संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः|
हराष्टकं षष्ठं स्तोत्रम्

हराष्टकं षष्ठं स्तोत्रम्

स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.


जयत्यखिलखेचरप्रवरमौलिरत्नप्रभा-
प्ररोहपरिपीवरीकृतनखांशुपादाम्बुजः ।
विशालनयनत्रयीरचितधामधामत्रयी-
तिरस्कृतजगत्रयीपरिणतान्धकारो हरः ॥१॥

जयत्यमरदीर्घिकासलिलसेकसंवर्धित-
प्रचण्डनयनानलग्लपिततीव्रतापव्यथः ।
अचिन्त्यचरितोज्ज्वलज्वलदनन्यसाधारण-
प्रभावमहिमाहितत्रिभुवनापकारो हरः ॥२॥

जयत्यचलकन्यकाललितदोर्लतालिङ्गित-
स्फुरद्गरलकालिमाकलितकान्तकणठस्थलः ।
तडिद्वलयलङ्घितोल्लसदमोघमेघभ्रम-
प्रमत्तगुहबर्हिणोपहृतनृत्तहर्षो हरः ॥३॥

जयत्यविरलोच्छलद्गरलवह्निहेतिच्छटा-
सटालफणभीषणक्षपणपाशमोक्षक्षमः ।
उदारकरुणारसप्रसरसारसिक्ताशयः
प्रपन्नविपदर्णवोत्तरणकणधारो हरः ॥४॥

जयत्युदधिनिःसरद्गरनिगारलब्धाऽभय-
प्रमोदभरनिभरत्रिदशदैत्यवृन्दस्तुतः ।
रसातलतलोद्गतज्वलदलङ्घ्यलिङ्गाल्लस-
न्महामहिममोहितद्रुहिणवासुदेवो हरः ॥५॥

जयत्यतुलविक्रमोन्मिषदखर्वगर्वज्ज्वर-
ज्वलच्चपलमन्मथोन्मथनभग्नभोगस्पृहः ।
दशास्यभुजमणडलीतरलितैकपिङ्गाचल-
त्रसद्गिरिसुताहठग्रथितकणठपीठो हरः ॥६॥

जयत्यकलितोल्लसन्मदभरोद्धरान्धासुर-
प्रतिष्करणसान्त्वनप्रथितनिग्रहाऽनुग्रहः ।
जगत्त्रयभयङ्करत्रिपुरघोरदावावली-
सलीलकवलीकृतिप्रलयवारिवाहो हरः ॥७॥

जयत्यघवनाशनिः सुमतिमाधवीमाधवः
कृपामृतपयोनिधिर्भवमहार्णवैकप्लवः ।
विपत्तृणसमीरणः प्रणयिचित्तचिन्तामणिः
समस्तभुवनोदयप्रलयकेलिकारो हरः ॥८॥

॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``हराष्टकं'' नाम षष्ठं स्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : January 30, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP