संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः| रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः प्रस्तावना सूचिपत्रम् स्तुतिप्रस्तावना प्रथमं स्तोत्रम् नमस्कारात्मकं द्वितीयं स्तोत्रम् आशीर्वादाख्यं तृतीयं स्तोत्रम् मङ्गलाष्टकं चतुर्थं स्तोत्रम् कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् हराष्टकं षष्ठं स्तोत्रम् सेवाभिनन्दनं सप्तमं स्तोत्रम् शरणाश्रयणं अष्टमं स्तोत्रम् कृपणाक्रन्दनं नवमं स्तोत्रम् करुणाक्रन्दनं दशमं स्तोत्रम् दीनाक्रन्दनं एकादशं स्तोत्रम् तमःशमनं द्वादशं स्तोत्रम् प्रभुप्रसादनं त्रयोदशं स्तोत्रम् हितस्तोत्रं चतुर्दशं स्तोत्रम् करुणाराधनं पञ्चदशं स्तोत्रम् उपदेशनं षोडशं स्तोत्रम् भक्तिस्तोत्रं सप्तदशं स्तोत्रम् सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् हसितस्तोत्रं विंशं स्तोत्रम् अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् द्विपदयमकं चतुर्विंशं स्तोत्रम् रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् महायमकस्तोत्रं त्रिंशं स्तोत्रम् नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् ग्रन्थकर्तुर्वंशवर्णनम् रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे. Tags : stuti kusumanjaliकुसुमाञ्जलिजगद्धर jagaddharस्तुति रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् Translation - भाषांतर किल यस्य कल्पितमहोदयया-हृदयं समाश्रितमहो दयया ।विभवं यतश्च परमाप दिवःप्रभुरेष पातु परमापदि वः ॥१॥तव सेवकस्य परमेश मनःकुरुते न हन्तुमपि मे शमनः ।भगवन्नतो वपुरनीरसदृ-क्तव नौमि सिद्धधुनिनीरसदृक् ॥२॥स्रगिवाऽर्प्यते कलितसारसनात्वयि गीर्यया जयति सा रसना ।त्वयि यन्महेश वरदेऽवहितंहृदयं तदेव वरदेव हितम् ॥३॥तव दृक्सुधाकरकलोपमिता-पतिता विपत्तदनुलोपमिता ।भगवन् दृशैव कमला भवतःसहसाऽङ्कमेति शमला भवतः ॥४॥कुरु नाथ चेतसि वचो दयितातव गीरहं न तव चोदयिता ।अथवा महेश पृथुकामतयान किमारटन्ति पृथुका मतया ॥५॥विषयैर्मुखे वरद कामधुरै-र्विवशीकृतं घटितकामधुरैः ।भज मां महेश्वर मुदा रहितंदिश भाषितामृतमुदारहितम् ॥६॥विजितं मया जगदमोहतयान रुषा क्षतो मम दमो हतया ।तृणवत्सुरक्षितिधरोऽपि तयाविहितो महेश हृदि रोपितया ॥७॥मरुतायतेव मलयाचलतःक्षपिता धृतिः कमलया चलतः ।तदिमां प्रसादनपरां करुणांशृणु मे गिरं कुरु परां करुणाम् ॥८॥भवतः प्रसादमधुरामहतांदृशमीयुषां शमधुरा महताम् ।धृतिमेत्यपास्य च रमा लसतांसुलभत्वमेति चरमालसताम् ॥९॥समरे विकीर्णगजराजघटेबत तस्य शक्तिरजरा जघटे ।तव येन सेवनविधौ तरसामतिरर्पिताऽन्यभविधौतरसा ॥१०॥विषयान्प्रति प्रयतमानमदःसुजनो मनः प्रयतमानमदः ।तव शासनेन वशमानयतेशरणं ततो नवशमानयते ॥११॥रविजं रजोभिरिव मेचकितंहृदयं विभाव्य शिव मे चकितम् ।वचनं जितामृतरसं भ्रमतःपथि सङ्कटे वितर सम्भ्रमतः ॥१२॥त्वयि चक्षुरीश कलितापकृतिक्षिपति क्षणं शकलितापकृति ।परशक्तिरिद्धवपुरङ्गमिताजनता यया तव पुरं गमिता ॥१३॥रविजस्य वर्ष्म सहसा रचितंभवताग्निसादसहसारचितम् ।वपुराप ते मदनघस्मरतां नतथापि भीमदनघस्मरताम् ॥१४॥करुणा क्षतानवधिकोपचया-धिगता मया त्वदधिकोपचया ।शशिना यथाकुलतरं गलताद्युसरिन्निरर्गलतरङ्गलता ॥१५॥गरुडेन यद्विषमपक्षतिनाकवलीकृतं विषमपक्षतिना ।स तव प्रसादमहिमा न परःप्रभुरानतं प्रति हि मानपरः ॥१६॥पदमाप्तुमार्तिशमनं गहनंप्रभुमर्थये भृशमनङ्गहनम् ।वसनं यथार्त्तिहरणं सहिमेसमये तथैव शरणं स हि मे ॥१७॥सुरसुन्दरीषु रमणीयतमास्ववपुर्गुणेन रमणी यतमा ।तव भक्तमक्षतरसाजर साभजते समेत्य तरसा जरसा ॥१८॥त्वयि गीर्मया निजगदे बतया निखिलं जयामि जगदेव तया ।मुदितस्य भक्तिसुधया भवतःसभयस्य किं वसुधया भवतः ॥१९॥शिरसि स्रजेव विधुरोचितयाहृदि मद्गिरात्र विधुरोचितया ।क्रियतां पदं शिव धिया सहतेऽ-विपदं सदानवधि या सहते ॥२०॥विभुमाश्रये विगलदङ्गलतःप्रमये बिभेमि यदमङ्गलतः ।स विमुच्य पाशमशमं गलतःकुरुते हि मे भयशमं गलतः ॥२१॥चरणौ यथा मुरजितः क्षमया-धिगतौ भरं धरितुमक्षमया ।नमतां तथैव कृतरक्ष मयाभवतो धिया समुचितक्षमया ॥२२॥तिमिरं रवेरिव विभामुदितांदृशमाप्य ते जहति या मुदिताम् ।भगवन् रसाद्गिरमिमामुदिता-मुपकर्णयन्मयि दिशाऽमुदिताम् ॥२३॥करुणा सुरैः प्रतिपदानत याभवतः स्तुता सदपदानतया ।किमु मां भियाप्तमपदानतयाभजसे निरस्तविपदा न तया ॥२४॥तव दृग्जयत्यलसतां लसतांमदनस्य या व्यतनुताऽतनुताम् ।कुशलाय सा किल सतां लसतांनिबिडं शमप्यतनुता तनुताम् ॥२५॥यया भजन्ते भुवि मानवा हितांविभूतिमन्ते च विमानवाहिताम् ।यमं च याऽधाद्दलशो भयानकंतया दृशा पास्युरुशोभया न कम् ॥२६॥परमया रमया रहितस्य मेन रुचिरं रुचिरङ्गमिमं व्यधात् ।हर मयाऽरमयाचि भवानतःकुरु चिरं रुचिरञ्जनमेहि मे ॥२७॥इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टकृतेभगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ``रुचिरञ्जनाख्यं'' पञ्चविंशं स्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : January 30, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP