संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः| आशीर्वादाख्यं तृतीयं स्तोत्रम् स्तुतिकुसुमाञ्जलिः प्रस्तावना सूचिपत्रम् स्तुतिप्रस्तावना प्रथमं स्तोत्रम् नमस्कारात्मकं द्वितीयं स्तोत्रम् आशीर्वादाख्यं तृतीयं स्तोत्रम् मङ्गलाष्टकं चतुर्थं स्तोत्रम् कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् हराष्टकं षष्ठं स्तोत्रम् सेवाभिनन्दनं सप्तमं स्तोत्रम् शरणाश्रयणं अष्टमं स्तोत्रम् कृपणाक्रन्दनं नवमं स्तोत्रम् करुणाक्रन्दनं दशमं स्तोत्रम् दीनाक्रन्दनं एकादशं स्तोत्रम् तमःशमनं द्वादशं स्तोत्रम् प्रभुप्रसादनं त्रयोदशं स्तोत्रम् हितस्तोत्रं चतुर्दशं स्तोत्रम् करुणाराधनं पञ्चदशं स्तोत्रम् उपदेशनं षोडशं स्तोत्रम् भक्तिस्तोत्रं सप्तदशं स्तोत्रम् सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् हसितस्तोत्रं विंशं स्तोत्रम् अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् द्विपदयमकं चतुर्विंशं स्तोत्रम् रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् महायमकस्तोत्रं त्रिंशं स्तोत्रम् नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् ग्रन्थकर्तुर्वंशवर्णनम् आशीर्वादाख्यं तृतीयं स्तोत्रम् स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे. Tags : stuti kusumanjaliकुसुमाञ्जलिजगद्धर jagaddharस्तुति आशीर्वादाख्यं तृतीयं स्तोत्रम् Translation - भाषांतर नित्यं निरावृति निजानुभवैकमान-मानन्दधाम जगदङ्कुरबीजमेकम् ।दिग्देशकालकलनादिसमस्तहस्त-मर्दासहं दिशतु शर्म महन्महो नः ॥१॥व्योम्नीव नीरदभरः सरसीव वीचि-व्यूहः सहस्रमहसीव सुधांशुधाम ।यस्मिन्निदं जगदुदेति च लीयते चतच्छाम्भवं भवतु वैभवमृद्धये नः ॥२॥लोकत्रयस्थितिलयोदयकेलिकारःकार्य्येण यो हरिहरद्रुहिणत्वमेति ।देवः स विश्वजनवाङ्मनसातिवृत्त-शक्तिः शिवं दिशतु शश्वदनश्वरं वः ॥३॥सर्वः किलायमवशः पुरुषाणुकर्म-कालादिकारणगणो यदनुग्रहेण ।विश्वप्रपञ्चरचनाचतुरत्वमेतिस त्रायतां त्रिभुवनैकमहेश्वरो वः ॥४॥एकस्य यस्य सकलः करणानपेक्ष-ज्ञानक्रियस्य पुरतः स्फुरति प्रपञ्चः ।पश्यञ्जगत् करतलाऽमलकीफलाभंलाभं स पुष्यतु परं परमेश्वरो वः ॥५॥यः कन्दुकैरिव पुरन्दरपद्मसद्म-पद्मापतिप्रभृतिभिः प्रभुरप्रमेयः ।खेलत्यलङ्घ्यमहिमा स हिमाद्रिकन्या-कान्तः कृतान्तदलनो लघयत्वघं वः ॥६॥सेवानमन्निखिलखेचरमौलिरत्न-रश्मिच्छटापटलपाटलपादपीठः ।पुष्णातु धाम कपिशीकृतशैलशृङ्ग-त्वङ्गन्मृगाङ्कमधुराकृतिरीश्वरो वः ॥७॥अङ्गं भुजङ्गरचिताङ्गदभङ्गि तुङ्गंत्वङ्गत्तरङ्ग गगनाङ्गनसङ्गि गङ्गम् ।बिभ्रद्विभुर्विहितरङ्गदनङ्गभङ्ग-मङ्गीकरोत्वरमभङ्गुरमिङ्गितं वः ॥८॥यः कुण्डमण्डलकमण्डलुमन्त्रमुद्रा-ध्यानार्चनस्तुतिजपाद्युपदेशयुक्त्या ।भोगापवर्गदमनुग्रहमानतानांव्यानञ्ज रञ्जयतु स त्रिजगद्गुरुर्वः ॥९॥शम्भोरदभ्रशरदभ्रतुषारशुभ्रंभ्राजिष्णुभूतिभरशीभरभास्वराभम् ।दिश्याद्वपुर्भसलनीलगलं कलङ्का-लङ्कारशारदशशाङ्कनिभं शुभं वः ॥१०॥येनोपदिष्टमनपायमुपायमाप्यस्वर्गापवर्गविभवैर्विभवो भवन्ति ।देवः स वः सकलकर्मफलोपलम्भ-विस्रम्भभूमिरभिवाञ्छितसिद्धयेऽस्तु ॥११॥मूलोज्झितेन कलिकाकलितेन ताप-शान्तिक्षमेण नमतामविपल्लवेन ।सद्यःफलेन सुमनोभिरुपासितेनस्थाणुः श्रियेऽस्तु भवतां वपुषाऽद्भुतेन ॥१२॥दिव्यापगाप्लवनपावकसेवनाभ्यांविभ्रत्तनुं शुचिमपेतकलङ्कशङ्काम् ।दोषानुषङ्गरहितस्तिमिरोष्मशान्त्यैभूयाद्द्विजाधिपतिरीश्वरवन्दितो वः ॥१३॥दानाम्बुनिर्भरकरस्तनयः स यस्यश्रीमान् स यस्य धनदः सविधे विधेयः ।यः संश्रितः शिरसि मुक्तकरेण राज्ञापुष्णातु वः कनकवर्षघनः स देवः ॥१४॥निर्मत्सरौ निवसतः सममर्कचन्द्रौनीरानलावमृतहालहलौ च यत्र ।राज्ञा नवेन तदधिष्ठितमुज्ज्वलेनशार्वं वपुर्भवतु वाञ्छितसिद्धये वः ॥१५॥वक्ता च यः सुखयिता च विभुः श्रुतीनांवक्षः करं च वहते कमलाङ्कितं यः ।यो मूर्ध्नि वर्ष्मणि च हैमवतीं बिभर्तित्रैधं भवन् भवतु वः स शिवः शिवाय ॥१६॥तापत्रयाऽपहृतये त्रिशिखं त्रिवर्ग-सिद्ध्यै त्रिधामलयनं नयनत्रयं च ।त्रिःस्रोतसोऽपि सलिलं त्रिमलापनुत्यैभूयात्त्रिलोकमहितं त्रिपुरद्विषो वः ॥१७॥यद्दर्शनाऽमृतसुखानुभवेन धन्यानेत्रोत्पलानि चिरमर्धनिमीलितानि ।दृङ्मार्गगोचररवीन्दुकरप्रसङ्ग-भङ्ग्येव बिभ्रति शिवः शिवदः स वोऽस्तु ॥१८॥कालं दृशैव शमयन् सफलप्रयासंयः श्वेतमुत्तमचमत्कृतिकृच्चकार ।श्वेतं यशः प्रशमयन्नसतां सतां चकालं कृतार्थयति यः स शिवोऽवताद्वः ॥१९॥बभ्रुर्बिभर्त्यलिकपावकसौहृदं योयत्राहिरेति शिखिना सह सामरस्यम् ।जूटः स वः सममरातिभिरप्यमर्ष-मुक्तां स्थितिं प्रथयतु प्रमथाधिपस्य ॥२०॥अव्यात्स वः शिरसि यस्य विलोचनाग्नि-ज्वालावलीढसुरसिन्धुजलोपगूढः ।अद्यापि वाडवशिखापरिणद्धमुग्ध-दुग्धाब्धिमध्यग इव श्रियमेति चन्द्रः ॥२१॥अव्यात्स वः सुकृतिनामलिकेषु धूली-पट्टीकृतेषु पदरेणुभरेण यस्य ।धाताक्षराणि लिखति क्षितिपालमौलि-मालार्चिताङ्घ्रिकमलो भविता भुवीति ॥२२॥शैवी शिवं दिशतु शीतमरीचिलेखाजूटाहिरत्नकिरणच्छुरणारुणा वः ।देवी नवीननखलक्ष्मधिया पिधत्तेयत्सङ्क्रमं कुचतटे पटपल्लवेन ॥२३॥देव्यास्तदस्तु कुचचूचुकमिन्दुमौलि-देहार्धबद्धवसतेरमृताप्तये वः ।अभ्येति यन्मदनपूज्यसुवर्णपीठ-पृष्ठप्रतिष्ठितहरिन्मणिलिङ्गभङ्गिम् ॥२४॥याः क्षीरसिन्धुलहरीवृतमन्दराद्रि-मुद्रामनङ्गदमनस्य नयन्ति जूटम् ।द्विर्भाविताविरलसिद्धसरित्तरङ्गा-स्ता लङ्घयन्त्वघमघर्मरुचो रुचो वः ॥२५॥लोकत्रयाऽभ्युदयजन्ममही महीयःस्थानाधिरोहणविधावधिरोहिणी या ।सा चन्द्रचूडमुकुटध्वजवैजयन्तीजह्नोरनिह्नुतनया तनयाऽवताद्वः ॥२६॥भालाग्निकीलकलिताखिलरन्ध्रभागंभर्गस्य वो दिशतु शर्म शिरःकपालम् ।यत्कालवह्निवपुषः पचतः प्रभूत-भूतव्रजं व्रजति तस्य महानसत्वम् ॥२७॥चान्द्रं च धाम सुरनिर्झरिणी जलं चहस्तस्थहेमकलशाऽमृतजीवनं च ।स्निग्धं च दृग्विलसितं हसितं सितं चयुष्माकमूष्मशमनाय भवन्तु शम्भोः ॥२८॥मूर्ध्नि द्युसिन्धुधवले धवलेन्दुलेखाकैलासशैलशिखरे धवलश्च वाहः ।नीहारहारिणि वपुष्यपि भूतिरेषापुष्णातु वः सदृशसङ्घटना शिवस्य ॥२९॥उत्तप्तहेमरुचि चन्द्रकला कलापेबालप्रवालरुचिरे च करे कपालम् ।ताम्रेऽधरे च हसितं सितमद्भुतेयंविच्छित्तिरिन्दुशिरसः कुशलं क्रियाद्वः ॥३०॥श्रेयः प्रयच्छतु परं सुविशुद्धवर्णापूर्णाभिलाषविबुधाधिपवन्दनीया ।पुण्या कविप्रवरवागिव बालचन्द्र-चूडामणेश्चरणरेणुकणावली वः ॥३१॥हारीकृतोल्बणफणीन्द्रफणेन्द्रनील-नीलच्छविच्छुरणशारमुरःस्थलं वः ।पुष्णातु निह्नु तनगेन्द्रसुताकुचाग्र-कस्तूरिकामकरिकाकिणमिन्दुमौलेः ॥३२॥युष्माकमस्तु नवनीलसरोजदाम-श्यामद्युतिः सुमतये शितिकण्ठकण्ठः ।यः केतकीधवलवासुकिभोगयोगा-द्नाङ्गौघभिन्नगगनाङ्गनभङ्गिमेति ॥३३॥क्षीरार्णवस्य चरणाब्जतले निवास-मासेदुषस्तनयमप्रतिमप्रसादः ।यो मूर्ध्नि लालयति बालमसौ दयाब्धि-र्देवस्तनोतु मुदमाश्रितवल्लभो वः ॥३४॥या राजहंसशिखिसम्भृतकान्तिरेतिसद्यस्तिरोहितघनावरणा प्रसादम् ।सा प्रावृडन्तशरदादिदिनेष्विव द्यौःशम्भोरभीष्टफलपाककृदस्तु दृग्वः ॥३५॥अन्तर्धृताहिमकरज्वलनोदितेन्दुःस्वःसिन्धुसङ्गसुभगा परमेश्वरस्य ।औदन्वतीव तनुरस्तु गजाश्वरत्न-श्रीलाभकृत्सुमनसाममृताय दृग्वः ॥३६॥यत्राग्निरीप्सति कणं न विवृत्य जिह्वांनैति प्रतिक्षपमपेतवसुस्तमर्कः ।क्षीणस्तमिन्दुरपि न श्रयति श्रियेऽस्तुश्रीधाम तत्पुररिपोर्नयनत्रयं वः ॥३७॥अर्कस्य नोदगयनं शिशिरेऽपि यत्रशीतत्विषो न बहुलेऽपि कलापलापः ।क्षामं च धाम न वहत्यपि वह्निरह्नितत्त्रायतां पुररिपोर्नयनत्रयं वः ॥३८॥यामाश्रितोऽम्बरमणी रमणीयधामाकामान्तकावनलसाऽनलसाद्व्यधाद्या ।यापीन्दुसम्भवसुधावसुधा दृशस्ताःशर्वस्य वः शिवपुषो वपुषो भवन्तु ॥३९॥पुष्णातु वः प्रथमसङ्गमभीरुगौरी-विस्रम्भणप्रणयभङ्गभयाकुलस्य ।तत्कालकार्यकरदर्पकदेहदाह-जातानुतापमुरगाभरणस्य चेतः ॥४०॥जूटे कपालशकलानि कलानिधिश्चहस्ते सुधाम्बु सरलं गरलं गले च ।शक्रादिभिश्च नमनं गमनं गवा चयस्यास्तु दुर्गतिहरः स हरः सदा वः ॥४१॥यस्य क्षितिः शिरसि सौमनसीव शेषाशेषाहिरङ्गदपदे स चकास्ति यस्य ।तस्य प्रभोरमृतनिर्झरनिर्विशेषा-शेषाणि हन्तु दुरितानि सरस्वती वः ॥४२॥श्रीमानकल्पत न कल्पतरुर्यदाप्त्यैतृष्णा रसायनरसाय न यं समेत्य ।लभ्यो न यो गहनयोगहवैः स वोऽघ-मप्राकृतो हरकृतो हरतु प्रसादः ॥४३॥मुक्तिर्हि नाम परमः पुरुषार्थ एक-स्तामन्तरायमवयन्ति यदन्तरज्ञाः ।किं भूयसा भवतु सैव सुधामयूख-लेखाशिखाभरणभक्तिरभङ्गुरा वः ॥४४॥स यत्र गुहबर्हिणो भवभुजङ्गजिह्वाञ्चनै-र्गजास्यकरकर्षणैः स च गिरीन्द्रकन्याहरिः ।स चार्कसुतसैरिभो रवितुरङ्गहेषारवै-र्मुदं दधति धाम तद्दिशतु शाम्भवं धाम वः ॥४५॥यस्मिञ्जातस्त्रिभुवनजयी भग्नकामः स कामोयस्मिंल्लेभे शलभलघुतां प्राप्तकालः स कालः ।यस्यौघो न प्रभवति महोनिह्नवे जाह्नवीयःश्रेयः प्रेयः प्रथयतु स वः शाम्भवो दृक्त्रिभागः ॥४६॥यः क्रोधाग्नेः समिधमकरोद्दर्पकं दर्पकन्द-च्छेदाभिज्ञं व्यधित जगतां यः कृतान्तं कृतान्तम् ।नेतुं यश्च प्रभवति मतिह्रासमस्तं समस्तंनिष्प्रत्यूहं प्रथयतु पथि त्रासदे वः स देवः ॥४७॥पायाद्वस्त्रिजगद्गुरुः स्मरहरः सोपग्रहाणां शिरःश्यामाकामुकमत्सरेण चरणौ पङ्क्तिर्ग्रहाणामिव ।यस्य प्रह्वसुरासुरेश्वरशिरोमन्दारमालागल-त्किञ्जल्कोत्करपिञ्जरोन्मुखनखश्रेणीनिभेनाश्रिता ॥४८॥अर्केन्दुभौमबुधवाक्पतिकाव्यमन्दामन्दारकुन्दकुमुदैर्यमुदर्चयन्ति ।तस्य प्रभोरघमलोष्मशमादमन्दामन्दाकिनीव मुदमर्पयतु स्तुतिर्वः ॥४९॥भस्मोद्धूलितमूर्तिरिन्दुधवलज्योतीरसोर्वीधर-स्कन्धासक्ततुषारगौरवृषभारूढोऽस्तु भद्राय वः ।देवो दुग्धमहाब्धिमध्यविकसत्सत्पुण्डरीकोपरि-क्रीडद्बालमरालनिर्मलरुचिः कात्यायनीकामुकः ॥५०॥त्राता भीतिभृतां पतिश्चिदचितां क्लेशं सतां शंसतांहन्ता भक्तिमतां मतां स्वसमतां कर्ताऽपकर्ताऽसताम् ।देवः सेवकभुक्तिमुक्तिघटनाभूर्भूर्भुवःस्वस्त्रयी-निर्म्माणस्थितिसंहतिप्रकटितक्रीडो मृडः पातु वः ॥५१॥कृष्णेन त्रिजगत्प्रसिद्धविजयप्रख्यातिना लोचनंभक्त्या वासवसूनुना कृतवता पादाब्जपूजाविधौ ।यस्मादाप्तसुदर्शनेन निखिलं विश्वं विधेयीकृतंकृष्णेनेव स धूर्जटिर्घटयतु श्रेयांसि भूयांसि नः ॥५२॥श्रीकण्ठस्य सकृत्तिकार्तभरणी मूर्तिः सदारोहिणीज्येष्ठा भद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता ।दिश्यादक्षतहस्तमूलघटिताषाढा मघालङ्कृताश्रेयो वैश्रवणाश्रिता भगवतो नक्षत्रपालीव वः ॥५३॥भिन्द्धि क्ष्माधरसन्धिबन्धमुदधेरम्भोभरं जृम्भयक्षुन्द्धि क्ष्मापटलं दलत्फणिफणापीठीलुठत्सौष्ठवम् ।पिण्ड्ढि प्रौढचपेटपाटितरटत्ताराकुटुम्बं नभःप्रारब्धोद्धतसान्ध्यताण्डव इति श्रीभैरवः पातु वः ॥५४॥भूत्यै वोऽस्तु विडम्बितस्मितरुतं मूर्ध्नोधृतस्वर्धुनी-निध्वानध्वनदाननैरभिनये भूषाकपालैः प्रभोः ।त्वङ्गत्तुम्बुरुनारदाहतनदद्गम्भीरभेरीरव-व्यावल्गद्गुहवाहबर्हिविहितक्रीडानुसारं वपुः ॥५५॥आदौ पादतले कृतस्थितिरथो(अथ)प्राप्तः करालम्बनंवाल्लभ्यं शुभदृङ्निवेशनवशोत्पन्नं प्रपन्नस्ततः ।अन्ते येन शिरोधिरोपणमहामाहात्म्यमाप्तो विधु-र्भूत्यै स क्रमवर्द्धमानमहिमा स्वामिप्रसादोऽस्तु वः ॥५६॥यस्यैकस्य सुवर्णसम्भृतपदन्यासानवद्यक्रम-व्यक्तिः प्रेङ्खति गौरनर्गलगतिस्वाच्छन्द्यहृद्याकृतिः ।प्रख्याताद्भुतसर्गबन्धरचनासंरब्धिरोजस्विनःकाव्यस्योदयभूरसौ भवतु वः प्रीत्यै पुराणः कवि ॥५७॥राकेन्दोरपि सुन्दराणि हृदयग्राहीणि बालाङ्गना-मुग्धालापकथामृतादपि परं हारीणि हारादपि ।अप्युत्तालशिखालबालवचसः सम्पूर्णकर्णामृत-स्यन्दीनि त्रिजगद्गुरोः स्तुतिकथासूक्तानि पुष्णन्तु वः ॥५८॥शाणोल्लीढनवेन्द्रनीलमहसि श्रीकण्ठकण्ठस्थलेसंसक्ता कनकच्छविर्गिरिसुतादोःकन्दली पातु वः ।यामालोक्य सनीरनीरददलश्लिष्यत्तडिद्विभ्रम-भ्रान्त्या नोज्झति चण्डताण्डवनवोल्लेखं शिखी षाण्मुखः ॥५९॥यत्सर्गाभरणायमानवपुषः केचित्ककुप्कामिनी-कर्णालङ्करणायमानयशसः स्वर्गायमाणश्रियः ।दुष्कालानलसन्नसज्जनसुधावर्षायमाणोक्तयःप्रेक्ष्यन्ते महिमा स यस्य कुरुतां शार्वः स्तवः शं स वः ॥६०॥इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचितेभगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ``आशीर्वादाख्यं'' नामकं तृतीयं स्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : January 30, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP