संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः| शरणाश्रयणं अष्टमं स्तोत्रम् स्तुतिकुसुमाञ्जलिः प्रस्तावना सूचिपत्रम् स्तुतिप्रस्तावना प्रथमं स्तोत्रम् नमस्कारात्मकं द्वितीयं स्तोत्रम् आशीर्वादाख्यं तृतीयं स्तोत्रम् मङ्गलाष्टकं चतुर्थं स्तोत्रम् कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् हराष्टकं षष्ठं स्तोत्रम् सेवाभिनन्दनं सप्तमं स्तोत्रम् शरणाश्रयणं अष्टमं स्तोत्रम् कृपणाक्रन्दनं नवमं स्तोत्रम् करुणाक्रन्दनं दशमं स्तोत्रम् दीनाक्रन्दनं एकादशं स्तोत्रम् तमःशमनं द्वादशं स्तोत्रम् प्रभुप्रसादनं त्रयोदशं स्तोत्रम् हितस्तोत्रं चतुर्दशं स्तोत्रम् करुणाराधनं पञ्चदशं स्तोत्रम् उपदेशनं षोडशं स्तोत्रम् भक्तिस्तोत्रं सप्तदशं स्तोत्रम् सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् हसितस्तोत्रं विंशं स्तोत्रम् अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् द्विपदयमकं चतुर्विंशं स्तोत्रम् रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् महायमकस्तोत्रं त्रिंशं स्तोत्रम् नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् ग्रन्थकर्तुर्वंशवर्णनम् शरणाश्रयणं अष्टमं स्तोत्रम् स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे. Tags : stuti kusumanjaliकुसुमाञ्जलिजगद्धर jagaddharस्तुति शरणाश्रयणं अष्टमं स्तोत्रम् Translation - भाषांतर कल्याणिनः सुरगिरेरिव संश्रितस्यलक्ष्म्या हरेरिव रवेरिव दीप्तिभाजः ।पद्यस्य शम्भुविषयस्य जयन्ति पादाये मण्डयन्ति च पुनन्ति च विष्टपानि ॥१॥याः पङ्किलेन कलिलेन वियोजयन्तिनित्योज्ज्वलेन कुशलेन च योजयन्ति ।ता धूर्जटेरमरनिर्झरिणीतरङ्ग-भङ्गाभिरामगतयः स्तुतयो जयन्ति ॥२॥संसारदारुणदवानलदह्यमान-वाक्चित्तकायकुशलीकरणौषधानि ।श्रीभुक्तिमुक्तिवशकर्म्मणि कार्मणानिशम्भोर्जयन्ति नुतिचिन्तनपूजनानि ॥३॥दोषाकरस्य शिरसि स्थितिमुत्तमाङ्ग-च्छेदं विधेरविरहं नरवाहनस्य ।भस्मीकृतिं त्रिपुरपाशधरस्मराणांवश्यं दिशाञ्च दशकं दशकन्धरस्य ॥४॥शौर्यानलस्य परशुव्यजनेन दीप्तिंरामस्य बाहुपरिघप्रतिघं मघोनः ।हैमं मरुत्तनृपतेर्दिवसानि सप्तवर्षं सुदर्शनसमर्पणमच्युतस्य ॥५॥श्वेतस्य कण्ठपुलिनात्समवर्तिपाश-प्रोत्सारणं नयननिर्हरणं भगस्य ।दुग्धाब्धिदानमुपमन्युमुनेः क्रियासुदक्षस्य विघ्नकरणं मखदीक्षितस्य ॥६॥शूलाधिरोहणपराभवमन्धकस्यपूष्णो हनुग्रहमनुग्रहमर्जुनस्य ।नन्दीश्वरस्य रविजादभयं भुजङ्ग-भङ्ग्याभिमानमथनं मुनिमानिनीनाम् ॥७॥किं वाऽपरं द्रुहिणकृष्णहरत्वमेत्यसर्गस्थितिप्रशमनानि जगत्त्रयस्य ।क्रीडन्निव व्यधित येन निरङ्कुशं तत्स्वातन्त्र्यमप्रतिहतं जयतीश्वरस्य ॥८॥यस्याऽतिघोरगरलादपि कण्ठपीठा-त्सञ्जीवनौषधमुदेति वचो नतानाम् ।यस्य ज्वलद्घनकृशानुशिखोल्बणापिवर्षत्यमोघममृतद्रवमेव दृष्टिः ॥९॥दंष्ट्राकरालमपि घोरमघोरवक्त्त्रंयस्य प्रपन्नभयभञ्जनभङ्गिमेति ।यस्याङ्गभस्मकणिकाश्चरणाश्रितेषुकर्पूरधूलिपटलश्रियमाश्रयन्ति ॥१०॥यस्यापि कृष्णभुजगा भुजगा भजन्त-मिन्दीवरस्रज इव प्रविनन्दयन्ति ।किं चाङ्गसङ्गि मरुदीरितमेति यस्यमुण्डं नमत्स्वमलमङ्गलकम्बुशोभाम् ॥११॥यस्येभचर्मघनशोणितपङ्कलिप्त-मङ्गेषु मङ्गलदुगूल विलासमेति ।यस्यापि तापविधुरेषु करे कपाल-मालम्बतेऽमृतकमण्डलुखण्डलीलाम् ॥१२॥यत्पादपांसुपरिमर्शशुचि श्मशानंश्रीशैलनैमिषमुखान्यधरीकरोति ।यत्संस्तवादविकलं कुशलं कपाल-पाली करोति कृतिनां कमलावलीव ॥१३॥यं देवमस्तशिरसं सुरभर्त्तुरङ्केलङ्केशवैरिकरवीजिततालवृन्तम् ।आसीनसुप्तसुखितं शतरुद्रियादि-मन्त्रैः स्वरेण मधुरेण गृणाति वेधाः ॥१४॥हेलावलीढभुवनत्रितयेन येनगीर्णाः पुरन्दरमुकुन्दरवीन्दवोऽपि ।यस्य ज्वलद्विपुलभालविलोचनाग्नि-ज्वालावलीशलभतामगमत्स कालः ॥१५॥श्वेतं विधोरुदयहेतुमवेत्य पक्षंकालं च यः क्षयकरं दृशमाश्रितस्य ।श्वेतं दयाविशदयाशु दृशानुगृह्यकालं दृशैव नयति स्म शमं विपक्षम् ॥१६॥चक्री मुखाग्रविलसज्ज्वलनोग्रजिह्वा-लीढाम्बरः क्षितिधरेन्द्रधनुर्धरस्य ।यस्यागमन्निधनसाधनतां पुराणांवाणीकृतश्च रणमूर्ध्नि गुणीकृतश्च ॥१७॥चक्रायुधं विशिखतामुडुचक्रवर्ति-चक्राभिधानसुहृदौ रथचक्रभावम् ।नीत्वाऽसृजत्त्रिदशधाम्नि रसातले चयो हर्षशोकमयमश्रु पुराङ्गनानाम् ॥१८॥आरूढरीढमपि येन समर्पितेनप्रीतिं रतिं च हृदि विस्मरति स्म कामः ।तं दृष्टिपातमधिगम्य बिभर्ति यस्यप्रीतिं रतिं च हृदि को न सुसिद्धकामः ॥१९॥कृष्णोपदर्शितपथः पृथुलोष्मभीष्म-श्लाघ्यं दधद्वपुरुपात्तवनान्तवासः ।व्याधाकृतेरपि धनञ्जय एव यस्यदृग्गोचरे कृतपदो महसा दिदीपे ॥२०॥युक्तं सुधाकरसुधाकरकद्युसिन्धु-तोयादि यन्मनसि तापमपाकरोति ।यस्याङ्गसङ्गि शवभस्मकपालमाला-हालाहलाहिदहनाद्यपि हृद्यमेव ॥२१॥मूर्तिः कृमेः शतपदी श्रवणं प्रविष्टादृष्टा रुजामसुहृतं सृजती जनानाम् ।सौरी तनुर्ननु सहस्रपदी यदीय-नेत्रस्थिता हरति मृत्युभयं श्रितानाम् ॥२२॥आकर्ण्य यः कृपणमार्त्तवचः कृपाब्धि-राधूतमूर्धसुरनिर्झरिणीकणौघैः ।उत्सङ्गसङ्गतगिरीन्द्रसुताकुचाग्र-संसक्तमौक्तिकमणीन्द्विगुणीकरोति ॥२३॥उद्गाढभक्तिविधुरव्यपनीततीव्र-दोषान्धकारमतिमात्रशुचिप्रकाशम् ।पीयूषमुद्वमति यस्य विविक्तवर्णंकर्णान्तगामि वचनं च विलोचनं च ॥२४॥पात्रीभवन्ति न यदङ्घ्रिसरोजरेणु-मैत्रीपवित्रशिरसः स्थिरसत्यवाचः ।साटोपकोपविकटभ्रुकुटिच्छटाना-मुत्तालकालभटवक्रविभीषिकाणाम् ॥२५॥सूक्तिं शुचिं श्रवणयोरमृतं स्रवन्तींवक्रामभङ्गुरगुणां महतीं वहन्तः ।गायन्ति यं श्रितवतः परिशुद्धवंश-विद्या यशांसि कवयः परिवादकाश्च ॥२६॥यत्सेवकस्य मदनोल्बणबाणपूग-क्रान्ताऽलिकान्तविकसत्तिलकोज्ज्वलश्रीः ।सेव्या भवत्यवसरे कलकण्ठनाद-हृद्या वधूः कुसुमितोपवनस्थली च ॥२७॥यस्मिन्नखिन्नमनसो व्यसनावसन्न-सन्तापशान्तिकृतसम्मतयो वसन्ति ।कात्यायनी च करुणा च कला च चान्द्रीस्निग्धा च दृक् सुरसरिच्च सरस्वती च ॥२८॥सन्तापसम्पदपहारपटूनि सिद्ध-सिन्धोरिवेन्दुधवलानि जलानि यस्य ।आकल्पयन्ति मदयन्ति पवित्रयन्तिसञ्जीवयन्ति च जगन्ति भृशं यशांसि ॥२९॥दुष्कालसङ्कटकटाहकदर्थितानांतीव्राभिमानमनसां घनसारभांसि ।भिन्दन्त्यमन्दहरिचन्दनबिन्दुवृन्द-सन्दोहदोहदमहो चरितानि यस्य ॥३०॥फुल्लारविन्दमकरन्दधृतप्रसङ्ग-भृङ्गाङ्गनागुमगुमारवगीतिगर्भम् ।गायन्ति यस्य चरितं हरितामधीशाधीशालिनः कमलिनीपुलिनस्थलीषु ॥३१॥व्यक्तोज्ज्वलालिकचितं मुखमायताक्षंविस्तीर्णकर्णिकमनर्गलरूढनालम् ।यं शंसतोऽधिवसति स्वयमुक्तिदेवीराजीवसद्मकमला विजिगीषयेव ॥३२॥आपन्नबान्धवमबन्ध्यवचोविलास-मासन्नमज्जननमज्जनसान्त्वनेषु ।देवं सुधाकरकिशोरकृतावतंसंतं संश्रितार्त्तिहरणं शरणं श्रयामि ॥३३॥देवं श्रयामि तमहं मुकुटोरगेन्द्र-स्फूर्जत्फणामणिसहस्रमिषेण यस्य ।भालानलेन सुरसिन्धुजलोक्षितेनप्रोन्मुक्तमङ्कुरसहस्रमिवाचकास्ति ॥३४॥सानुग्रहोत्तमगणाश्रितपादमूलंमूर्ध्ना धृताभ्रसरितं सतुषारमूर्तिम् ।आसेवितं विषधरैः कटकेषु ताप-शान्त्यै गिरीशमतिहृद्यगुहं श्रयामि ॥३५॥यः क्षीरनीरनिधिमङ्घ्रितले सुधाम्भः-कुम्भं करे शिरसि देवनदीमदीनाम् ।हर्तुं बिभर्ती भविनामणुकर्ममाया-मूलं मलत्रयमयं तमहं श्रयामि ॥३६॥यस्यापगा स्रगिव सौमनसी जटासुयः कौमुदीं विरचनामिव मूर्ध्नि धत्ते ।देवीं वराऽभयकरामपि यो बिभर्तिप्रीतः शिवां दृशमिव प्रभुमाश्रये तम् ॥३७॥गौरीं गजास्यजननीं हिमवत्प्रसूतिंसद्यःपवित्रितजगत्त्रितयां य एकः ।कात्यायनीं सुरधुनिं च विभुर्बिभर्तिनिर्वाणदं शरणमेमि तमिन्दुमौलिम् ॥३८॥क्वाप्युद्धृतक्रतुविधातृमृगोत्तमाङ्ग-मुत्सङ्गसङ्गतमृगं क्वचिदोषधीशम् ।क्रूरं क्वचिन्मृगवधैकरतिं किरातंवातं क्वचिन्मृगरथं विभुमाश्रयामि ॥३९॥उद्दामदोषमपि दीर्घगुणं भुजङ्ग-भोगोपगूढमपि रूढशिखिप्रसङ्गम् ।कापालिकव्रतसमेतमपि द्विजेन्द्र-चूडामणिं विभुमनङ्कुशमाश्रयामि ॥४०॥अङ्गे धृताङ्गनमनङ्गकृताङ्गभङ्गंविश्वाधिनाथमथ खण्डकपालपाणिम् ।उग्रं शिवं हरमघोरमजं च सद्यो-जातं च विस्मयनिधिं विभुमाश्रयामि ॥४१॥अस्मिन्भवाध्वनि महाविषमेऽसमेषु-रोषादितस्करतिरस्करणैकवीरम् ।भीरुः श्रयामि शरणं क्षणदाकुटुम्ब-लेखाशिखामणिमनुत्तमशक्तिमीशम् ॥४२॥किं मेरुमन्दरमुखैर्गिरिभिर्गरीयान्कैलास एव जगदेकगुरुर्गिरीशः ।यस्याऽभयङ्करमसङ्करमस्तशङ्क-मङ्कं सुटङ्कमकलङ्कमलङ्करोति ॥४३॥उल्लङ्घ्य शासनमनन्यजशासनस्यकोऽप्यन्यशासनमुपासितुमेति निष्ठाम् ।हित्वा वनं हि नवनागरपर्णपूर्ण-मुष्ट्रः श्रयत्यवटमेव सकण्टकौघम् ॥४४॥अन्यार्थमप्युपहिता शितिकण्ठसेवालोकस्य कल्पलतिकेव फलत्यवश्यम् ।उद्दीपिता खलु परस्य कृतेऽपि येनतस्यापि दर्शयति दीपशिखाऽर्थसार्थम् ॥४५॥यद्यर्चितः (यद्यर्थितः)स भगवानपि जीविकार्थंतत्रापि किल्विषविपाकमपाकरोति ।योऽपि द्युसिन्धुपयसि प्लवते निदाघ-घर्मच्छिदे भवति सोपि हि धौतपापः ॥४६॥कुर्वन्ति भक्तिमपरैरपि ये नियुक्ताभर्गस्य तेऽपि भवदुर्गतिमुत्सृजन्ति ।स्तन्यार्थमप्युपहिता पृथुकस्य धात्रीपात्रीभवत्यखिलभोगसुखासिकानाम् ॥४७॥दम्भादपि ध्रुवमनङ्गजितः प्रयुक्तःसेवाविधिः प्रमदसम्पद(प्रमदसम्मद)मादधाति ।वेश्याजनस्य न सुखाय किमङ्गराग-मालादुगूलधवलः कृतकोऽपि वेषः ॥४८॥तस्मादुपेत विभुमेव यथातथापिमुक्तिर्न चेद्भवति किं न गलन्त्यघानि ।यः स्वेच्छयैव निपतत्यमृतहृदेऽन्त-र्मज्जत्यसौ यदि न तत्किमुदेत्यसिक्तः ॥४९॥क्षीराब्धेरवहेलया वितरणं निर्यन्त्रणं वर्षणंहेम्नः क्रुद्धकृतान्तमुक्तफणभृत्पाशग्रहोद्वर्हणम् ।यच्चाप्युत्कटकालकूटकवलीकारादिकर्माद्भुतंक्रीडामात्रकमेव यस्य तदसौ देवः कथं वर्ण्यते ॥५०॥स्वच्छन्दस्य यदृच्छया गमयतः प्रेङ्खोलतां भ्रूलता-माज्ञाऽनुग्रहलाभकत्थनघनस्पर्धानुबन्धोद्धुराः ।सोष्माणः कलयन्ति यस्य कलहं सेवासु देवासुरादेवस्याऽस्य महेश्वरस्य महिमश्लाघाविधौ के वयम् ॥५१॥उर्वीनीरसमीरणारुणशिखिव्योमात्मसोमात्मकै-रष्टाभिर्विभवैर्बिभर्ति भुवनं भोक्ता च भोग्यश्च यः ।ब्रूमस्तस्य किमीश्वरस्य महतः स्वैरी स्वकैरेव यःस्फारैर्ब्रह्मपुरन्दरप्रभृतिभिः शारैरिव क्रीडति ॥५२॥इति काश्मीरकमहाकविश्रीमज्जद्धरभट्टविरचितेभगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ``शरणाश्रयणं'' नामाऽष्टमं स्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : January 30, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP