संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः|
पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम्

पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम्

स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.


अन्तश्चेतसि निर्वृतिर्न गमिता नाशं कया शङ्कया
नैषा पुष्यति तेन संहृतगतिः शोभारती भारती ।
भक्तिः किं तु विजृम्भते मम यथैवाभा स्वतो भास्वतो
यादृक्तादृगतः किमप्यभिदधे सम्प्रत्यहं प्रत्यहम् ॥१॥

वक्त्रं बिभ्रददभ्रदीर्घदहनज्वालं भयं लम्भ-
यन्नुद्ग्रीवं घटयन्करे विदधतं व्यालं घनं लङ्घनम् ।
प्रत्यासीदति मृत्युरित्युपचितस्फारोचितां रोचितां
श्रुत्वा मां न कथं विभुर्गिरमिमां चित्रायतां त्रायताम् ॥२॥

मन्ये तां स्पृहणीयगौरवगुणामायामिनीं यामिनीं
तत्सेवारसमादधत्तव सुधा संवादिनं वा दिनम् ।
यत्रोपान्तगतं वचोभिरुचितैरानन्दिनं नन्दिनं
कुर्वद्भिश्चरितं सुचारु जगतामीशस्य ते शस्यते ॥३॥

तस्योदेति सदःसदां विदलितग्लानिर्भरो निर्भरो
वाचां वक्त्रसरोरुहे परिणमत्पाकोऽमलः कोमलः ।
लक्ष्मीस्तं न जहाति किं च विभवैराभासिताभासिता
येन त्वं हृदयाम्बुजे भवभयात्त्रातोषितस्तोषितः ॥४॥

सेव्यन्ते भगवन्नपास्य(अवाप्य)कलितोल्लासं मदं समदम् (पदं सम्पदं)
बिभ्राणास्तरुणीजनेन मधुरव्याहारिणा हारिणा ।
वीज्यन्ते दिवि चन्द्ररश्मिरुचितैः किञ्चाऽमरैश्चामरै-
राबाल्याद्विदधे त्वदेकविषया यैः शेमुषी शेमुषी ॥५॥

तूर्णं चूर्णयितुं वपुर्यमभटो झम्पारयं पारय-
न्नुच्चण्डभ्रुकुटीकरालितमुखो यत्रासकृत्त्रासकृत् ।
तां भूमिं परिहर्तुमीश्वर भवत्सेवाधनं बाधनं
दुःखानामधिगम्य हन्मि कुमतिप्रादुष्कृतं दुष्कृतम् ॥६॥

मुञ्चद्भिर्यमकिङ्करैः कृतमहाजृम्भैरवं भैरवं
यावद्दर्शितमाननं न घुसृणक्षोदारुणं दारुणम् ।
तावत्सत्त्वरमेहि देहि महसां धामेदृशं मे दृशं
या दूरीकुरुते निरन्तरसुधासन्दोहदं दोहदम् ॥७॥

यावद्दुःसहवह्निहेतिविहितस्फीतापदं तापदं
जन्तूनां भगवन् भजामि नरकं नाहं सदाहं सदा ।
तावन्मुञ्च वचो यथा मरुपथे बाधावतां धावतां
भीष्मग्रीष्मकदर्थ्यमानवपुषां सञ्जीवनं जीवनम् ॥८॥

न्यस्तं येन मनस्त्वयीदमहतोत्साहं तयाऽहन्तया
गाढोद्वेगविधायिनी घटयते सायासतां या सताम् ।
तं भोगैरुपसेवते सुमनसामानन्दने नन्दने
दिव्यस्त्रीजनता विलासविकसच्छोभा सुरं भासुरम् ॥९॥

यस्या हन्ति धृतिं विवेकविहितह्रासा विलासाविला
मुग्धा दृङ्मदिरामदेन विगलद्वाचारुणा चारुणा ।
रामा काममहास्त्रमर्पयति मे सा हन्त मोहं तमो
येनाऽज्ञानमयं मनस्युपरमत्तापप्रथे पप्रथे ॥१०॥

लज्जेऽहं भज दूरमेव रभसादेवं धुता बन्धुता-
सम्मूढेन मया यया विधृतवानेतामहन्तामहम् ।
किं किं श्रीमदमोहितेन विभवस्थेनाऽहितं नाहितं
येनैतां न भजे पुनर्मयि वरं बाधे हितं धेहि तम् ॥११॥

आनीता चरणान्तिकप्रणयितां कामेन का मेनका
कार्यं किं घनभोगसम्भृतविधौ सारम्भया रम्भया ।
कान्ता मे परमेश्वरे हतविपत्सम्भावना भावना
 चित्ते कापि रतिर्ययाहितहितव्रातायते तायते ॥१२॥

धत्ते यस्य जटा कपालपटलं भव्या कुलं व्याकुलं
हंसानामिव रुन्धतीं भगवतीं गङ्गां तरङ्गान्तरम् ।
तस्याधाय महेशितुर्नुतिगिरां नव्याकृतिं व्याकृतिं
भक्त्या निश्चलया नृजन्म सकलं सम्मानयामानया ॥१३॥

कञ्चिच्छ्रीर्वसतेः करोतु विकसच्छोभा जनं भाजनं
कञ्चिद्वन्दिजनः प्रशंसतु मुदं प्रीत्या गतस्त्यागतः ।
मन्येऽहं तु समग्रशोकशमनं संन्यासमन्यासमं
यस्मिन्मृत्युजितं भजामि मनसा वाचेष्टया चेष्टया ॥१४॥

रूपं यद्भवतो दधत्परिकरं भौजङ्गं जङ्गमं
सेवन्ते यदपि श्रिया कृतधियः स्वस्था वरं स्थावरम् ।
प्राज्यं ज्योतिरिव प्रसह्य तमसां वैकर्तनं कर्तनं
लब्ध्वा तत्प्रतिभा कथं न जनितस्वाभा सतां भासताम् ॥१५॥

स्तोतुं वाञ्छसि संश्रितं मरकतश्यामं गलं मङ्गलं
लब्धुं मानस तत्परं भगवतः सेवासु किं वासुकिम् ।
भक्तिश्चेद्भवति स्थितिं मदमरुद्वेगाहते गाहते
तद्बध्नासि धृतिं त्वमप्यहिपतिप्रावारसेवारसे ॥१६॥

दृष्ट्वा यन्मघवा विहाय गतवानैरावणं रावणं
पश्यन्पाण्डुतया भयादनुकृतश्यामाधवं माध्वम् ।
सर्वोऽयं भवतः प्रसादमहिमा हन्ता नवं तानवं
सेवा कस्य न सिद्धये हतवृथासङ्कल्प ते कल्पते ॥१७॥

तं हत्वा सबलं निशाचरपतिं लङ्कालयं कालय-
न्नार्तिं नाकसदामुपेत्य विभवं वैभीषणं भीषणम् ।
वैदेहीमनघां लभेत स कथं रामो हि तां मोहितां
त्वद्भक्तिं यदि न व्यधास्यतनुतो भ्राजिष्णुना जिष्णुना ॥१८॥

लोकं शोकहरं परं प्रति भृशं सन्देहिनां देहिनां
माया मोहतमोविमोहितदृशामायासदा या सदा ।
तां हन्तुं मम किं करोषि विहितज्ञानोदयां नो दयां
यस्या दास्यमपीह नार्हति घनस्फारा सुधारा सुधा ॥१९॥

दोषाणां सहसा विधातुमुदयं नो साम्प्रतं साम्प्रतं
स्वालोकक्षपणं करोतु तिमिरं तन्मादृशां मा दृशाम् ।
ख्यातः पौष्ण इव प्रसह्य कमलोल्लासादयं सादय-
न्नार्तिं न प्रकटीकरोति बत कामाशां करः शाङ्करः ॥२०॥

शीतस्निग्धं परिमलसुखं घानसारं न सारं
नापि प्रेम्णा कलितललितोद्दामहेलामहेला ।
तस्माज्जित्वा भवमनुदितस्तम्भजेयं भजेयं
भूयो भूयो हर परहितारम्भवन्तं भवन्तम् ॥२१॥

दृष्टिः स्त्रीणां मम निवसतो हानिशान्ते निशान्ते
चित्तं रुन्धे शिशुमिव मृगं वागुरा भङ्गुराभम् ।
तत्सम्पर्कादहमिव सहे देव मानाऽवमाना-
वार्त्तः प्राप्तः शरणमधुना त्वामुदारं मुदारम् ॥२२॥

प्राज्यं राज्यं नृपतिमकरीरत्ननिर्यत्ननिर्य-
द्रश्मिस्रोतःस्नपितचरणं क्रान्तसामन्तसाम् ।
सभ्रूभङ्गं मुनिजनमनःक्षोभिरामाऽभिरामा
वक्त्रं बिभ्रत्युपचितरतिर्घस्मरेण स्मरेण ॥२३॥

द्वारि क्षोभः क्षितिधरगुहाभोगजानां गजानां
का वा सङ्ख्या प्रकटितविपद्बाधनानां धनानाम् ।
इत्थं लक्ष्मीः कथमिव भजेद्धामहीनं महीनं
स्याच्चेन्नैकस्तव कृतरिपुक्षिप्रसादः प्रसादः ॥२४॥

भीमां पङ्क्तिं पुरुषशिरसां मस्तकेऽशस्तकेश-
प्रोतां धत्से विबुधसरितो यां तरङ्गान्तरङ्गाम् ।
सैव श्रेयः प्रथयति यथा देव राजीव राजी
त्वत्सम्पर्काद्घटयति न किं मङ्गलाभङ्गलाभम् ॥२५॥

कृत्वा शय्यामुपान्ते विरचितकलिकादामशेषामशेषां
सम्पत्तिं मानयन्तः कुसुमबलगलद्बालतानां लतानाम् ।
सेव्यन्ते हन्त वृन्दैरविरतरतयः सुन्दरीणां दरीणा-
मन्तस्त्वद्भक्तिभाजः सितकरकिरणैरुत्तमायां तमायाम् ॥२६॥

हन्ताऽहन्तावृतानां मह इव रजनी भासमानं समानं
ज्ञानं ज्ञानन्दकारि ग्लपयति विलसद्बोधनाशा धनाशा ।
वाचा वाचालभावं तव विहितवतां वास्तवेन स्तवेन
श्रेयः श्रेयस्करस्त्वं भव भवसि विपद्भाजनानां जनानाम् ॥२७॥

इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``पादान्तयमकस्तोत्रं'' नामाष्टाविंशं स्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : January 30, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP