संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः| स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः प्रस्तावना सूचिपत्रम् स्तुतिप्रस्तावना प्रथमं स्तोत्रम् नमस्कारात्मकं द्वितीयं स्तोत्रम् आशीर्वादाख्यं तृतीयं स्तोत्रम् मङ्गलाष्टकं चतुर्थं स्तोत्रम् कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् हराष्टकं षष्ठं स्तोत्रम् सेवाभिनन्दनं सप्तमं स्तोत्रम् शरणाश्रयणं अष्टमं स्तोत्रम् कृपणाक्रन्दनं नवमं स्तोत्रम् करुणाक्रन्दनं दशमं स्तोत्रम् दीनाक्रन्दनं एकादशं स्तोत्रम् तमःशमनं द्वादशं स्तोत्रम् प्रभुप्रसादनं त्रयोदशं स्तोत्रम् हितस्तोत्रं चतुर्दशं स्तोत्रम् करुणाराधनं पञ्चदशं स्तोत्रम् उपदेशनं षोडशं स्तोत्रम् भक्तिस्तोत्रं सप्तदशं स्तोत्रम् सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् हसितस्तोत्रं विंशं स्तोत्रम् अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् द्विपदयमकं चतुर्विंशं स्तोत्रम् रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् महायमकस्तोत्रं त्रिंशं स्तोत्रम् नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् ग्रन्थकर्तुर्वंशवर्णनम् स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे. Tags : stuti kusumanjaliकुसुमाञ्जलिजगद्धर jagaddharस्तुति स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् Translation - भाषांतर इह हि स्वात्ममहेश्वरपरिभावनशुद्धसंविदः सुधियः ।कमलदलानि जलैरिव बहिरावरणैर्न लिप्यन्ते ॥१॥कविमुखकमलोपवने कृतवसतिर्जयति सूक्तिकल्पलता ।या फलति भुक्तिमुक्ती शिवभक्तिसुधारसासेकैः ॥२॥जय जय हर रक्ष भयादेवं देवं शिवं शिवं लब्धुम् ।यः स्तौति तस्य सफलः सारः सारस्वतः स्वतः स्फारः ॥३॥शिव शिव शङ्कर शङ्कर भवगतिरिति यः प्रलापमुखरमुखः ।तस्य हि सफला दिवसाः शिवसायुज्यं च हस्तगतम् ॥४॥इह खलु पशुपतिनुतिभिः कतिपयमपि यः कृतार्थयति कालम् ।सकलकलिकलुषमुक्तो जीवन्मुक्तः स किं बहुना ॥५॥उपचितकुशलश्रेणिः परमपदारोहणैकनिश्रेणिः ।जयति महामृतवेणिर्विबुधजनाह्लादिनी नुतिः शम्भोः ॥६॥किमियं सद्गुरुदृष्टिर्ह्लादैकमयी नु किं जगत्सृष्टिः ।किं वा निरभ्रवृष्टिः श्रवणामृतवर्षिणी नुतिः शम्भोः ॥७॥अक्षयसुखोपभुक्तिः परमशिवावाप्तये नवा युक्तिः ।यदि वा जीवन्मुक्तिः श्रवणामृतवर्षिणी नुतिः शम्भोः ॥८॥क्षेत्रं तदिह पवित्रं तत्तीर्थं पावनं तदायतनम् ।तदिह तपोवनमनघं यत्र नुतिः शाम्भवी श्रुतिं विशति ॥९॥सा क्रीडा सा गोष्ठी सा विश्रान्तिः स भूमिकालाभः ।साऽखिलदुःखनिवृत्तिर्यत्र नुतिः शाम्भवी श्रुतिं विशति ॥१०॥तद्ध्यानं स समाधिः स महायागस्तदर्चनं सकलम् ।सा खलु परमा दीक्षा यत्र नुतिः शाम्भवी श्रुतिं विशति ॥११॥यदि पारिजातकुसुमस्तवकस्तव कर्णयोरलङ्करणम् ।भवितुं भवति न सुलभः श्रुतिपथमेता नय स्तुतीः शम्भोः ॥१२॥अभिलषसि यदि निरोद्धुं पवनादपि दुर्ग्रहं मनोहरिणम् ।तदिमा गृहाण निभृतं दृढगुणगुणगुम्फिताः स्तुतीः शम्भोः ॥१३॥यदमृतमम्बुधिमन्थनसमुत्थितं तस्य कः स्विदास्वादः ।इति यदि हृदि तव कौतुकमाकर्णय तत्स्तुतीरिमाः शम्भोः ॥१४॥विषयोपभोगरहितः सहजो ह्लादः सतां मतो मोक्षः ।तमपि यदीच्छसि वेदितुमवहितहृदयः शृणु स्तुतीः शम्भोः ॥१५॥अशुचि शुचामायतनं मलकलिलमिदं कलेवरं सत्यम् ।भगवदुपासनसाधनमिति भवति न कस्य कमनीयम् ॥१६॥यदि मनुषे यमनियमप्राणायामादि दुर्घटं कर्त्तुम् ।तदिमं सुगममुपायं श्रय परमपदाप्तये नुतिं शम्भोः ॥१७॥सिद्धं सम्यगभीष्टं सत्यगिरामाशिषः सतां फलिताः ।लब्धं सुकृतस्य फलं निर्व्यूढेयं यतः स्तुतिः शम्भोः ॥१८॥मम सारः संसारः सकलमिदं मर्त्यजन्म मम सफलम् ।मम सदृशोऽस्ति न कश्चन यदहं स्तोता शिवस्य संवृत्तः ॥१९॥प्रणमामि प्रणमामि स्तौमि स्तौमि प्रभुं जगन्नाथम् ।ध्यायामि ध्यायामि च यामि च विमलं परं धाम ॥२०॥इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचितेभगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ``स्तुतिप्रशंसा'' नामकं सप्तत्रिंशं स्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : January 30, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP