदेव ।यस्मात्सतां हृदि यदेव तदेव वाचियच्चैव वाचि करणेऽप्युचितं तदेव ॥२०॥कान्ते शिवे त्वयि विरूढमिदं मनश्चमूर्तिश्च मे हृदयसम्मददायिनीति ।अन्योन्यमभ्यभिहितं वितनोति यत्रसाधारणस्मितमनोरमतां मुखस्य ॥२१॥उद्यन्निरुत्तरपरस्परसामरस्य-सम्भावनव्यसनिनोरनवद्यहृद्यम् ।अद्वैतमुत्तमचमत्कृतिसाधनं त-द्युष्माकमस्तु शिवयोः शिवयोजनाय ॥२२॥लक्ष्याण्यलक्ष्याण्यपरत्र यत्र विलक्षणान्येव हि लक्षणानि ।साहित्यमत्यद्भुतमीशयोस्तन्न कस्य रोमाञ्चमुदञ्चयेत ॥२३॥जूटाहेर्मुकुटेन्द्रनीलरुचिभिः श्यामं दधत्यूर्ध्वगंभागं वह्निशिखापिशङ्गमधरं मध्ये सुधाच्छच्छविः ।धत्ते शक्रधनुःश्रियं प्रतिमिता यत्रेन्दुलेखानृजु-र्युष्माकं स पयोधरो भगवतोर्हर्षामृतं वर्षतु ॥२४॥इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचितेभगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ``अर्धनारीश्वरस्तोत्रं'' नामैकविंशं स्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : January 30, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP