संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः|
महायमकस्तोत्रं त्रिंशं स्तोत्रम्

महायमकस्तोत्रं त्रिंशं स्तोत्रम्

स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.


शारदीमिव नदीं प्रसादिनी-
मुच्चकैरवसरोजराजिताम् ।
स्तोतुमेष मम मूर्तिमैश्वरी-
मुच्चकैरवसरोऽजराजिताम् ॥१॥

रोहिणीरमणखण्डमण्डनं
नन्दिनन्दिनमनं दिनं दिनम् ।
नौमि बिभ्रतमुपोढकालिका-
सङ्गमं गलमसङ्गमङ्गलम् ॥२॥

नौमि भक्तजनकण्ठनिःसर-
न्नादरञ्जितमकालकामदम् ।
कालकामदमनादरं जित-
क्लेशमीशममृतांशुशेखरम् ॥३॥

भ्राम्यतु द्रविणतृष्णया भृशं
मानसं सदिनमानसंसदि ।
त्वत्स्तवामृतमृते तु दुस्तरे
बन्धुरध्वनि न बन्धुरध्वनि ॥४॥

साधु नाथ नुतिरीप्सया मया
या मयार्चित कृतात्र साधुना ।
सा धुनातु विपदं भवामया-
यामयापनलसद्रसाऽधुना ॥५॥

न मेऽभिभूतस्य पिता न माता
न वा सनाभिर्धनवासनाभिः ।
अरिस्तु रुन्धे सुहृदा वियुक्तं
समाधिना मानसमाधिनामा ॥६॥

दर्पकान्तक विराजमानया-
ऽदर्पकान्तकविराजमानया ।
त्वत्प्रसादविधिलब्धया धिया
साधवो दधति वैबुधीं धुरम् ॥७॥

येन शीतकरखण्डशेखर
त्वत्प्रसादवशतः करोत्करः ।
कोऽपि तामरसभासनोऽर्जितः
कोपिताऽमरसभासनोर्जित ॥८॥

रविरलङ्कुरुते नवरञ्जनं
स किल यत्तव दक्षिणमीक्षणम् ।
इममपास्य तमः सहजं शनै-
रविरलं कुरु तेन वरं जनम् ॥९॥

महतामतामसमहावपुषं
तव भक्तिमर्थितवतां भगवन् ।
महतामतामसमहावपुषं
प्रथयन्ति कीर्तिमिह सिद्धगणाः ॥१०॥

अध्यास्यते शमजुषा भवतः प्रसादा-
दामोदराजितरुचारु चिरं जनेन ।
दामोदराजितरुचा रुचिरञ्जनेन
कीर्णं तृणेन मृदुना वनमार्तवेन ॥११॥

तव सवहरिणं घ्नती महर्षिं
यमकृत चापलता नवासमाधिम् ।
पुनरपि दृगलम्भयत्तवैनं
यमकृतचापलतानवा समाधिम् ॥१२॥

सभाजनेऽनल्परतेर्नृपस्य
त्वद्भक्तिभाजः प्रसभाजनेन ।
सभाजनेन प्रगुणेन पूर्णा
विभाति निःश्रेयसभाजनेन ॥१३॥

अनन्तराऽयन्त्रितवाग्भवस्त्वां
गृणाति यो नित्यमनन्तरायम् ।
अनन्तरायं स्वयमेत्य लक्ष्मी-
र्निषेवते तं समनन्तरायम् ॥१४॥

सहो मयाद्यैरपि यस्य दुर्धरं
यमः स धर्तुं हृदि दुःसहो मया ।
सहोमयाऽभ्येत्य भज प्रसन्नया
दृशा कृतानङ्गभुजांसहोमया ॥१५॥

कले वरं दातुमुदीरितेऽस्ति या
सुधा सुवाक्ये तव निष्कले वरम् ।
कलेव रङ्क्वङ्कतनोरसौ कदा
ममेदमाप्याययते कलेवरम् ॥१६॥

