दीनाक्रन्दनं एकादशं स्तोत्रम्
स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.
धन्योऽस्मि सम्यगमृतं किमपि स्रवन्ती
सञ्जीवनं भगवती विदधाति यस्य ।
स्नेहस्नुतस्तनयुगा जननीव जीव-
रक्षार्थमार्त्तिविधुरस्य ममोक्तिदेवी ॥१॥
धन्योऽस्मि दुःसहविपत्पतितस्य यस्य
वाणीधृतोन्नतिरपुण्यकृतामभूमिः ।
कल्याणिनी सुमनसामुपसेवनीया
सौमेरवीव पदवी न दवीयसीयम् ॥२॥
धन्योऽस्मि मोहतिमिरान्धदृशोऽपि यस्य
सानुग्रहेण विधिना परिकल्पिता मे ।
वल्गुस्वना गुणवती धृतवक्रभङ्गि-
राराधनाय गिरिशस्य सरस्वतीयम् ॥३॥
सञ्जीवनौषधिरबैमि नवा भवाग्नि-
भस्मीकृतस्य विधिना मम निर्मितेयम् ।
वाणी शिवैकविषयाभिनवोढगौरी-
दृष्टिच्छटेव चकिता मकरध्वजस्य ॥४॥
जाने कथञ्चिदुदिता मम शोकवह्नि-
तप्तात्स्खलन्मृदुपदा हृदयादियं गौः ।
चेतः प्रवेक्ष्यति शनैः करुणामृतौघ-
निःष्यन्दशीतमपि शीतमयूखमौलेः ॥५॥
यच्चाटुचापलमलङ्घ्यभवभ्रमोऽहं
मोहं वहन्निह मुहुर्मुहुराचरामि ।
तत्र स्पृहावहमहार्यमहार्यपुत्री-
भर्तुः परार्ध्यमपराध्यति सौकुमार्यम् ॥६॥
यो मूर्धनि ध्वनदनर्गलनिर्झरौघ-
झाङ्कारिणीममरनिर्झरिणीं दधानः ।
गृह्णाति भक्तजनतः कलशाभिषेकं
कस्तं न विज्ञपयितुं विभुमुत्सहेत् ॥७॥
दग्धोस्मि तावदमुना दमुना ममाऽन्त-
र्यः प्रज्ज्वलत्यघनिदाघनिदानजन्मा ।
मुक्तस्य मे प्रतिभयातिभयाकुलस्य
वाणी कथं विगलतो गलतोऽभ्युदेति ॥८॥
क्रन्दाम्यतः किमपि नाम पिनाकपाणे
तीव्रार्त्तिनिस्तरणकारण कातरोऽहम् ।
मोहाटवीविकटसङ्कटसंस्थितस्य
तन्मेऽवधारय शिवाय शिवातुरस्य ॥९॥
आक्रन्दमिन्दुधर धारय देव कर्णे
कस्त्वत्परः परमकारण कर्णधारः ।
मूर्ध्ना वहन्नुडुपखण्डमखण्डपुण्यं
कं कं न तारयसि संसृतिसागराद्यः ॥१०॥
अस्मादृशैरशुचिभिश्चटुचापलानि
कॢप्तान्यवैमि न मनस्तव नन्दयन्ति ।
आवर्जनाय विहितान्यपि चन्द्रमौले
कौलेयकस्य लडितानि किमाद्रियन्ते ॥११॥
यद्वा न मुग्धचरितान्यपि न प्रसाद-
मुत्पादयन्ति भवतः करुणार्णवस्य ।
स्वामिन्दरत्पुरविहारपरस्य किं न
चेतो हरन्ति तव बालकवल्गितानि ॥१२॥
दीनैर्विमुग्धवचनैरसमञ्जसार्थै-
र्यद्वद्द्रवन्ति हृदयानि दयानिधीनाम् ।
तद्वन्न दृष्टसभसप्रतिभप्रगल्भ-
सन्दर्भगर्भरचनाञ्चितवाक्प्रपञ्चैः ॥१३॥
दुग्धाब्धिदोऽपि पयसः पृषतं वृणोषि
दीपं त्रिधामनयनोऽप्युररीकरोषि ।
वाचां प्रसूतिरपि मुग्धवचः शृणोषि
किं किं करोषि न विनीतजनानुरोधात् ॥१४॥
यत्सत्यवत्यपि जगद्विदिताऽनसूया
वाणी ममेयमिदमेव हि देव चित्रम् ।
अत्यद्भुतं पुनरिदं यदरुन्धतीयं
त्वामारिराधयिषुरेवमुदीरिताऽपि ॥१५॥
स्वे धाम्नि हृदि कृतस्थितिमुक्तिदेवीं
कृत्वा प्रवेशमनयः स्वयमुन्मुखत्वम् ।
धाराधिरूढविरहव्यथितामिदानी-
माधाय धैर्यमवधारयसीत्ययुक्तम् ॥१६॥
एका त्वमेव भवितासि मम प्रियेति
दत्तं वरं स्मरसि चेद्गिरिराजपुत्र्याः ।
प्रेम्णा बिभर्षि कथमम्बरसिन्धुमिन्दु-
लेखां च मूर्ध्नि हृदये दयितां दयां च ॥१७॥
एतां निसर्गसरलामभिजातमुग्धा-
मद्धाऽवधीरयसि धीरगभीरमानी ।
जानासि किं न शतशो नतसान्त्वनेषु
यद्वृद्धया करुणया नरिनर्तितोऽसि ॥१८॥
प्रस्तौति निस्त्रपतयार्त्तिकदर्थितेयं
चाटूनि कर्त्तुमपि मौग्ध्यविसंस्थुलानि ।
कात्यायनीवचनदुर्ललितस्य तानि
मुक्तोपमानि न मनस्तव नन्दयन्ति ॥१९॥
अस्यामसह्यविरहज्वरकातरायां
प्रीतिर्न ते यदि परं निरवग्रहस्य ।
सर्वान्तरार्त्तिदलनाय दृढा प्रतिज्ञा
विज्ञाततत्त्व कथमीश्वर विस्मृता ते ॥२०॥
सत्यं कलां वहसि बिभ्रदुमां यदर्धे
धत्से दयां हृदि ययार्थिषु नर्तयन्त्या ।
नीतोऽसि नीलगल नीलगलत्वमेव
मद्वाचि साचि तु मुखं कुरुषे रुषेव ॥२१॥
गृह्णासि मूर्धनि जलैर्धवलैर्विलोलै-
रुद्वेलितां निजपदस्खलितां द्युसिन्धुम् ।
एतामनन्यगतिमुज्झसि साधुवृत्तां
वाचं स्वतन्त्रचरितस्य किमुच्यते ते ॥२२॥
किं भूयसा यदि न ते हृदयङ्गमेय-
मस्या गृहे वससि किं हृदये मदीये ।
सार्धं प्रियेण वसनं तदुपेक्षणं च
दुःखावहं हि मरणादपि मानिनीनाम् ॥२३॥
मातः सरस्वति बधान धृतिं त्वदीयां
विज्ञप्तिमार्त्तिविधुरां विभवे निवेद्य ।
देवी शिवा शशिकला गगनापगा च
कुर्वन्त्यवश्यमबलाजनपक्षपातम् ॥२४॥
एषा निसर्गकुटिला यदि चन्द्रलेखा
स्वर्गापगा च यदि नित्यतरङ्गितेयम् ।
देवी दयार्द्रहृदया तु नगेन्द्रकन्या
धन्या करिष्यति न ते निबिडामवज्ञाम् ॥२५॥
त्वामेव देवि शरणीकरवाणि वाणि
कल्याणि सूक्तिभिरुपस्तुहि चन्द्रमौलिम् ।
मातर्नयामि न पुनभवतीमलीक-
वाचालबालिशविलङ्घनभाजनत्वम् ॥२६॥
देवि प्रपन्नवरदे गुणगौरि गौरि
यद्गौरियं परिमितं स्रवतीह किञ्चित् ।
तत्स्वामिने समुचिते समये सुपाक-
माकूतवेदिनि निवेदयितुं प्रसीद ॥२७॥
स्वेच्छाविकल्पितमदृष्टविशिष्टपाकं
मात्राविहीनमिदमार्यजनैरजुष्टम् ।
उन्मत्तभाषितमथापि भवत्यवश्यं
सद्भेषजं विषमयस्य भवामयस्य ॥२८॥
भालानलं तव यथा मुकुटस्थितैव
शक्नोति नो शमयितुं किल सिद्धसिन्धुः ।
तद्वज्ज्वलन्तमनिशं हृदि शोकवह्निं
वक्त्रे वसन्त्यपि ममाऽत्र सरस्वतीयम् ॥२९॥
प्राक्चेन्मया विहितमाविलमेव कर्म
स्वामिन् कुतस्त्वयि ममैष दृढोऽनुरागः ।
एकान्तशुक्लमथ चेदतिदुःसहोऽयं
शोकानलो हृदयदाहकरः किमन्तः ॥३०॥
क्वाप्यन्यजन्मनि विधाय विभोरवश्य-
माराधनामनुशयालु मनो ममाभूत् ।
नो चेत् कथं कुलगुणादिपवित्रमेत-
त्सर्वं नृजन्म मम निष्फलमेव जातम् ॥३१॥
मानुष्यनावमधिगम्य चिरादवाप्य
निस्तारकं च करुणाभरणं भवन्तम् ।
यस्याऽभवद्भरवशस्तरितुं भवाब्धिं
सोऽहं ब्रुडामि वद कस्य विडम्बनेयम् ॥३२॥
स्वामी प्रसादमुपकारिषु सेवकेषु
योग्येषु साधुषु करोति किमत्र चित्रम् ।
सन्तस्त्वभाजनजनेष्वपि निर्निमित्तं
चित्तं वहन्ति करुणामृतसारसिक्तम् ॥३३॥
तस्मात्समाप्तसकलाऽभ्युदयाभ्युपाय-
मायस्तचेतसमसम्भवभग्नवृत्तम् ।
सीदन्तमन्तकभयादभयार्पणेन
सम्भावय स्वयमनर्थकदर्थितं माम् ॥३४॥
त्वां नीतिमान् भजति यः स भवत्यनीति-
र्मुक्तः स यो हि भवता हृदयान्न मुक्तः ।
यस्ते रतोऽपचितयेऽपचितिं स नैति
तत्त्वां श्रितोऽस्मि भवमस्म्यभवो न कस्मात् ॥३५॥
स्वापः सचिन्तमनसो निशि मे दुरापो
निर्दाह एव गमयामि कदा सदाहः ।
रक्ष त्वदेकवशगं शिव मामवश्यं
कस्माद्भवस्यपरुषो मम कर्कशस्त्वम् ॥३६॥
पापः खलोऽहमिति नाऽर्हसि मां विहातुं
किं रक्षया कृतमतेरकुतोभयस्य ।
यस्मादसाधुरधमोऽहमपुण्यकर्मा
तस्मात्तवास्मि सुतरामनुकम्पनीयः ॥३७॥
स्वैरेव यद्यपि गतोऽहमधः कुकृत्यै-
स्तत्रापि नाथ तव नास्म्यवलेपपात्रम् ।
दृप्तः पशुः पतति यः स्वयमन्धकूपे
नोपेक्षते तमपि कारुणिको हि लोकः ॥३८॥
अत्युन्नतान्निजपदाच्चपलश्च्युतोऽयं
भूरीन्भ्रमिष्यति जडप्रकृतिः कुमार्गान् ।
मत्वेति चेत्त्यजसि मामयमीदृगेव
गाङ्गस्त्वया किमिति मूर्ध्नि धृतः प्रवाहः ॥३९॥
हन्ताऽयमार्तिमपि नारकिणां धृतश्चे-
न्मूर्ध्ना किलेति वहसे यदि गाङ्गमोघम् ।
एतत्तवोचितमनाथजनार्तिभङ्ग-
हेवाकिनो घनघृणामृतसागरस्य ॥४०॥
अस्मादृशस्य रसना तु सहस्रधेयं
गच्छेदवाप्य तव शीर्षमितीरयन्ती ।
किं तूद्धरामि भवदग्रपदावमर्श-
मात्रादहं त्रिजगतीमिति मे प्रतिज्ञा ॥४१॥
क्षामो निकामजडिमा कुटिलः कलावान्
दोषाकरोऽयमिति चेत्त्यजसि प्रभो माम् ।
एतादृशैरुपगतोऽपि समस्तदोषैः
कस्मात्त्वया शिरसि नाथ धृतः शशाङ्कः ॥४२॥
शान्ताकृतिर्द्विजपतिर्विमलः कलङ्क-
मुक्तः किलेति यदि मूर्ध्नि विधुं बिभर्षि ।
एवंविधोऽपि भवता कथमङ्घ्रि पीठ-
प्रान्तेऽपि धर्तुमुचितो न समर्थितोऽहम् ॥४३॥
पापग्रहो धृतिमुपैति विना परेषां
न स्वापहारमयमित्यथ मां जहासि ।
एवंविधोऽपि तव दक्षिणदृष्टिपात-
पात्रत्वमीश्वर कथं रुचिमानुपेतः ॥४४॥
मित्रत्वमेष भवतो गुणिबन्धुतां च
प्रख्याप्य चेदुपगतस्तव वल्लभत्वम् ।
दासत्वमेव तव नित्यमुपेत्य भूत्वा
सेवापरश्च गुणिनां कथमप्रियोऽहम् ॥४५॥
अत्यूष्मलं मलिनमार्गमनेकजिह्वं
स्पर्शेऽप्यनर्हमवधार्य जहासि चेन्माम् ।
एतादृशोऽपि शुभदृष्टिनिवेशनस्य
पात्रीकृतः कथमयं भवताऽऽश्रयाशः ॥४६॥
यद्बन्धुजीवदलसद्रुचिरर्थिभाव-
मायाति साधुविबुधव्रजजीवनाय ।
यन्मित्रमण्डलमुखेन च विश्वमेषः
पुष्णाति तेन दहने यदि सादरोऽसि ॥४७॥
आप्यायनं सुमनसामनिशं विधातु-
मर्थीभवामि यदि कोऽपि न मेऽस्ति दाता ।
कर्तुं च बन्धुजनजीवनमक्षमोऽहं
विश्वं च पोषयितुमीश सुहृन्मुखेन ॥४८॥
तेनाऽत्र मां निरपराधमवेहि देहि
दृष्टिं प्रसादविशदाममृतद्रवार्द्राम् ।
दीनं दयास्पदमदभ्रमदभ्रमेण
भ्रूविभ्रमेण सदयं भज भङ्गुरेण ॥४९॥
अन्वग्रहीरमलदृष्टिसमर्पणेन
मित्रं शुचिं द्विजपतिं यदि युक्तमेतत् ।
एवंविधेऽपि भगवन् दृशमप्रसन्नां
धत्से मयीति विधिरेष पराङ्मुखो मे ॥५०॥
निष्कर्ण एष कुसृतिव्यसनी द्विजिह्वो
मत्वेति चेत्त्यजसि निःशरणं प्रभो माम् ।
एतादृशोऽपि पवनाशन एष कस्मा-
च्छ्रीकण्ठ कण्ठपुलिने भवता गृहीतः ॥५१॥
जिह्वासहस्रयुगलेन पुरा स्तुतस्त्व-
मेतेन तेन यदि तिष्ठति कण्ठपीठे ।
एकैव मे तव नुतौ रसनाऽस्ति तेन
स्थानं महेश भवदङ्घ्रितले ममाऽस्तु ॥५२॥
शृंगी विवेकरहितः पशुरुन्मदोऽयं
मत्वेति चेत्परिहरस्यतिकातरं माम् ।
एवंविधोऽपि वृषभश्चरणार्पणेन
नीतस्त्वया कथमनुग्रहभाजनत्वम् ॥५३॥
पृष्ठे भवन्तमयमुद्वहते कदाचि-
देतावता यदि तवैति दयास्पदत्वम् ।
स्वामिन्नहं तु हृदयेऽन्वहमुद्वहामि
त्वामित्यतः कथमहो न तवाऽनुकम्प्यः ॥५४॥
क्रूरः पराङ्मुखमसावनृजुर्जहाति
योग्यं गुणग्रहणकर्मणि मार्गणौघम् ।
मत्वेति चेत्त्यजसि मां कथमीदृगेव
स्वामिन्धृतः करतले भवता पिनाकः ॥५५॥
कोटिं परामुपगतेऽपि गुणे नितान्तं
नम्रं विमृश्य यदि नाऽजगवं जहासि ।
स्वल्पे गुणेऽपि नतिमानतिमात्रमेव
किं तच्च येन न भवामि तवानुकम्प्यः ॥५६॥
अत्यन्ततीक्ष्णमतिकर्कशमार्जवेन
कृत्वा प्रवेशमतिमात्रमरुन्तुदं माम् ।
मत्वा जहासि यदि नाथ किमर्थमेत-
देवंविधं वहसि हस्तगतं त्रिशूलम् ॥५७॥
ज्ञात्वाऽथ चेत्समरसंहितकर्मयोग्यं
कोटित्रयोज्ज्वलमुखं त्रिशिखं बिभर्षि ।
निःस्वं न किं समरसं हितकर्मयोग्यं
मां वेत्सि येन कुरुषे मयि न प्रसादम् ॥५८॥
न्यग्भावितद्विजमखर्वितपूर्वदेव-
गुर्वाऽपदर्पणपरं कृतगोत्रभेदम् ।
सम्भाव्य चेत्त्यजसि मां कथमीदृगेव
नेत्रोत्सवस्तव जगद्विजयी कुमारः ॥५९॥
मत्त्वाऽथ नाथ शुचिजातिममुं विशाख-
मस्मिन्मनो यदि बिभर्षि दृढप्रसादम् ।
एवंविधोऽप्यहमनन्यपरायणस्ते
कस्माद्भवामि भगवन्नवलेपभूमिः ॥६०॥
सर्वापहाररतिरुन्मदवक्रवक्त्र-
स्त्याज्योऽस्मि कर्णचपलो यदि तुन्दिलस्ते ।
एवंविधोऽपि भगवन् गणनायकत्वे
कस्मादयं गजमुखो भवता नियुक्तः ॥६१॥
हस्तं सदा वहति दानजलावसिक्तं
तेनैष चेदलभत प्रमथाधिपत्यम् ।
दानं प्रदातुमधनो यदि न क्षमोऽहं
दासत्वमस्तु मम देव भवद्गणानाम् ॥६२॥
हेयोऽस्म्यसेवकतया तव चेद् ग्रहेषु
कुर्वत्सु तुल्यमखिलेष्वपि राशिभोगम् ।
द्वावुज्झतस्तव न दृक्पथमर्कचन्द्रा-
वेतावता परिहृता भवता किमन्ये ॥६३॥
बलावुभौ द्विजपती तव नाथ भक्ता-
वेकस्तयोर्हरति सन्तमसं प्रजानाम् ।
तेनावृतं यदि परं सहसे महेश
द्रष्टुं ततो विषमदृष्टिरिति श्रुतोऽसि ॥६४॥
युक्तं रिपौ सुहृदि वा समदर्शनस्य
दोषोद्धतेऽपि यदि ते हृदयं दयार्द्रम् ।
तत्साम्प्रतं गतिविहीनमनात्मनीनं
दीनं जनं प्रति कुतः करुणाऽवलेपः ॥६५॥
अभ्युद्गमोऽयमशनेरमृतांशुम्बिम्बा-
त्स्वामिन्नसौ दिनमणेस्तिमिरप्ररोहः ।
युष्मादृशस्य कौणाम्बुनिधेरकस्मा-
दस्मादृशेष्वशरणेष्ववधीरणं यत् ॥६६॥
स्वामिन् मृडस्त्वमुरुदुःखभरार्दितोऽहं
मृत्युञ्जयस्त्वमथ मृत्युभयाकुलोऽहम् ।
गङ्गाधरस्त्वमहमुग्रभवोपताप-
तप्तः कथं कथमहं न तवानुकम्प्यः ॥६७॥
भवजीर्णज्वराताप-मोहकम्पाकुलाय मे ।
एकं सुदर्शनस्यांशं देहि विश्वचिकित्सक ! ॥
भक्तप्रियः स्वयमपि क्षुधयाऽन्वितस्य
पानोत्सवैकरसिकोऽपि पिपासितस्य ।
तापातुरस्य घनसेवनसादरोऽपि
जानासि नाथ न कथं सहसा ममार्तिम् ॥६८॥
सर्वज्ञ सर्वमवगच्छसि भूतभावि
भाग्यक्षयः पुनरसौ भगवन् ममैव ।
जानासि यस्य हृदयस्थित एव नार्तीं
ज्ञात्वाऽपि वा गजनिमीलितमातनोषि ॥६९॥
भालेऽनलं तव गले गरलं करे च
शूलं प्रकाशमखिलोऽयमवैति लोकः ।
अन्तर्गतं त्रयमिदं तु मम त्वमेव
जानासि नासि च दयालुरतो हतोऽहम् ॥७०॥
एकस्त्वमेव भविनामनिमित्तबन्धु-
र्नैसर्गिकी तव कृपा सवितुः प्रभेव ।
वामः पुनर्मम विधिः परिदेवितानि
जातान्य(जानासि)रण्यरुदितेन समानि यस्य ॥७१॥
अत्यन्तदुर्भगमयोग्यमभाग्यभाज-
माजन्मनर्मविमुखं मुखरोग्रवाचम् ।
दैवादवाप्य सकलापसदं महेश
नैवाऽत्यजत्कुलवधूरिव दुर्गतिर्माम् ॥७२॥
मुक्त्वा समाधिमसमाधिहरं परं च
प्रोद्दामधाम शिव धाम सुधामयं ते ।
भ्रान्तोऽस्मि तेन मलयानिलवेल्ल्यमान-
कल्लोललोलनिधनानि धनानि लब्धुम् ॥७३॥
आराधिताः प्रचपलाश्चपलावदेव
दुष्टेश्वरा न गुरवो गुरवो गुणौघैः ।
यातानि तानि मम हानिमहानि मिथ्या
श्रान्तोऽस्मि हा विततमोहतमोहतोऽहम् ॥७४॥
तृष्णा दिनाद्दिनमबृंहत बंहिमन-
मायामिनी मनसि हैमनयामिनीव ।
नाथ त्रिधामनयनाऽर्पयदृक्प्रसादं
सादं नयान्धतमसं भ्रमसम्भृतं मे ॥७५॥
स्तम्भं विजृम्भयति दम्भमयं भ्रमं च
कञ्चित्प्रपञ्चयति यच्छति वाचि मुद्राम् ।
कं नाम नाऽऽमयमयं प्रथयत्यखर्व-
गर्वज्वरज्वलनदुःसहसन्निपातः ॥७६॥
तत्साम्प्रतं भुवनविश्रुतहस्तसिद्धिं
त्वामोषधीपतिशिखामणिमाश्रयामि ।
मौनं विमुद्रय दरिद्रय मोहनिद्रां
विद्रावय द्रुतमुपद्रवमिन्द्रियाणाम् ॥७७॥
विस्रम्भमम्भसि भजे भगवन्नगाधे
बाधे रिपुव्यवसितेऽप्यलसीभवामि ।
जागर्मि यन्न समवर्तिनि हन्तुकामे
का मे गतिर्यदि करोषि मनागवज्ञाम् ॥७८॥
मोहान्ध्यहरणात्तीव्रभवज्वर-निवारणे ।
देहिनां दक्ष एकस्त्वमोषधीशशिखामणिः ॥
यस्ते ददाति रवमस्य वरं ददासि
यो वा मदं वहति तस्य दमं विधत्से ।
इत्यक्षरद्वयविपर्ययकेलिशीलः
किं नाम कुर्वति नमो न मनः करोषि ॥७९॥
चन्द्रः करे शिरसि चक्षुषि पादमूले
मूर्तावपीति शिव चन्द्रसुभिक्षमेतत् ।
तापान्धकारविधुरं शरणागतं कि-
मायातु लङ्घितवतस्तव मोघभावम् ॥८०॥
कौटिल्यमिन्दुदलतो न सुधामयत्व-
मूष्माणमूर्ध्वनयनान्न परं प्रकाशम् ।
मालिन्यमेव गलतो न गभीरभावं
त्वत्तोऽपि मे तितउ कल्पमवाप चेतः ॥८१॥
किं वर्णयामि गुरुतां विपदः पदे मां
स्थाणोर्न्ययुङ्क्त यदियं सहसोपदिश्य ।
निःशाखतां सुमनसामनुमेयभावं
विच्छायतां विफलतां रसहीनतां च ॥८२॥
सर्वज्ञशम्भुशिवशङ्करविश्वनाथ-
मृत्युञ्जयेश्वरमृडप्रभृतीनि देव ।
नामानि तेऽन्यविषये फलवन्ति किन्तु
त्वं स्थाणुरेव भगवन् मयि मन्दभाग्ये ॥८३॥
श्वेते सुदर्शनसमर्पणतत्परस्य
कृष्णे च यस्य न बभूव विशेषबुद्धिः ।
सत्त्वं श्रियं सृजसि पुण्यजनेषु मां च
मुञ्चस्यपुण्यजनमेष विधिः क्षतो मे ॥८४॥
आवर्जनं क्रतुभुजां गजवाजिरत्न-
श्रीपारिजातमदिरेन्दुसुधाऽर्पणेन ।
कृत्वाऽग्रहीर्गरलमात्मनि यन्महिम्ना
सा ते क्व सम्पति कृपा मयि मन्दभाग्ये ॥८५॥
दृप्तेषु ते मदनदक्षयमाऽन्धकेषु
प्रादुर्भवन्मनसि रोषविषप्ररोहः ।
सिक्तः सुधामयमसूत यया प्रसादं
सा ते क्व सम्प्रति कृपा मयि भाग्यहीने ॥८६॥
केचिद्वरस्य भगवन्नभयस्य केचि-
त्सान्द्रस्य केचिदमृतस्य करस्थितस्य ।
प्रापुः कृपाप्रणयिनस्तव भाजनत्वं
शूलस्य केवलमभाग्यपरिक्षतोऽहम् ॥८७॥
अभ्रान्तवृत्ति भवतान्तरधिष्ठितं मे
चेतः प्रकाशवपुषा रविणेव बिम्बम् ।
सोपप्लवं यदि कृतं तमसा कदाचि-
दक्षीणपुण्यमहिमैव तदा विभाति ॥८८॥
जानामि नाऽमृतमयं हृदयं प्रवेष्टु-
मुद्दामदुःखदवदाहहतस्तवाऽहम् ।
धर्तुं हृदि त्रिदशसिन्धुसुधासुधांशु-
शीतं भवन्तमपि न प्रभवामि धिङ्माम् ॥८९॥
क्षीणः क्षताऽखिलकलः प्रविलीनधामा
त्वामाश्रितोऽस्मि सवितारमिवाऽमृतांशुः ।
नास्त्येव जीवनकला मम काचिदन्या
पादार्पणेन कुरुषे यदि न प्रसादम् ॥९०॥
घोरान्धकारविधुरं विविधोपताप-
तप्तं विपद्गुरुतुषारपराहतं माम् ।
त्वं चेज्जहासि वद कस्तपनेन्दुवह्नि-
नेत्रो हरिष्यति परस्त्रिविधां ममार्तिम् ॥९१॥
व्यक्तिर्न यस्य न मतिर्न गतिर्न शक्ति-
र्नापि स्मृतिर्विपदपस्मृतिपीडितस्य ।
तस्यौषधीशमुकुटं त्रिजगद्गुरुं त्वां
मुक्त्वा करिष्यति परो मम कश्चिकित्साम् ॥९२॥
त्वं निर्गुणः शिव तथाहमथ त्वदीयं
शून्यं परं किमपि धाम तथा मदीयम् ।
त्वं चेद्गवि प्रविदधासि धृतिं तथाऽहं
कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥९३॥
कामस्त्वयीव मयि निष्फलतामवाप
क्षिप्तो मयापि विफलो भवतेव कालः ।
विध्वस्तधाम मम देव वपुस्तवेव
कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥९४॥
यद्वद्विभो तव हृदि प्रविभाति नाग-
स्तद्वन्ममापि भवदेकपरायणस्य ।
यद्वत्स्वधर्मनिरतस्त्वमहं तथैव
कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥९५॥
मूर्त्तिस्तवेव शिव मे विधुरोचितेयं
दृष्टिस्तवेव भगवन् विषमा ममापि ।
शूली विषादहतशक्तिरहं यथा त्वं
कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥९६॥
कण्ठे विषं वसति मे विषमं तवेव
भूतेश्वरः पशुपतिश्च भवानिवाऽहम् ।
अङ्गं ममापि गुरुरुग्जवलितं तवेव
कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥९७॥
स्वर्भानुगीर्णमिव पूर्णशशाङ्कबिम्बं
बालाङ्गनाङ्गमिव दारुणरुग्विरुग्णम् ।
श्रीखण्डचन्दनमिवाऽजगरोपगूढं
व्यूढं नृपस्य पिशुनैरिव पादमूलम् ॥९८॥
हालाहलाक्तमिव दुग्धमहाब्धिनीरं
तीरं महामकररुद्धमिव द्युसिन्धोः ।
दारिद्र्यदग्धमिव साधुगृहस्थवृत्तं
चित्तं समत्सरमिव श्रुतविश्रुतस्य ॥९९॥
विद्याविहीनमिव सत्कुलजस्य रूपं
निर्दानभोगमिव कापुरुषस्य वित्तम् ।
मानुष्यमुज्ज्वलकुलश्रुतशीलशुद्धं
जातं विपद्विधुरितं मम शोचनीयम् ॥१००॥
पश्चात्पुरः प्रतिदिशं च विमृश्य पश्य-
न्क्रूरं कृतान्तहतकं फणिपाशपाणिम् ।
भूमौ पतामि कृपणं प्रलपामि पाद-
पीठे लुठामि शठवत्कठिनोऽसि कस्मात् ॥१०१॥
आः किं न रक्षसि नयत्ययमन्तको मां
हेलावलेपसमयः किमयं महेश ।
मा नाम भूत्करुणया हृदयस्य पीडा
व्रीडापि नास्ति शरणागतमुज्झतस्ते ॥१०२॥
अज्ञोऽसि किं किमबलोऽसि किमाकुलोऽसि
व्यग्रोऽसि किं किमघृणोसि किमक्षमोऽसि ।
निद्रालसः किमसि किं मदघूर्णितोऽसि
क्रन्दन्तमन्तकभयार्त्तमुपेक्षसे यत् ॥१०३॥
द्वेषः किमेष कृपणे किमुताऽक्षमेयं
निस्त्रिंशता किमथवा किमशक्तिरेव ।
हुङ्कारमात्रकनिराकरणीयगर्वे
सर्वेश कालहतके यदियत्युपेक्षा ॥१०४॥
इत्यादि दूढ्य इव निष्ठुरपुष्टभाषी
यत्किञ्चन ग्रहगृहीत इवाऽस्तशङ्कः ।
आर्त्या मुहुर्मुहुरयुक्तमपि ब्रवीमि
तत्रापि निष्कृप भिनत्सि न मौनमुद्राम् ॥१०५॥
भीते भवार्तिविधुरे चरणावलग्ने
भग्नेप्सिते गतिमपश्यति काञ्चिदन्याम् ।
कस्मादनागसि मनागसि विश्वसाक्षि-
न्दाक्षिण्यदिग्धहृदयोपि पराङ्मुखस्त्वम् ॥१०६॥
स्वामिन्निसर्गमलिनः कुटिलश्चलोऽह-
मेतादृगेव च रिपुर्मम मृत्युपाशः ।
भ्रूपल्लवस्तव तथाविध एव तस्य
शान्त्यै विषे हि विषमे विषमेव पथ्यम् ॥१०७॥
किं कार्यमेभिरनिशं पुनरुक्तशुक्तै-
रुद्वेगकारिभिरलब्धफलैः प्रलापैः ।
एवं विदन्नपि मुहुर्मुखरं विरौमि
पश्यामि न त्वदितरं हि परं शरण्यम् ॥१०८॥
त्वं चेत्प्रसादसुमुखः प्रणयोक्तिभिः किं
त्वं चेदनादरपरः प्रणयोक्तिभिः किम् ।
भाग्योदये सति वृथैव गुणेषु यत्न-
स्तस्मिन्नसत्यपि वृथैव गुणेषु यत्नः ॥१०९॥
जानन्नपीति विरमामि न यत्प्रलापा-
दार्त्तेर्महेश महिमैष दृशस्तवैव ।
या रात्रिमेव दिवसं तिमिरं प्रकाश-
मग्निं हिमं गरलमप्यमृतं करोति ॥११०॥
आर्त्तिः श्रुतैव कृपणात्करुणां तवान्त-
रुत्पादयत्यनिशमग्निशिखां शमीव ।
जातैव निर्दहति तामियमित्यमुत्र
किं ब्रूमहे महदनङ्कुशमीश्वरस्य ॥१११॥
यन्नाम पामरजनोचितमत्र किञ्चि-
दौचित्यमुक्तमसमञ्जसमभ्यधायि ।
तत्रापि भर्तुरुचिता रुचिरीश्वराणां
चेतश्चमत्कृतिकरी कपिझम्पिकाऽपि(एव)॥ ११२॥
चौरैर्गृहीतमपि दष्टमपि द्विजिह्वै-
र्ग्रस्तं ग्रहैरपि निरुद्धमपि द्विषद्भिः ।
व्याघ्रैरुपद्रुतमपि द्रुतमाक्षिपद्भि-
रन्विष्टमप्यवनिभृत्पुरुषैः सरोषैः ॥११३॥
भूताऽभिभूतमपि सिन्धुजलेऽपि मग्नं
भग्नं रणेऽपि पतितं दवपावकेऽपि ।
किं भूयसा यमभटैरपि कृष्यमाणं
कस्त्रातुमर्हति महेश्वरमन्तरेण ॥११४॥
तज्ज्ञो बतास्म्यभिलषन् सुखमक्षयं य-
द्दुःखैकधाम वपुरस्थिरमर्थयामि ।
यद्वा भवाब्धितरणाय पुराणमुग्र-
शीलं पुमांसमुडुपार्धधरं श्रयामि ॥११५॥
दृङ्मार्गमात्रपतिताः सहसैव यस्य
पञ्चत्वमिन्दुरविहव्यभुजोऽप्यवापुः ।
धीमानहं बत तमेव सदाशिवं य-
द्देवं श्रयामि शरणम्मरणार्त्तिभीरुः ॥११६॥
स्थाणुः स यत्र विभुरस्य वधूरपर्णा
सा यत्र यत्र च तयोस्तनयो विशाखः ।
प्रज्ञावतामहमहो प्रवरः प्रवेष्टु-
मिच्छामि धाम तदभीष्टफलाप्तये यत् ॥११७॥
मार्जारशूकरशृगालकरालवक्त्र-
वेतालभूतशतसङ्कुलमीश्वरस्य ।
भीष्मं निशाचरपिशाचरवैः प्रवेष्टु-
मिच्छामि धाम मतिमानतिमात्रभीरुः ॥११८॥
कर्णेक्षणादचरणात्त्रिफणात्कृतान्त-
पाशात्त्रसन्धृतसहस्रफणोरगेन्द्रम् ।
प्राज्ञः सहस्रशिरसं पुरुषं सहस्र-
नेत्रं सहस्रचरणं शरणं श्रयामि ॥११९॥
त्रस्तः समस्तजनताऽपहृतिप्रगल्भा-
द्दीप्ताऽनलोल्बणदृशः शिव जीवितेशात् ।
प्राज्ञः समस्तजनतापहृतिप्रगल्-भं
त्वां जीवितेशमनलोग्रदृशं श्रयामि ॥१२०॥
निर्भर्त्सितक्रतुमृगं समशिश्रियत्त्वां
संन्यस्तलाञ्छनमृगः कलया मृगाङ्कः ।
यत्कामवैरिणमवेत्य सकाम एव
त्वामाश्रितोऽस्मि सुधियामधिकस्ततोऽहम् ॥१२१॥
पद्माश्रितः शतधृतिश्चतुराननोऽपि
यस्मात्पराभवमवापदवाच्यमेव ।
त्यक्तः श्रिया गतधृतिर्मृदुमन्दवक्त्रः
प्राज्ञस्तमीश्वरमनुग्रहमर्थयेऽहम् ॥१२२॥
आजन्म कर्म विरचय्य फलं यदाप्तं
हृत्त्वा क्षणात्तदखिलं चिरकालभोग्यम् ।
यः स्वीकरोत्यपुनरागमनाय भक्तं
सेवे तमीश्वरमहो मतिमत्तमोऽहम् ॥१२३॥
श्मशानैकस्थानव्यसनमनलोत्तालनयनं
विषज्ज्योतिर्ज्वालाजटिलकुटिलव्यालवलयम् ।
विभुं मुण्डश्रेणीविकटमुकुटं भीरुहृदयः
श्रयन् भीमं धीमानहमहसनीयः कृतधियाम् ॥१२४॥
अहो तत्त्वज्ञोहं करतलविलीनैकफणिनः
समुत्त्रस्यन्कालात्क्रमकवलितैकैकभविनः ।
महाकालं सर्वावयवसुलभानल्पभुजगं
सकृद्विश्वग्रासप्रवणमतिमभ्येमि शरणम् ॥१२५॥
शृंगी यत्र स्फटिकशिखरी यत्र शृंगी पिनाकः
शृंगी सोऽपि स्फुरति वृषभो वल्लभो यत्र भर्तुः ।
तत्र त्रस्तः प्रकृतिसरलः स्वल्पवागप्रगल्भः
प्राज्ञः सेवासमयमुचितं स्वामिनः प्रार्थयेऽहम् ॥१२६॥
विश्रान्तिर्न क्वचिदपि विपद्ग्रीष्मभीष्मोष्मतप्ते
चित्ते वित्ते गलति फलति प्राक्प्रवृत्ते कुवृत्ते ।
तेनात्यन्धं सपदि पतितं दीर्घदुःखान्धकूपे
मामुद्धर्त्तुं प्रभवति भव त्वां दयाब्धिं विना कः ॥१२७॥
येषामेषा तनुधनलवप्रार्थनाऽनर्थकन्था
पन्थानं न प्रदिशति परं स्थानमानन्दि लब्धुम् ।
तेषामेषामकृपण कृपाभाजनानां जनाना-
माशापाशाकुलितमनसां दृष्टिमिष्टां निधेहि ॥१२८॥
उदञ्चय मुखं मनागभयघोषमुद्घोषय
प्रयच्छ विशदां दृशं गतिविहीनमाश्वासय (धृतिविहीनमाश्वासय)।
किमन्यदयमागतः कुपितदृष्टिरुत्कन्धरः
कृतान्त इति मा स्म भूरविरलावलेपालसः ॥१२९॥
मुहुः किमपरं ब्रुवे भुजगपाशपाणिं पुरः
स्फुरन्तमिव रोषणं रविजकिङ्करं पश्यतः ।
धृतिश्चलति मे गतिः स्खलति मूर्तिरुद्वेल्लति
स्थितिर्ज्वलति निर्वृतिर्विगलति स्मृतिर्मीलति ॥१३०॥
दुर्गं यत्सुगमत्वमेति भजते दूरं यदभ्यर्णतां
यत्क्रीडोपवनत्वमेति मरुभूर्मित्रायते यद्रिपुः ।
यस्याः सा भुवि शक्तिरप्रतिहता सार्त्तिस्त्वदाक्रन्दने
स्वामिन्मामनुदत्कृपाऽपि नुदतु त्वां मत्समाश्वासने ॥१३१॥
द्वारि श्रीश्च सरस्वती च वसतः स्वामिंस्तवाऽस्तक्रुधौ
मां तु श्रीर्भवदङ्घ्रिविष्टरतले नित्यप्ररूढस्थितिम् ।
यावन्मात्रसरस्वतीपरिचयद्वेषादहासीदतो
वह्निं दुर्वहमुद्वहामि हृदये ग्लायन्नुदन्वानिव ॥१३२॥
नाथ प्राथमिकं विवेकरहितं तिर्यग्वदस्तं वय-
स्तारुण्यं विहतं विराधितवधूविस्रम्भणारम्भणैः ।
स्वामिन्सम्प्रति जर्जरस्य जरसा यावन्न धावन्नयं
मृत्युः कर्णमुपैति तावदवशं पादाश्रितं पाहि माम् ॥१३३॥
आसीद्यावदखर्वगर्वकरणग्रामाभिरामाकृति-
स्तावन्मोहतमोहतेन न मया श्वभ्रं पुरः प्रेक्षितम् ।
अद्याऽकस्मिकपातकातरमतिः कं प्रार्थये कं श्रये
किं शक्नोमि करोमि किं कुरु कृपामात्मद्रुहं पाहि माम् ॥१३४॥
जात्यन्धः पथि सङ्कटे प्रविचरन्हस्ताऽवलम्बं विना
यातश्चेदवटे निपत्य विपदं तत्राऽपराधोऽस्य कः ।
धिग्धिङ्मां सति शास्त्रचक्षुषि सति प्रज्ञाप्रदीपे सति
स्निग्धे स्वामिनि मार्गदर्शिनि शठः श्वभ्रे पतत्येव यः ॥१३५॥
त्राता यत्र न कश्चिदस्ति विषमे तत्र प्रहर्तुं पथि
द्रोग्धारो यदि जाग्रति प्रतिविधिः कस्तत्र शक्यक्रियः ।
यत्र त्वं करुणार्णवस्त्रिभुवनत्राणप्रवीणः प्रभु-
स्तत्रापि प्रहरन्ति चेत्परिभवः कस्यैष गर्हावहः ॥१३६॥
किं शक्तेन न यस्य पूर्णकरुणापीयूषसिक्तं मनः
किं वा तेन कृपावता परहितं कर्तुं समर्थो न यः ।
शक्तिश्चास्ति कृपा च ते यमभयाद्भीतोऽपि दीनो जनः
प्राप्तो निःशरणः पुरः परमतः स्वामी स्वयं ज्ञास्यति ॥१३७॥
भृङ्गारे करपुष्करप्रणयिनि स्वर्निम्नगानिर्झरे
सम्पूर्णे करुणारसे परिणतस्फारे तुषारत्विषि ।
अस्ति स्वादु च शीतलं च सुलभं पीयूषमोषच्छिदे
प्राप्तश्च प्रणयी पुरः परमतः स्वामी स्वयं ज्ञास्यति ॥१३८॥
आर्त्तिः शल्यनिभा दुनोति हृदयं नो यावदाविष्कृता
सूते लाघवमेव केवलमियं व्यक्ता खलस्याऽग्रतः ।
तस्मात्सर्वविदः कृपाऽमृतनिधेरावेदिता सा विभो-
र्यद्युक्तं कृतमेव तत्परमतः स्वामी स्वयं ज्ञास्यति ॥१३९॥
लेखाः सन्तु प्रसन्ना बुधसदसि शुचेरागमस्यास्तु लब्धि-
र्मिथ्यादृष्टिश्च माभूदनुपधिरहतो दीर्घकालोऽस्तु भोगः ।
सभ्याः सर्वेऽनुवृत्तिं विदधतु तदपि न्यायतो नास्ति मुक्तिः
सम्यग्दर्शी प्रमाता रचयति न भवानीश्वरश्चेद्विचारम् ॥१४०॥
जानुभ्यामुपसृत्य रुग्णचरणः को मेरुमारोहति
श्यामाकामुकबिम्बमम्बरतलादुत्प्लुत्य गृह्णाति कः ।
को वा बालिशभाषितैः प्रभवति प्राप्तुं प्रसादं प्रभो-
रित्यन्तर्विमृशन्नपीश्वर बलादार्त्यास्मि वाचालितः ॥१४१॥
धत्ते पौण्ड्रकशर्कराऽपि कटुतां कण्ठे चिरं चर्विता
वैरस्यं वरनायिकाऽपि कुरुते सक्त्या भृशं सेविता ।
उद्वेगं गगनापगाऽपि जनयत्यन्तर्मुहुर्मज्जनाद्
विश्रद्धां मधुराऽपि पुष्यति कथा दीर्घेति विश्रम्यते ॥१४२॥
इत्थं तत्तदनन्तसन्ततलसच्चिन्ताशतव्यायत-
व्यामोहव्यसनावसन्नमनसा दीनं यदाक्रन्दितम् ।
तत्कारुण्यनिधे निधेहि हृदये त्वं ह्यन्तरात्माऽखिलं
वेत्स्यन्तःस्थमतोऽर्हसि प्रणयिनः क्षन्तुं ममाऽतिक्रमम् ॥१४३॥
इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``दीनाक्रन्दनं'' नामैकादशं स्तोत्रं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : January 30, 2026

TOP