संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः| हसितस्तोत्रं विंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः प्रस्तावना सूचिपत्रम् स्तुतिप्रस्तावना प्रथमं स्तोत्रम् नमस्कारात्मकं द्वितीयं स्तोत्रम् आशीर्वादाख्यं तृतीयं स्तोत्रम् मङ्गलाष्टकं चतुर्थं स्तोत्रम् कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् हराष्टकं षष्ठं स्तोत्रम् सेवाभिनन्दनं सप्तमं स्तोत्रम् शरणाश्रयणं अष्टमं स्तोत्रम् कृपणाक्रन्दनं नवमं स्तोत्रम् करुणाक्रन्दनं दशमं स्तोत्रम् दीनाक्रन्दनं एकादशं स्तोत्रम् तमःशमनं द्वादशं स्तोत्रम् प्रभुप्रसादनं त्रयोदशं स्तोत्रम् हितस्तोत्रं चतुर्दशं स्तोत्रम् करुणाराधनं पञ्चदशं स्तोत्रम् उपदेशनं षोडशं स्तोत्रम् भक्तिस्तोत्रं सप्तदशं स्तोत्रम् सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् हसितस्तोत्रं विंशं स्तोत्रम् अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् द्विपदयमकं चतुर्विंशं स्तोत्रम् रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् महायमकस्तोत्रं त्रिंशं स्तोत्रम् नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् ग्रन्थकर्तुर्वंशवर्णनम् हसितस्तोत्रं विंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे. Tags : stuti kusumanjaliकुसुमाञ्जलिजगद्धर jagaddharस्तुति हसितस्तोत्रं विंशं स्तोत्रम् Translation - भाषांतर यत्सौभगेन घनमोघममोघमेघ-सङ्घातसम्भवमवन्ध्यमधः करोति ।तच्छाम्भवं भवमरुभ्रमखेदभेद-दक्षं विलासहसितं नुतिभिर्भजामः ॥१॥यद्वाङ्मयं सकलवाङ्मनसातिवृत्त-सीमानमीश महिमानममानमेयम् ।अस्मादृशं कृशदृशं भृशमामृशन्त-मन्तर्विमृष्य भवतो भगवन्नुदेति ॥२॥येनोपमन्युमपमन्युमनन्यभाज-माजन्मतृष्णजमजस्रमज श्रमार्तम् ।आनन्दयः स्वयमदीननदीनदान-भास्वन्महाफललसत्कुसुमोपमेन ॥३॥येनापि तापविपदं प्रथमं जहर्थनाथ प्रसादसुभगेन भगीरथस्य ।मूर्ध्ना धृतत्रिदशसिन्धुमहाप्रवाह-निर्वापणेन पुनरस्य पितामहानाम् ॥४॥उत्प्रासनाय शमनस्य मनस्यनल्प-दर्पोद्गमप्रशमविक्लवविक्रमस्य ।आश्वासनाय च समं समभावि येनकीनाशपाशविवशस्य नरेश्वरस्य ॥५॥भावत्कभक्तिभरसम्भृतभूरिभूति-सम्भाररूढगुरुगर्वगलद्विवेकम् ।मोहान्धमन्धकमुपाहितसाहसिक्य-हेवाकमाकलयतो भवतो यदासीत् ॥६॥लङ्केशकम्पितकुबेरगिरिप्ररूढ-संरम्भभीरुगिरिजापरिरम्भभाजः ।यत्ते रुषामवसरेऽप्युदितानवद्य-हृद्यप्रसादसुमुखस्य समुज्जगाम ॥७॥पूजार्थमम्बुजसहस्रमुपाहितं य-देकं ततो हृतवतस्तव कैतवेन ।विष्णुं विलोक्य निजलोचनमुत्खनन्त-मन्तः प्रसन्नमनसो यदमन्दमासीत् ॥८॥दृष्ट्वा वधूजनमनुत्तमरूपसम्प-त्सन्दर्शनोद्भवमनोभवभग्नवृत्तम् ।आषाढपाणिषु रुषा मुनिषु प्रहर्त्तु-मभ्युद्यतेषु तव यद्भृशमुद्बभूव ॥९॥अभ्यर्णवर्तिकरगोचरकालकूट-कूटप्रभानिचयमेचकितेऽधरोष्ठे ।यत्पूर्वपर्वतशिखाश्रितशीतरश्मि-रश्मिच्छटाच्छविविडम्बि पुराविरासीत् ॥१०॥यत्कर्णतालवलनानिलधूतकुम्भ-सिन्दूररेणुकणकूणितलोचनस्य ।बालस्य नागवदनस्य मनस्यभीष्टांदृष्टैव नाट्यघटनां तव सम्बभूव ॥११॥शैलादिवादितमृदङ्गलयानुयात-नृत्तप्रवृत्तगुहवाहविलोकनेन ।स्वामिन् महाप्रलयभैरवरूपिणो य-दाविर्बभूव तव ताण्डवडम्बरेषु ॥१२॥व्योम प्रचण्डभुजदण्डविघट्यमान-तारावलीविरहबन्धुरितान्धकारम् ।स्वामिन् युगान्तसमयाभिनयेषु येनसम्भाव्यते पुनरपि प्रचुरप्रकाशम् ॥१३॥दिक्चक्रवालमुखरीकरणप्रगल्भ-प्रावृट्पयोधरगभीररवानुकारि ।स्वामिन् कठोरहृदयस्य भयं विधातुंभीरोश्च दातुमभयं युगपत्क्षमं यत् ॥१४॥यत्कालकूटकवलीकरणप्ररूढ-नीलिम्नि कण्ठपुलिने विमलं निलीनम् ।नीरन्ध्रनीरभरमेदुरमेघखण्ड-लग्नेन्दुमण्डलविडम्बनमातनोति ॥१५॥ध्यायन्त्यनन्यहृदया हृदयाधिनाथ-मद्य क्षपामगमयं सखि कल्पकल्पाम् ।प्राणेशसङ्गमनिमित्तमथ प्रभातेनिद्रा सखीव मम सम्मुखमाजगाम ॥१६॥तस्मिन्क्षणे नयनवर्त्मनि जीवितेशःशंसन् दृशा मधुरयैव मनःप्रसादम् ।चक्रे पदं मम तमोमुकुलीकृतायाःस्वैरं समेत्य सवितेव सरोरुहिण्याः ॥१७॥अस्मत्कृते सितमयूखमुखि त्वयै-तत्किं प्रस्तुतं मुनिभिरप्यतिदुष्करं यत् ।उद्यानचङ्क्रमणकेलिषु खिद्यते यासा ते कथं कथय कष्टसहाऽङ्गयष्टिः ॥१८॥मूर्तिः क्व बालकदलीदलकोमलेयंतीव्रं तपः क्व मनसोऽपि न गोचरं यत् ।क्वेषद्विकासि कुसुमं सुमनोलतायाःक्वोन्मत्तकुञ्जरकठोरकरोपमर्दः ॥१९॥एतेन कर्कशकुशग्रहणं करेणसोढं कथं प्रथमपल्लवकोमलेन ।पादौ कथं कमलगर्भनिभौ शिलाश्रि-श्रेणीषु तीर्थगमनक्लममन्वभूताम् ॥२०॥हारोपि भार इव यत्र कुचद्वयं त-त्सेहे कथं कुलिशकर्कशवल्कलोल्काम् ।एतत्कथं मृदुमृणाललताभिजातंपञ्चाग्नितापविपदः पदमङ्गमासीत् ॥२१॥इत्यादिभिर्दशनचन्द्रिकयानुविद्धै-रन्तर्बहिश्च तिमिरप्रसरं हरद्भिः ।आश्वासयन्निव निवर्तिततीव्रखेदंगर्भीकृतस्मितसुधामधुरैर्वचोभिः ॥२२॥यावत्त्रपापरवशं क्षितिमीक्षमाणंमुक्ताफलोपमसमुद्गतघर्मलेशम् ।किञ्चित्करेण मुखमुन्नमयन्नियेषपीयूषवर्षमिव वर्षितुमेष भूयः ॥२३॥तावत्प्रबोधितवता कृकवाकुनादै-र्दुर्वेधसा सखि तदाचरितं शठेन ।यत्रैष एव शरणं मम जीवितेशो-यद्वाऽपरो हरति योऽखिलजन्तुवर्गम् ॥२४॥इत्यादि तीव्रविरहज्वरया जयायैयत्स्वप्नवृत्तमुदितं गिरिराजपुत्र्या ।तच्छृण्वतो वनलतान्तरितस्य यत्तेजातं प्रमोदभरनिर्भरमानसस्य ॥२५॥सञ्जीवनौषधमिदं हरहुङ्कृताग्नि-ज्वालावलीढवपुषः कुसुमायुधस्य ।बाले सुधारसमये समये किमर्थ-मायास्यते त्रिभुवनाभरणं शरीरम् ॥