हसितस्तोत्रं विंशं स्तोत्रम्
स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.
यत्सौभगेन घनमोघममोघमेघ-
सङ्घातसम्भवमवन्ध्यमधः करोति ।
तच्छाम्भवं भवमरुभ्रमखेदभेद-
दक्षं विलासहसितं नुतिभिर्भजामः ॥१॥
यद्वाङ्मयं सकलवाङ्मनसातिवृत्त-
सीमानमीश महिमानममानमेयम् ।
अस्मादृशं कृशदृशं भृशमामृशन्त-
मन्तर्विमृष्य भवतो भगवन्नुदेति ॥२॥
येनोपमन्युमपमन्युमनन्यभाज-
माजन्मतृष्णजमजस्रमज श्रमार्तम् ।
आनन्दयः स्वयमदीननदीनदान-
भास्वन्महाफललसत्कुसुमोपमेन ॥३॥
येनापि तापविपदं प्रथमं जहर्थ
नाथ प्रसादसुभगेन भगीरथस्य ।
मूर्ध्ना धृतत्रिदशसिन्धुमहाप्रवाह-
निर्वापणेन पुनरस्य पितामहानाम् ॥४॥
उत्प्रासनाय शमनस्य मनस्यनल्प-
दर्पोद्गमप्रशमविक्लवविक्रमस्य ।
आश्वासनाय च समं समभावि येन
कीनाशपाशविवशस्य नरेश्वरस्य ॥५॥
भावत्कभक्तिभरसम्भृतभूरिभूति-
सम्भाररूढगुरुगर्वगलद्विवेकम् ।
मोहान्धमन्धकमुपाहितसाहसिक्य-
हेवाकमाकलयतो भवतो यदासीत् ॥६॥
लङ्केशकम्पितकुबेरगिरिप्ररूढ-
संरम्भभीरुगिरिजापरिरम्भभाजः ।
यत्ते रुषामवसरेऽप्युदितानवद्य-
हृद्यप्रसादसुमुखस्य समुज्जगाम ॥७॥
पूजार्थमम्बुजसहस्रमुपाहितं य-
देकं ततो हृतवतस्तव कैतवेन ।
विष्णुं विलोक्य निजलोचनमुत्खनन्त-
मन्तः प्रसन्नमनसो यदमन्दमासीत् ॥८॥
दृष्ट्वा वधूजनमनुत्तमरूपसम्प-
त्सन्दर्शनोद्भवमनोभवभग्नवृत्तम् ।
आषाढपाणिषु रुषा मुनिषु प्रहर्त्तु-
मभ्युद्यतेषु तव यद्भृशमुद्बभूव ॥९॥
अभ्यर्णवर्तिकरगोचरकालकूट-
कूटप्रभानिचयमेचकितेऽधरोष्ठे ।
यत्पूर्वपर्वतशिखाश्रितशीतरश्मि-
रश्मिच्छटाच्छविविडम्बि पुराविरासीत् ॥१०॥
यत्कर्णतालवलनानिलधूतकुम्भ-
सिन्दूररेणुकणकूणितलोचनस्य ।
बालस्य नागवदनस्य मनस्यभीष्टां
दृष्टैव नाट्यघटनां तव सम्बभूव ॥११॥
शैलादिवादितमृदङ्गलयानुयात-
नृत्तप्रवृत्तगुहवाहविलोकनेन ।
स्वामिन् महाप्रलयभैरवरूपिणो य-
दाविर्बभूव तव ताण्डवडम्बरेषु ॥१२॥
व्योम प्रचण्डभुजदण्डविघट्यमान-
तारावलीविरहबन्धुरितान्धकारम् ।
स्वामिन् युगान्तसमयाभिनयेषु येन
सम्भाव्यते पुनरपि प्रचुरप्रकाशम् ॥१३॥
दिक्चक्रवालमुखरीकरणप्रगल्भ-
प्रावृट्पयोधरगभीररवानुकारि ।
स्वामिन् कठोरहृदयस्य भयं विधातुं
भीरोश्च दातुमभयं युगपत्क्षमं यत् ॥१४॥
यत्कालकूटकवलीकरणप्ररूढ-
नीलिम्नि कण्ठपुलिने विमलं निलीनम् ।
नीरन्ध्रनीरभरमेदुरमेघखण्ड-
लग्नेन्दुमण्डलविडम्बनमातनोति ॥१५॥
ध्यायन्त्यनन्यहृदया हृदयाधिनाथ-
मद्य क्षपामगमयं सखि कल्पकल्पाम् ।
प्राणेशसङ्गमनिमित्तमथ प्रभाते
निद्रा सखीव मम सम्मुखमाजगाम ॥१६॥
तस्मिन्क्षणे नयनवर्त्मनि जीवितेशः
शंसन् दृशा मधुरयैव मनःप्रसादम् ।
चक्रे पदं मम तमोमुकुलीकृतायाः
स्वैरं समेत्य सवितेव सरोरुहिण्याः ॥१७॥
अस्मत्कृते सितमयूखमुखि त्वयै-
तत्किं प्रस्तुतं मुनिभिरप्यतिदुष्करं यत् ।
उद्यानचङ्क्रमणकेलिषु खिद्यते या
सा ते कथं कथय कष्टसहाऽङ्गयष्टिः ॥१८॥
मूर्तिः क्व बालकदलीदलकोमलेयं
तीव्रं तपः क्व मनसोऽपि न गोचरं यत् ।
क्वेषद्विकासि कुसुमं सुमनोलतायाः
क्वोन्मत्तकुञ्जरकठोरकरोपमर्दः ॥१९॥
एतेन कर्कशकुशग्रहणं करेण
सोढं कथं प्रथमपल्लवकोमलेन ।
पादौ कथं कमलगर्भनिभौ शिलाश्रि-
श्रेणीषु तीर्थगमनक्लममन्वभूताम् ॥२०॥
हारोपि भार इव यत्र कुचद्वयं त-
त्सेहे कथं कुलिशकर्कशवल्कलोल्काम् ।
एतत्कथं मृदुमृणाललताभिजातं
पञ्चाग्नितापविपदः पदमङ्गमासीत् ॥२१॥
इत्यादिभिर्दशनचन्द्रिकयानुविद्धै-
रन्तर्बहिश्च तिमिरप्रसरं हरद्भिः ।
आश्वासयन्निव निवर्तिततीव्रखेदं
गर्भीकृतस्मितसुधामधुरैर्वचोभिः ॥२२॥
यावत्त्रपापरवशं क्षितिमीक्षमाणं
मुक्ताफलोपमसमुद्गतघर्मलेशम् ।
किञ्चित्करेण मुखमुन्नमयन्नियेष
पीयूषवर्षमिव वर्षितुमेष भूयः ॥२३॥
तावत्प्रबोधितवता कृकवाकुनादै-
र्दुर्वेधसा सखि तदाचरितं शठेन ।
यत्रैष एव शरणं मम जीवितेशो-
यद्वाऽपरो हरति योऽखिलजन्तुवर्गम् ॥२४॥
इत्यादि तीव्रविरहज्वरया जयायै
यत्स्वप्नवृत्तमुदितं गिरिराजपुत्र्या ।
तच्छृण्वतो वनलतान्तरितस्य यत्ते
जातं प्रमोदभरनिर्भरमानसस्य ॥२५॥
सञ्जीवनौषधमिदं हरहुङ्कृताग्नि-
ज्वालावलीढवपुषः कुसुमायुधस्य ।
बाले सुधारसमये समये किमर्थ-
मायास्यते त्रिभुवनाभरणं शरीरम् ॥२६॥
कल्पद्रुमैर्निधिभिरोषधिकामधेनु-
चिन्तामणिप्रभृतिभिश्च परिष्कृतस्य ।
किं दुर्लभं तव पितुर्भुवनातिशायि-
श्रीधाम्नि धामनि यदर्थयसे तपोभिः ॥२७॥
त्वं जीवितादपि गुरोरधिका स ताव-
दुत्पादयेत्तव न मन्युमधीतनीतिः ।
सम्भाव्यते तव च नान्यकृतो निकारः
कुर्वीत केसरिसटाहठकर्षणं कः ॥२८॥
श्रद्धानुबन्धविहितव्रतहोमदान-
स्वाध्यायतीर्थगमनादिनिबन्धनानि ।
धन्यस्य कस्य फलितानि तुषारहार-
गौराणि गौरि सुकृतानि पुराकृतानि ॥२९॥
दुर्वारदुर्गतिनिकारकदर्थ्यमान-
मालोक्य लोकमखिलं विपुलाशयेन ।
सद्यःकृतं कनकवर्षणमिन्दुकान्त-
वर्ष्मत्विषा परमकारुणिकेन केन ॥३०॥
गायन्ति कस्य विषदं विषमोग्रकाल-
संरुद्धशक्तिशरणागतरक्षणोत्थम् ।
द्वन्द्वानि नन्दनसदामपदानमिन्दु-
धौतासु कौमुदमहोत्सवयामिनीषु ॥३१॥
केनेश्वरेण महता वहतात्रिनेत्र-
सञ्जातकान्ति वपुरद्भुतभूतिभूषम् ।
उद्दामकामशितमार्गणदौर्मनस्य-
वैरस्यमिद्धमहसा सहसा निरस्तम् ॥३२॥
धन्याः कमस्खलितपौरुषभग्नभूरि-
दर्पान्धकन्दलितलोकविषादमुच्चैः ।
हेलावलीढविषमश्रमवीर्यवह्नि-
भस्मीकृताहितपुरं कवयः स्तुवन्ति ॥३३॥
कः स्वर्धुनीसवनवह्निनिषेवणादि-
धौतां दधत्तनुमनुज्झितभैक्षवृत्तिः ।
कालं द्विजेन्द्रमुकुटः परिशुद्धधर्म-
चर्यारतः क्षपितवानजिनावृताङ्गः ॥३४॥
उद्धूलितश्चितिरजोभिरखण्डमुण्ड-
मालाकरालशिखरः सुचिरं चचार ।
भीष्मश्मशानवसनव्यसनः कपाल-
खट्वाङ्गपाणिरतितीव्रमपि व्रतं कः ॥३५॥
मन्ये भवान्तरशतोपचितस्य पुण्य-
पृथ्वीरुहः फलमलभ्यमभाग्यभाजाम् ।
यस्या दृगञ्चलविलोकनमात्रमेव
सम्भावनं तु वचसा वचसामभूमिः ॥३६॥
सा त्वं महार्घगुणरत्नसमुद्रवेला-
लावण्यसिन्धुरकलङ्ककुलप्रसूतिः ।
सौभाग्यभाग्यविभवादिभवाऽभिमान-
भूमानमानयसि यं तपसा प्रसादम् ॥३७॥
इत्थं विदग्धरसदिग्धकथाक्रमेण
देव्या समं समभिभाषणलोलुभस्य ।
यद्व्याजवर्णितरुणस्य तवाऽवहित्थ-
संरुद्धमप्यतिभरेण समुद्बभूव ॥३८॥
रूपं प्रदर्श्य विदधद्गिरि सानुकम्पं
दिव्यं धृतामृतरसं गिरिसानुकम्पम् ।
येन व्यधा मुखमखण्डसितांशुकान्तं
देव्या वपुश्च पुलकोच्छ्वसितांशुकान्तम् ॥३९॥
स्वामिन्नुदारघनसारतुषारहार-
कह्लारशारदनिशारमणोपमेन ।
तापं तमश्च विषमं जहि मे सहेल-
मुल्लासितेन हसितेन सितेन तेन ॥४०॥
सहस्रचरणं रविं नयनपङ्कजान्तःस्थितं
सहस्रनयनं हरिं चरणपङ्कजान्तःस्थितम् ।
विमृश्य धृतविस्मयां भगवतीमवेक्ष्योद्गतं
प्रभोरभिमताप्तये हसितमस्तु शर्वस्य मे ॥४१॥
इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``हसितस्तोत्रं'' नामकं विंशं स्तोत्रं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : January 30, 2026

TOP