नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम्
स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.
मनः समाधौ परमान्तरङ्गं
विधाय निःस्पन्दमनुत्तरङ्गम् ।
बुधा विधातुं भवभीतिभङ्गं
विभुं भजध्वं गिरिजाभुजङ्गम् ॥१॥
पाश्यावशेनेव महाविहङ्गं
वल्गाबलेनेव महातुरङ्गम् ।
निरुध्य योगेन मनःप्लवङ्गं
विभुं भजध्वं गिरिजाभुजङ्गम् ॥२॥
मन्त्रौषधादिक्रियया भुजङ्गं
यथा यथा वागुरया कुरङ्गम् ।
मनस्तथाऽऽयम्य धियाऽस्तसङ्गं
विभुं भजध्वं गिरिजाभुजङ्गम् ॥३॥
भित्त्वाऽलिकं सभ्रुकुटीविभङ्गं
यस्याऽग्निरुद्यन्रभसादनङ्गम् ।
ददाह तं मोहतमःपतङ्गं
विभुं भजध्वं गिरिजाभुजङ्गम् ॥४॥
वहन्तमुद्दामभुजङ्गमङ्गं
जटाभरं निर्भरनाकगङ्गम् ।
विलोचनं चाग्निशिखापिशङ्गं
विभुं भजध्वं गिरिजाभुजङ्गम् ॥५॥
भवबन्धबद्धविधुरोद्धरणं
फणिमण्डलज्वलदलङ्करणम् ।
व्रजत क्षमाधरदरीशरणं
शरणं तुषारकिरणाभरणम् ॥६॥
कृतघस्मरस्मरनिराकरणं
कटुकालकूटकवलीकरणम् ।
व्रजत प्रपन्नजनताशरणं
शरणं तुषारकिरणाभरणम् ॥७॥
मरुमेदिनीरचितसञ्चरणं
त्रिदशेन्द्रशेखरसरच्चरणम् ।
व्रजत त्रिदुःखहरणस्मरणं
शरणं तुषारकिरणाभरणम् ॥८॥
प्रणतं जनं जितजरामरणं
रचयन्तमाप्तभवनिस्तरणम् ।
व्रजताऽऽहितत्रिपुरसंहरणं
शरणं तुषारकिरणाभरणम् ॥९॥
अवधूतमोहतिमिरावरणं
करिकृत्तिकल्पितपरावरणम् ।
व्रजत प्रकल्पितपुरेशरणं
शरणं तुषारकिरणाभरणम् ॥१०॥
तरुणतमालमलीमसनालं
ज्वलनशिखापटलोज्ज्वलभालम् ।
शिरसि लसत्परमेष्ठिकपालं
श्रयत विभुं हतकल्मषजालम् ॥११॥
नरमुखकल्पितशेखरमालं
नतजनजम्भितमोहतमालम् ।
नयनशिखाशतशातितकालं
श्रयत विभुं हतकिल्विषजालम् ॥१२॥
विषमविषाग्निशिखाविकरालं
फणिपतिहारमतीवविशालम् ।
गलभुवि बिभ्रतमुग्रसिरालं
श्रयत विभुं हतकल्मषजालम् ॥१३॥
विदलयितुं यमृते भवतालं
त्रिभुवनसीमनि कश्चन नाऽलम् ।
तममलमानसवासमरालं
श्रयत विभुं हतकिल्बिषजालम् ॥१४॥
कमलपरागपिशङ्गजटालं
जलधिसमर्पणतर्पितबालम् ।
भवभटभङ्गमहाकरवालं
श्रयत विभुं हतकल्मषजालम् ॥१५॥
अतिघस्मरभस्मरजोधवलं
नतलोकसमर्पितबोधबलम् ।
ध्वजधामविराजिमहाधवलं
भजत प्रभुमद्रिसुताधवलम् ॥१६॥
प्रभया परिभूतदलद्गवलं
गलमङ्गदरत्नशिखाशबलम् ।