२६॥कल्पद्रुमैर्निधिभिरोषधिकामधेनु-चिन्तामणिप्रभृतिभिश्च परिष्कृतस्य ।किं दुर्लभं तव पितुर्भुवनातिशायि-श्रीधाम्नि धामनि यदर्थयसे तपोभिः ॥२७॥त्वं जीवितादपि गुरोरधिका स ताव-दुत्पादयेत्तव न मन्युमधीतनीतिः ।सम्भाव्यते तव च नान्यकृतो निकारःकुर्वीत केसरिसटाहठकर्षणं कः ॥२८॥श्रद्धानुबन्धविहितव्रतहोमदान-स्वाध्यायतीर्थगमनादिनिबन्धनानि ।धन्यस्य कस्य फलितानि तुषारहार-गौराणि गौरि सुकृतानि पुराकृतानि ॥२९॥दुर्वारदुर्गतिनिकारकदर्थ्यमान-मालोक्य लोकमखिलं विपुलाशयेन ।सद्यःकृतं कनकवर्षणमिन्दुकान्त-वर्ष्मत्विषा परमकारुणिकेन केन ॥३०॥गायन्ति कस्य विषदं विषमोग्रकाल-संरुद्धशक्तिशरणागतरक्षणोत्थम् ।द्वन्द्वानि नन्दनसदामपदानमिन्दु-धौतासु कौमुदमहोत्सवयामिनीषु ॥३१॥केनेश्वरेण महता वहतात्रिनेत्र-सञ्जातकान्ति वपुरद्भुतभूतिभूषम् ।उद्दामकामशितमार्गणदौर्मनस्य-वैरस्यमिद्धमहसा सहसा निरस्तम् ॥३२॥धन्याः कमस्खलितपौरुषभग्नभूरि-दर्पान्धकन्दलितलोकविषादमुच्चैः ।हेलावलीढविषमश्रमवीर्यवह्नि-भस्मीकृताहितपुरं कवयः स्तुवन्ति ॥३३॥कः स्वर्धुनीसवनवह्निनिषेवणादि-धौतां दधत्तनुमनुज्झितभैक्षवृत्तिः ।कालं द्विजेन्द्रमुकुटः परिशुद्धधर्म-चर्यारतः क्षपितवानजिनावृताङ्गः ॥३४॥उद्धूलितश्चितिरजोभिरखण्डमुण्ड-मालाकरालशिखरः सुचिरं चचार ।भीष्मश्मशानवसनव्यसनः कपाल-खट्वाङ्गपाणिरतितीव्रमपि व्रतं कः ॥३५॥मन्ये भवान्तरशतोपचितस्य पुण्य-पृथ्वीरुहः फलमलभ्यमभाग्यभाजाम् ।यस्या दृगञ्चलविलोकनमात्रमेवसम्भावनं तु वचसा वचसामभूमिः ॥३६॥सा त्वं महार्घगुणरत्नसमुद्रवेला-लावण्यसिन्धुरकलङ्ककुलप्रसूतिः ।सौभाग्यभाग्यविभवादिभवाऽभिमान-भूमानमानयसि यं तपसा प्रसादम् ॥३७॥इत्थं विदग्धरसदिग्धकथाक्रमेणदेव्या समं समभिभाषणलोलुभस्य ।यद्व्याजवर्णितरुणस्य तवाऽवहित्थ-संरुद्धमप्यतिभरेण समुद्बभूव ॥३८॥रूपं प्रदर्श्य विदधद्गिरि सानुकम्पंदिव्यं धृतामृतरसं गिरिसानुकम्पम् ।येन व्यधा मुखमखण्डसितांशुकान्तंदेव्या वपुश्च पुलकोच्छ्वसितांशुकान्तम् ॥३९॥स्वामिन्नुदारघनसारतुषारहार-कह्लारशारदनिशारमणोपमेन ।तापं तमश्च विषमं जहि मे सहेल-मुल्लासितेन हसितेन सितेन तेन ॥४०॥सहस्रचरणं रविं नयनपङ्कजान्तःस्थितंसहस्रनयनं हरिं चरणपङ्कजान्तःस्थितम् ।विमृश्य धृतविस्मयां भगवतीमवेक्ष्योद्गतंप्रभोरभिमताप्तये हसितमस्तु शर्वस्य मे ॥४१॥इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचितेभगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ``हसितस्तोत्रं'' नामकं विंशं स्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : January 30, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP