संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः| शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः प्रस्तावना सूचिपत्रम् स्तुतिप्रस्तावना प्रथमं स्तोत्रम् नमस्कारात्मकं द्वितीयं स्तोत्रम् आशीर्वादाख्यं तृतीयं स्तोत्रम् मङ्गलाष्टकं चतुर्थं स्तोत्रम् कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् हराष्टकं षष्ठं स्तोत्रम् सेवाभिनन्दनं सप्तमं स्तोत्रम् शरणाश्रयणं अष्टमं स्तोत्रम् कृपणाक्रन्दनं नवमं स्तोत्रम् करुणाक्रन्दनं दशमं स्तोत्रम् दीनाक्रन्दनं एकादशं स्तोत्रम् तमःशमनं द्वादशं स्तोत्रम् प्रभुप्रसादनं त्रयोदशं स्तोत्रम् हितस्तोत्रं चतुर्दशं स्तोत्रम् करुणाराधनं पञ्चदशं स्तोत्रम् उपदेशनं षोडशं स्तोत्रम् भक्तिस्तोत्रं सप्तदशं स्तोत्रम् सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् हसितस्तोत्रं विंशं स्तोत्रम् अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् द्विपदयमकं चतुर्विंशं स्तोत्रम् रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् महायमकस्तोत्रं त्रिंशं स्तोत्रम् नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् ग्रन्थकर्तुर्वंशवर्णनम् शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे. Tags : stuti kusumanjaliकुसुमाञ्जलिजगद्धर jagaddharस्तुति शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् Translation - भाषांतर जगति विबोधितविधुरं विधुरञ्जितचारुशेखरं गिरिशम् ।गिरि शंसामि ससाध्वससाध्वसमानन्ददानपरम् ॥१॥न परं शरणं प्रभवति भवति कृतावज्ञमानसे महताम् ।महतां भजति हि सहसा सहसा तव भारती मधुरा ॥२॥मधुरागारुणनयना नयनाशविधौ पटीयसी प्रमदा ।प्रमदार्पणार्थमुदिते मुदिते त्वयि सा तृणं भजताम् ॥३॥भजतां सरसाममलां मम लाञ्छितशेखरेन्दुना करुणाम् ।करुणां गिरं नवतया बत याऽर्पयति तव श्रयताम् ॥४॥श्रयतां नवनविधौ तव धौतवती गीरघं रतिं चतुरम् ।चतुरन्तमहीपतिता पतिता हेयत्व एव यत्र सताम् ॥५॥त्रसतां न कदा भवता भवतापहृता विभो शुभाकृतिना ।कृतिनामुपकारचितं रचितं शुभमेव भाविहितम् ॥६॥विहितं मयि चारु चिरं रुचिरं न गते विवेकलयम् ।कलयन्नमलविभासितभासित रुचिमेहि मे विपाकमलम् ॥७॥कमलं रविरपराजित राजितविकसद्वपुर्यथा कुरुते ।कुरु तेन पथा मा भव मा भव विमुखो दृशं दिश मे ॥८॥दिशमेष विचारहितां रहितां विषयोरगैरहं न लभे ।नलभेकवदतिविलपन् विलपन्नगवद्वृतः सदा तमसा ॥९॥तमसावुज्झितकलहं कलहंसगिरोमया सदा सहितम् ।सहितं गीरुदितरसा तरसा श्रयतां विभुं सदयम् ॥१०॥सदयं यदुदारमते रमते कुर्वंस्तदेव देव जनः ।वज नः करुणापरतां परतां मा गा नमो भवते ॥११॥भव तेजःप्रसरसितं रसितं श्रुत्वाऽमृतोपमं भवतः ।भवतस्त्रासं सकलं सकलङ्कमतिः कदा विमुञ्चामि ॥१२॥मुञ्चामितभास दृशं सदृशं शशिनः प्रदर्श्य वदनम् ।वद नन्दयितुं जगतीं जगतीशः कोस्तु नामान्यः ॥१३॥नामान्यः सुमतिरयं तिरयन्ति यशांसि तस्य वा विपदम् ।विपदं न विलासमये समये वपुरस्य यात्ययातवयः ॥१४॥तव यः स्तुतिषु सदा हर दाहरजः क्लेशपाशमयम् ।शमयन्तीष्वस्तमनास्तमनाहतभाग्यमेव देव नमे ॥१५॥वनमेव शरणमधुना मधुनाशिनुत प्रसादनाय तव ।यतवति हृदये शकलितकलितमसो मे नमेरुचितम् ॥१६॥रुचितं नोरगसदनं सदनन्तमहर्द्धि नन्दनं न वनम् ।नवनं धृतदीप्रगुणं प्रगुणं तव कर्तुमेव देव रमे ॥१७॥वरमेनोहरममलं मम लङ्घितविघ्न देहि नाम हितम् ।महितं पदमपि मा नय मानय विधुरं दृशामलया ॥१८॥मलयानिलमिव सुरभिं सुरभिं कुसुमैरिवावदातवनम् ।तव नन्दितहृदनामय नाम यमत्रासहृत्कलये ॥१९॥कलयेन्दोरभिभूषित भूषितमुकुटैः सुरैर्नतेश न कैः ।शनकैरघशमनाशय नाशय विपदं पदं नय मा ॥२०॥न यमाहितभयशमने शमनेकविधं प्रसाददक्षमते ।क्षमते मुनिभिरुपासित पासितरां चेन्न मामदयम् ॥२१॥मदयञ्जितविप्रकृतीः प्रकृतीर्वसुधाधिपो महीवलयम् ।बलयन्त्रितरिपुरक्षति रक्षति तव यः प्रसादमितः ॥२२॥दमितस्तेन हि शमनः शमनस्तरुचापि तेन जातमुदा ।तमुदाराहितचरितं चरितं शुभवर्त्मना स्तुवन्त्यमलम् ॥२३॥त्यमलङ्कृतभूभवनं भव नन्दितलोकमीश भावपुषा ।वपुषा नौम्यभयस्तव यस्तव नुतिषु प्रियासु कृती ॥२४॥सुकृती तव भववारणवारणहरिणेन्द्र सिद्धिभाजनताम् ।जनतां नयदमलसितं लसितं वपुरर्चये नवैरसकृत् ॥२५॥रसकृद्योऽप्रतिघस्मरघस्मर भवतः स्तवः सदैव सताम् ।वसतां दिवि भयहृदयं हृदयं कुरुते घनोत्कलिकम् ॥२६॥कलिकम्पनमघशरणं शरणं चरणद्वयं भजेऽविकलम् ।विकलङ्कमतिरहं तव हन्त वरद्विरदराजगतिम् ॥२७॥इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टकृतेभगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ``शृङ्खलाबन्धस्तोत्रं'' नामकं स्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : January 30, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP