कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम्
स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.
काव्यकौशलकलासु कोविदैः कीर्तितः कविकुलैः कुतूहलात् ।
कौमुदीकुमुदकान्तकीर्तिभिः कामितः कुशलकार्यकारिभिः ॥१॥
केरलीकचकलिन्दकन्यकाकूलकालियकडारकन्धरः ।
किल्बिषक्षपणकारणक्रतुक्लान्तिकृत्करटिकृत्तिकर्पटः ॥२॥
केकिकेतनकृशानुकौशिकैः किन्नरैः कविकुबेरकेशवैः ।
कालकूटकवलक्रियाक्रमे क्रन्दितः कलुषकर्षणक्षमः ॥३॥
कर्णकीलितकपालकुण्डलः कुण्ठितक्रकचकल्पकल्मषः ।
कालकामकदनः कुमुद्वतीकान्तकर्बुरकपर्दकन्दरः ॥४॥
कापिशायनकषायकामिनीकेलिकूजितकलेन कौतुकात् ।
क्रीडितः क्वणितकीचकक्वणत्कोकिलाकलकलेन कानने ॥५॥
कुन्दकुड्मलकदम्बकेतकीकाञ्चनारकलिकाकदम्बकैः ।
कर्णिकारकरबीरकोरकैः कैरवैः कुवलयैः कुशेशयैः ॥६॥
किंशुकैः कपिकपोलकान्तिभिः केसरैः कमलकोषकोमलैः ।
कोविदारकुटजैः कणेरकैः केवलैः कचितकीर्णकुन्तलः ॥७॥
कृष्णकुण्डलिकठोरकञ्चुकैः कॢप्तकुब्जकमनीयकङ्कणः ।
क्रोधकृत्तकरिकुम्भकोटरक्रूरकेसरिकिशोरकण्टकः ॥८॥
कान्तया कनककाञ्चिकिङ्किणीकान्तया कलितकण्ठकन्दलः ।
कोपयन्कपटतः किरीटिनं क्रीडया कृतकिरातकैतवः ॥९॥
काककङ्ककुररैः कलङ्किते कश्मले कठिनकृत्यकारिते ।
काङ्क्षितः क्षतकलेवरैः कटुं कर्षयन्करुणया कदर्थनाम् ॥१०॥
कोपकर्कशकृतान्तकिङ्करक्लेशकातरकृपाकृतौ कृती ।
कल्पतां कलिकलङ्ककन्दलीकन्दकर्त्तनकुठारकर्मणे ॥११॥
कल्लोलिनीकुटिलकैरविणीकुटुम्ब-
कङ्कालकल्पितकरालकिरीटकोटिः ।
कात्यायनीकरकरम्बितकीर्यमाण-
कर्पूरकुङ्कुमकणः करुणां करोतु ॥१२॥
इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``कादिपदबन्धस्तोत्रं'' नामकं द्वाविंशं स्तोत्रं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : January 30, 2026

TOP