दधतं विषकॢप्तमहाकवलं
भजत प्रभुमद्रिसुताधवलम् ॥१७॥
शिखरं द्युनदीलहरीतरलं
गलमूलमुपोढमहागरलम् ।
दधतं हृदयं च सुधासरलं
भजत प्रभुमद्रिसुताधवलम् ॥१८॥
अपनीतकुकर्मकलङ्कमलं
नतलोकवितीर्णमहाकमलम् ।
ददतं शुभसिद्धिविपाकमलं
भजत प्रभुमद्रिसुताधवलम् ॥१९॥
ददतं वचनं घनहासकलं
नमतां दलयन्तमघं सकलम् ।
भजतां च दिशन्तमभीष्टफलं
भजत प्रभुमद्रिसुताधवलम् ॥२०॥
अविरतनतिपरसुरवरशिखर-
प्रणिहितमणिगणमसृणितचरणम् ।
सितकरकरभरधवलितमुकुटं
प्रणमत पुरहरमशरणशरणम् ॥२१॥
भवभवपरिभवधुतविधुरधिया-
मधिगतशमदमनियमितमनसाम् ।
अभिमतवितरणपरिणतकरुणं
प्रणमत पुरहरमशरणशरणम् ॥२२॥
तनुतृणगणनिभमनसिजशमन-
प्रशमनपरिचितहुतवहमहितम् ।
परहितकृतमतिमतिमृदुहृदयं
प्रणमत पुरहरमशरणशरणम् ॥२३॥
दिनकरहिमकरहुतवहनयनं
पदकरकचभरधृतसितकिरणम् ।
विघटितनतजनघनतमतमसं
प्रणमत पुरहरमशरणशरणम् ॥२४॥
अविरलजलभरसुरसरिदुदय-
त्सरसिजभरनिभधृतनरशिरसम् ।
भवदवहुतवहविदलनजलदं
प्रणमत पुरहरमशरणशरणम् ॥२५॥
जहत कल्पितकलुषलोचनतिमिरभञ्जनमञ्जनं
त्यजत दुःस्थितहृदयनन्दनमलयचन्दनरञ्जनम् ।
भजत निर्जितविषमवैभवभवमहार्णवमज्जनं
क्षितिधराधिप दुहितृवल्लभचरणपङ्कजपूजनम् ॥२६॥
(क्षितिधरापतिपुत्रिकापतिपादपङ्कजपूजनम्)॥ २६॥
सकलकलिमलपटलपन्नगनिगडखण्डनपण्डितं
विशदशशधरशकलशोभितमुकुटमण्डनमण्डितम् ।
हृदयमीहितुमभयमुन्मदमदनदुर्नृपदण्डितं
भजतदुस्तरदुरितवारिधितर(वर)तरण्डमखण्डितम् ॥२७॥
जितसुधाकरगिरिसुताकरसरसिजादरलालितं
नतपुरन्दररुचिरशेखरकुसुमकेसररञ्जितम् ।
द्रुहिणमाधवकुमुदबान्धवकमलिनीधवसेवितं
वितर मूर्धनि चरणपङ्कजममृतशीकरशीतलम् ॥२८॥
अवटमज्जनजनिततर्जनवृजिनभञ्जनसाधनं
कृतनमज्जनहृदयरञ्जनचिरनिरञ्जनपूजनम् ।
त्रिपुरमारणदुरितदारणदरनिवारणकारणं
वितर मूर्धनि चरणपङ्कजममृतशीकरशीतलम् ॥२९॥
इदमकृत्रिमरसमसम्भृतबहुविधौषधसाधनं
स्तुतिरसायनमयमुपायनमनुगृहाण गृहाण मे ।
वरमुदाहर वरमुदा हर परमदाहरुजाहरं
वितर मूर्धनि चरणपङ्कजममृतशीकरशीतलम् ॥३०॥
इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``नतोपदेशस्तोत्रं'' नामैकत्रिंशं स्तोत्रं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : January 30, 2026

TOP