सदानवारिद्विरदा वरूथिनी
हरेरिव ध्वस्तसहिंसदानवा ।
सदा नवाराद्धशिवा शिवाप्तये
न कस्य गीर्भक्तिविकासदा नवा ॥१७॥

घनैरहन्ताकृतलङ्घनैरहं
महारिभिर्निर्मलशर्महारिभिः ।
निराकृतौजा धृतहानिराकृतौ
न तेऽवलेपावसरो नतेऽबले ॥१८॥

मनस्यदोषेऽप्यतिदौर्मनस्यदो
महारयः पन्नगभीमहार यः ।
तमन्तकम्पैकनिमित्तमन्तकं
नयाशु भङ्गं हतदुर्नयाशुभम् ॥१९॥

न वारबाणा न हया नवारवा
न दन्तिनः सद्मनि वा नदन्ति नः ।
क्षतापदाज्ञा तु विपक्षतापदा
जितो भवः साधु हि पूजितो भवः ॥२०॥

जलाशया यान्ति मृगा जलाशया
मरावलङ्घ्ये घ्नति पामरा बलम् ।
परं हसन्तो जितकोपरंहसं
जना भवेऽप्युज्झितपूजना भवे ॥२१॥

अमन्दरागाश्रितमन्दरागा-
स्ते देवजाताविह देव जाताः ।
ये सिद्धसाध्यार्चित सिद्धसाध्या
रता नवं तेनुरतानवं ते ॥२२॥

सदय मोदय मोदयमोक्षदं
कृशमदः शमदः शमदः कुरु ।
न हि तता हितताऽऽहिततायनैः
कृतनुते तनु ते तनुते शुभम् ॥२३॥

रसमये समयेऽसमयेहया
धनमहीनमहीनमहीष्वपि ।
कृतमुदात्तमुदात्तमुदाहृतं
तदिदमापदमाप दमापहम् ॥२४॥

मदनवादनवादनवासना-
यतनयातनया तनयाऽम्बुधेः ।
अकृत वै कृतवैकृतवैशसा
सकमला कमला कमलाघवम् ॥२५॥

कमलयाऽमलया मलयाद्रिव-
त्त्रसदयासदया सदयाप्यया ।
प्रवरधीवर धीवर धीरया
कलयमाऽलयमालयमापदाम् ॥२६॥

वितरणाभरणा भरणाभय-
क्षममना मम नाम मनागपि ।
शुभवने भवने भव नेप्सित-
प्रद रमाऽदरमादरमादधे ॥२७॥

अनयतो नयतो न यतो धृति-
प्रद यमादयमादयमाश्रितः ।
त्रसति शंसति शंसति शं च यो
धृतमुदं तमुदन्तमुदञ्चय ॥२८॥

शुभवता भवता भवतारिणा
शकलिताऽकलिता कलितापभूः ।
हर कृतान्तकृतान्तकृतान्त नो
किममता ममता मम तादृशी ॥२९॥

विशदशोभयशोभय शोभय
त्रिजगदक्षमदक्षमदक्षम ।
स्वपदमानय मानय मा नय-
क्षतसमक्षयमक्षयमक्षय ॥३०॥

घनाऽघनाशनैः शनैर्नवैर्नवैरिहाऽरिहा ।
भवान्भवाऽन्वहं वहन्नहीनहीनदानदाः ॥३१॥

दयोदयोर्जितोऽर्जितो मयोमयोचितश्चितः ।
यतेय ते हितेहिते रवैरवैरधीरधीः ॥३२॥

तवात्तबाधने धने गदं गदन्ति केऽन्तिके ।
मयाऽऽमयाविना विना विभो विभोजना जनाः ॥३३॥

स्तवास्तवाऽऽहिता हिता न केन केवलं बलम् ।
शुभाऽऽशु भारती रतीशनाशनाऽऽपदापदा ॥३४॥

नतानतानवानवारितारितापदं पदम् ।
हराहरामि तेऽमिते शमे शमेवमेव मे ॥३५॥

पराऽपराधबान्धवाः सवासवाः सुरासुराः ।
सदा सदानमानमाश्रयं श्रयन्ति यन्ति यम् ॥३६॥

स मा समाहितं हितं बताऽवतादमन्दमम् ।
कलङ्कलङ्घने घने ह्यबाह्यवासनः स नः ॥३७॥

अलं घना अलङ्घनास्तपस्यतस्तपस्यतः ।
तनुर्हि मेऽतनुर्हिमेऽङ्गतानवं गता नवम् ॥३८॥

मलमलक्षवलक्षबलस्मर-
स्मरणकारणकार कदङ्कदम् ।
हर हरस्व भजस्व भजन् दिशं
दिश विभासविभासदृशं दृशम् ॥३९॥

भवसम्भवसंहतमोहतमो-
दमनेदमनेकमशङ्कमशम् ।
सविकासविकारचित्तं रचितं
हर मे हर मेदुरितं दुरितम् ॥४०॥

कृपणं भगवन् बहुशोऽभिहितं
बहुशोभि हितं दिश मे वचनम् ।
दिशमेव च नन्दितमानस तां
दितमान सतां न पतामि यतः ॥४१॥

मन्यामहे गतिमृते त्वयि भक्तिमन्या-
मन्यायगां तव दृशैव तमःशमन्या ।
मन्याभिधाभृति नतिं सहते धमन्या-
मन्याभिधेषु नहि धीरभिमानिमन्या ॥४२॥

माऽनारतं निजपरैरुपभुज्यमाना
मानातिवृत्तविभवाऽन्वहमेधमाना ।
मा नाथ भूद्भवतु धीरभिनन्द्यमाना
मानाऽलसैः सुहृदरातिषु मे समाना ॥४३॥

दोषारयस्तरलयन्ति महामदोषा
दोषा धृतिं हरति मोहमयप्रदोषा ।
दोषाकराङ्कवपुरेष्यति मां कदोषा
दोषात्तकण्ठमनिरुद्धमिवोन्मदोषा ॥४४॥

का रामणीयककृतेन्दुकरानुकारा-
कारा विना तव कृपां प्रथितोपकारा ।
कारागृहेऽत्र भवनामनि मोचिका रा-
काराजखण्डशिखर क्षपितान्धकारा ॥४५॥

काशान्तचित्तधृतमुक्तिपथाऽवकाशा-
काशान्तवर्तिरविवत् प्रचुरप्रकाशा ।
काशावकीर्णखिलतुल्यकृतान्तकाशा
का शाम्भवीं दृशमृते भृतसेवकाशा ॥४६॥

कां तापतान्तिमुपयान्ति शुचौ न कान्ताः
कान्तावलम्बितकराः स्खलितांशुकान्ताः ।
कान्ता हठाद्वनचरैर्मृदितालकान्ताः
कान्तारगास्त्वदनुरक्तनृपारिकान्ताः ॥४७॥

मायाऽर्करश्मिपटलीं मरुक्षमाया-
मायासमर्पयति मे दुरितक्रमा या ।
मायाः पदं तव कृपाऽत्र महातमाया-
मायात्युषेव हि कदा कलितोत्तमाऽयाः ॥४८॥

रामादिसेव्यभवभक्तिभृतोऽभिरामा-
रामाश्रितौषधिरिव क्षतदुस्तरामा ।
रामा सतीव कृतसाधुविपद्विरामा
रा मान्यमुज्झति न सद्म न चाऽस्थिरा मा ॥४९॥

वारान्निधेरिव सुधा तव दुर्निवारा
वाराणसीव दृगघक्षयकृद्ध्रुवारा ।
वाराङ्गनेव पृतनेव च साश्ववारा
वारानुवारमुदयत्युरुकूर्चवारा ॥५०॥

भद्राभिधे गज इवेशमकॢप्तभद्रा
भद्रासनेऽर्चितवतः कृतभालभद्रा ।
भद्रा सिता तिथिरिवेप्सितदा विभद्रा
भद्रा तनुर्गुणविडम्बितरामभद्रा ॥५१॥

नाऽगाधमाप तव हृन्मम धीरनागा
नागालयं सुरपुरीव सकाञ्चनागा ।
नाऽगात् परत्र च सृजन्त्यकदर्थना गा
नागाश्रितेन्द्रदिगिवोन्नतनन्दनागा ॥५२॥

सारासहाऽपि मम धीस्त्वयि मन्दसारा
साराधना विहितमोहतमोऽभिसारा ।
सारावकोकिलवचःसमसूक्तिसारा
सारावलीव गुरुतापकृतापसारा ॥५३॥

सामात्यभूपसदसीक्षितसूक्तिसामा
सामाजिकाहितनुतिः कृतसेर्ष्यसामा ।
सामान्यवर्त्म न ययाश्रयमोजसा मा
सा मान्यता त्वयि विभो मुचदञ्जसा मा ॥५४॥

धारा गिरेरिव तरीव सकर्णधारा-
धाराऽर्पणी तव दृगूषरवर्षधारा ।
धारापुरीव सुखदा दुरितासिधारा
धारा परार्तिहरणे हतषड्विधारा ॥५५॥

कालायसोपमरुचिर्गलभूः सुकाला
कालाग्निवद्दृगपि ते क्षणदग्धकाला ।
काला यथोक्तिरमृदुः क्षतसेवकाला
का लाभकृन्मम विनाऽऽभिरनन्तकाला ॥५६॥

मुक्तार्पितस्वपदपूर्णकृपाऽविमुक्ता
मुक्तार्चनादिरतिनाऽऽर्किभयाद्विमुक्ता ।
मुक्तावलीव विमला त्वयि गीरमुक्ता
मुक्तान्यमार्गगमनेन मयेयमुक्ता ॥५७॥

कल्पाह्ववल्लिरिव धौतविपद्विकल्पा
कल्पाञ्चिता कृतनुतिर्भवतीन्दुकल्पा ।
कल्पाख्यसूत्रविदुरागमदृष्टकल्पाऽऽ-
कल्पाक्षयाऽस्तु मम गीरमृतानुकल्पा ॥५८॥

सहसाऽर्क इवाऽस्मि कृतः सहसा-
ऽसहसारभृदात्मभुवा सहसा ।
स ह सायकमस्यति या सहसा
सहसाध्वसमेत्यपि दुःसहसा ॥५९॥

जनयाऽशुचमार्तमभाजनया-
जनयाचनरञ्जनवेजनया ।
जनयामलखिन्नमखञ्जनया-
ऽजनयाऽमृतमात्मनियोजनया ॥६०॥

शमनाय शुचां त्वमुमेश मनाक्
शमनार्तिकरः कृतभीशम ना ।
शमनामय देहि विपाशमना-
शमनाथजनप्रथिताशमनाः ॥६१॥

मधुनाशिनाऽर्चित समं मधुना
मधुनामपुष्पजनुषा मधुना ।
मधुनाऽलसामिव वधूमधुना-
मधुनाप्लुतां त्वयि गिरं मधुना ॥६२॥

वसु धान्यमुज्झितुमपीवसु धा-
व सुधासितच्छवियशोवसुधा ।
वसुधातृवन्द्य यदसावसुधा
वसुधाम दृक्तव नवेव सुधा ॥६३॥

समयासिषुः क्व न विकासमयाः
समयापतिं जगति यं समया ।
समया भवन्ति च विलासमयाः
स मया गिराऽर्च्यत सुधासमया ॥६४॥

कलिकालताम्यदमृतोत्कलिका
कलिकातरे हृदि नवोत्कलिका ।
कलिका स्रजीव जितशाकलिका-
ऽकलि कान्तिभृच्च मुकुटे कलिका ॥६५॥

कलयाऽऽश्रितं विरुजमेकलया
कलया विधोर्दलितपाकलया ।
कलया गिरा च सकलाऽकल या
कलया विना विहितशोकलया ॥६६॥

परमारकाऽन्तककृतोपरमा-
ऽपरमानतं तव दृशाऽऽप रमा ।
परमार्थसद्गुणपरम्पर मा
परमार्त्तमुज्झ करुणापर मा ॥६७॥

कलकलकलकलकण्ठवदस्मा-
नव नवनवनवरोचितवाचः ।
भव भव भवभवभीतिभिदस्य-
न्मदमदमदमदनाऽन्तक दूरम् ॥६८॥

अविकलकल कलकलकलकण्ठं
दिश नवनवनवनवन वरवचः ।
सविभव भव भव भवभवभयभि-
द्धर मदमदमदमदमदयमिमम् ॥६९॥

देव्यां भ्रमद्भ्रुवि जयाविजयार्चितायां
सक्ता तवाऽस्तविजया विजयाय दृष्टिः ।
वृष्ट्येव भूर्दिविजया विजयाख्यया ते
मूर्त्त्या त्रसद्रविजयाऽऽवि जयाह्वया च ॥७०॥

हरमुपेत रसादमलं घनं
दमलङ्घनं तनुत मा कृतिनः ।
तनुतमाकृति नः श्रयताऽऽदृतं
श्रयतादृतं भवत इत्युदितम् ॥७१॥

शमितसङ्गमसज्जनतापदं
शमितसङ्गमसज्जनतापदम् ।
नमतकाममहीनविभासितं
नमत काममहीनविभासितम् ॥७२॥

कलितमोहनमारवराजितं
स्मर हरं शिखिचन्द्रकलाञ्छितम् ।
कलितमोहनमारवराजितं
स्मरहरं शिखिचन्द्रकलाञ्छितम् ॥७३॥

असौ हृदन्तर्हितमोहरोधने
सदा यते रक्ष यशो भियो जय ।
असौहृदं तर्हि तमोहरो धने
सदायतेरक्षयशोभि योजय ॥७४॥

सकलशं सकपालमलङ्कृत-
प्रमदमस्थिरसं मदनाशनम् ।
भवमदभ्रमहानिधने हितं
शमनमज्जनमानमताऽलयम् ॥७५॥

सकलशंसकपालमलं कृत-
प्रमदमस्थिरसम्मदनाशनम् ।
भवमदभ्रमहानिधनेहितं
शमनमज्जनमानमतालयम् ॥७६॥

तनुशङ्करवैरसमाऽयतया-
ऽतनु शङ्कर वै रस माऽयतया ।
तनु शं करवै रसमायतया-
ऽतनुशं कर वैरसमायतया ॥७७॥

प्रकाशकलितापदं शकलितापदं शंसता-
मसारसमये हितं रसमयेहितं शङ्करम् ।
हृदि स्मरत रङ्गितं स्मरतरङ्गितं शान्ततां
नयन्तमसमानसन्तमसमानसं चान्तकम् ॥७८॥

इयं विचित्रताविराजिता मया मनोहरा
जितामया मनो हराऽऽहिता नुतिर्धिनोतु ते ।
त्वयि प्रसन्नमानसेऽसमस्तमोहराशये
समस्तमोहराशये करोमि न स्पृहां पुनः ॥७९॥

कान्ता कान्तारमध्ये सरिदिव सकुलक्ष्माधरायां धरायां
याता या तारतम्यं क्व न विमलमतिप्रेक्षणेन क्षणेन ।
साभासा भारतीयं तनुरिव तरणेरन्धकारेऽन्धकारेः
स्तुत्या स्तुत्या बुधानां मदयतु हृदयं ग्लानितान्तं नितान्तम् ॥८०॥

वर्षावर्षायमाणा सहृदयशिखिनां संहितानां हितानां
दात्री दात्री तृणानामिव लवनपटुर्दुष्कृतानां कृतानाम् ।
कल्या कल्याणदाने नुतिरियमशुभं तर्जयन्ती जयन्ती
विश्वं विश्वम्भरान्तं प्रसरतु सुरभीनन्दनस्यन्दनस्य ॥८१॥

इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``महायमकस्तोत्रं'' नामकं त्रिंशं स्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : January 30, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP