संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः| तमःशमनं द्वादशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः प्रस्तावना सूचिपत्रम् स्तुतिप्रस्तावना प्रथमं स्तोत्रम् नमस्कारात्मकं द्वितीयं स्तोत्रम् आशीर्वादाख्यं तृतीयं स्तोत्रम् मङ्गलाष्टकं चतुर्थं स्तोत्रम् कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् हराष्टकं षष्ठं स्तोत्रम् सेवाभिनन्दनं सप्तमं स्तोत्रम् शरणाश्रयणं अष्टमं स्तोत्रम् कृपणाक्रन्दनं नवमं स्तोत्रम् करुणाक्रन्दनं दशमं स्तोत्रम् दीनाक्रन्दनं एकादशं स्तोत्रम् तमःशमनं द्वादशं स्तोत्रम् प्रभुप्रसादनं त्रयोदशं स्तोत्रम् हितस्तोत्रं चतुर्दशं स्तोत्रम् करुणाराधनं पञ्चदशं स्तोत्रम् उपदेशनं षोडशं स्तोत्रम् भक्तिस्तोत्रं सप्तदशं स्तोत्रम् सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् हसितस्तोत्रं विंशं स्तोत्रम् अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् द्विपदयमकं चतुर्विंशं स्तोत्रम् रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् महायमकस्तोत्रं त्रिंशं स्तोत्रम् नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् ग्रन्थकर्तुर्वंशवर्णनम् तमःशमनं द्वादशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे. Tags : stuti kusumanjaliकुसुमाञ्जलिजगद्धर jagaddharस्तुति तमःशमनं द्वादशं स्तोत्रम् Translation - भाषांतर मखैरुपास्योऽपि नयज्ञसेव्यो निरामयोऽपि प्रथितोग्रशूलः ।वेदप्रियोऽप्यश्रुतिवल्लभो यः श्रयामि तं देवमचिन्यशक्तिम् ॥१॥स्तुत्यस्त्वमेव स्तुतिकृत्त्वमेव स्तुतिस्त्वमेव त्वदृतेऽस्ति नान्यत् ।इयं त्वविद्या यदहं स्तुवे त्वां स्तुत्येति मिथ्या पृथगर्थबुद्धिः ॥२॥स्तौम्येव तत्रापि पुनः पुनस्त्वां नश्यत्यविद्या यदविद्ययैव ।रजःप्ररूढं मुकुरे प्रमार्ष्टुं रजो विना न ह्यपरोऽस्त्युपायः ॥३॥विजृम्भमाणे तमसि प्रगल्-भे यथा भवासक्तमतिः स्थितोऽहम् ।हतेऽपि तस्मिन्नुदितावबोधस्तथा भवासक्तमतिर्भवेयम् ॥४॥जगद्विधेयं ससुरासुरं ते भवान् विधेयो भगवन् कृपायाः ।सा दीनताया नमतां विधेया ममाऽस्त्ययत्नोपनतैव सेति ॥५॥जाने न शैथिल्यमुपैष्यवश्यं ममार्तिभङ्गे भगवँस्तथापि ।विज्ञप्यसे कर्म ममैव माभून्मयि प्रसादप्रतिघस्तवेति ॥६॥पथ्यं च तथ्यं च भरक्षमं च स्निग्धं च मुग्धं च मनोहरं च ।सलीलमुन्मील्य वचः प्रसन्नं प्रपन्नमाश्वासय चन्द्रमौले ॥७॥मधुद्रवार्द्रं विषमाहरामः पिण्डीनिगूढं बडिशं गिलामः ।अन्तर्निविष्टोत्कटकण्टकौघं ग्रसामहे पौण्ड्रक(पुण्ड्रक)पिण्डखण्डम् ॥८॥यदा मुखे कामधुरानजस्रं विपाकरूक्षान् विषयान् भजामः ।विभो विदन्तोऽपि किमत्र कुर्मो जहाति सक्तिं न मतिर्वराकी ॥९॥मुक्तामया दीर्घगुणाः सुवृत्ता नैर्मल्यभाजो दधतः फलर्द्धिम् ।कथं न हारा इव भक्तिमन्तः पदं हृदीशस्य भजन्ति सन्तः ॥१०॥गुहाश्रितो धर्मरतिर्गिरीशप्रथां दधानो भवतः प्रसादात् ।सत्याहितप्रीतिरहीनभक्तिर्भवानिवाहं भगवन् भवेयम् ॥११॥यमेकमाराध्य महारिसङ्गमा-दसंशयं भक्तजनः प्रमुच्यते ।उपस्थितस्तस्य भवत्प्रसादतःकथं हरेरुग्र महारिसङ्गमः ॥१२॥सुदुर्लभोऽयं भवति ग्रहः पुन-र्मुखेऽप्यसौ सन्निहिता सरस्वती ।इदं कुरुक्षेत्रमतीवपावनंकिमर्थमर्थिन्युचिते विलम्बसे ॥१३॥न कस्य सौभाग्यवती चमत्कृतिंदिशत्यसौ भाग्यवती सरस्वती ।विभुं जितक्लेशमपि स्थिराजिनंकरोति यत्सम्मुखमस्थिराजिनम् ॥१४॥अनुज्झितानुत्तमदानसम्पदःसदाखिलज्ञानविहीनचेतसः ।अकालभीतिग्लपितान्करोति यःप्रभुः प्रसन्नः कुपितश्च देहिनः ॥१५॥पुरा चिरं यो विदधे वनान्तरेविधुः पदं रूढकुरङ्गसौहृदः ।सदा परस्वापहरोऽपि यो रवि-स्तयोः समत्वं दृशि यस्य भासते ॥१६॥कथं विभो तस्य तव प्रवर्ततांसतामसेव्ये पथि पातितात्मसु ।दयाविधेयस्य सदाऽस्मदादिषुप्रसादपात्रेषु मनागनादरः ॥१७॥विभो भवद्भालविलोचनाऽनल-प्रसूतधूमैरिव साश्रुलोचनः ।सघर्मलेशस्तव दक्षिणेक्षण-प्ररूढचण्डद्युतिभाभरैरिव ॥१८॥घनप्ररोहत्पुलकाङ्कुरो भव-च्छिखण्डखण्डेन्दुकरोत्करैरिव ।सदन्तवीणस्तुहिनौघशीतल-त्वदुत्तमाङ्गद्युनदीजलैरिव ॥१९॥तरङ्गिताङ्गो भवदङ्गदस्फुर-त्फणीन्द्रफूत्कारसमीरणैरिव ।भवेयमानन्दसुधापरिप्लुतःप्रसन्नमालोक्य भवन्तमग्रतः ॥२०॥यदेष सेहे परशुक्षतव्यथांप्रभोः प्रियः स्यामिति चन्दनद्रुमः ।भुजङ्गमालिङ्गितकन्धरो द्रुवंबिभर्ति साम्यं गिरिजापतेरतः ॥२१॥यच्चक्रिरे धृतनखान्तनिपातपीडाःप्रीतिं प्रभोः सुमनसां सुमनस्त्वमेतत् ।यत्स्वामिनो न दहनेऽपि निपत्य सेवा-हेवाकमौज्झदगुरोरपि गौरवं तत् ॥२२॥आदौ प्रदर्श्य परमामृजुतामथान्त-राविश्य मर्मणि न यन्निशितास्तुदन्ति ।स्वामिन् शरा इव खलाः कृतिनो वनेषुस त्वत्पदाम्बुजरजःकणजः प्रसादः ॥२३॥त्वन्नाम पामरजनैरपि गीयमान-मानन्दमर्पयति यं हृदि भक्तिभाजाम् ।स्वामिन्नमानवयवेष्वखिलेषु नून-मुद्भिद्यते बहिरसौ पुलकच्छलेन ॥२४॥घर्मः प्रकम्पपुलकौ गिरि गद्गदत्व-मित्यादयोऽन्त्यसमये प्रभवन्त्यवस्थाः ।त्वद्दर्शनात्कृतधियां दधताममन्द-मानन्दमन्तकभयाद्भगवन् परेषाम् ॥२५॥अन्त्यक्षणे भव भवच्चरणाब्जसेवा-हेवाकिनो दधति केचन कण्ठपीठे ।भोगीन्द्रभोगमधिगम्य भवद्गणत्व-मन्ये कृतान्तकरकोटरकोटिकृष्टम् ॥२६॥भीताभयार्पणविधौ किल कालनाशंकर्तुं न यः क्षणमपि क्षमते कदापि ।श्वेताभयार्पणपरस्य कथं नु काल-नाशक्षमत्वमभवत्तव तस्य देव ॥२७॥भङ्क्तुं न पारयति यः क्वचिदेव देवकामं कृपामृतमृदुस्तव दृष्टिपातः ।उद्दामरोषपरुषः किल कामभङ्ग-मङ्गीचकार कथमेष महेश पूर्वम् ॥२८॥किं मेरुमन्दरमुखा गिरयः शिरोभि-रत्युन्नतैर्दधति गर्वमखर्वमेते ।एतत्तुषारकिरणाभरणप्रणाम-प्रह्वं जगज्जयति मामकमुत्तमाङ्गम् ॥२९॥गात्रान्तरातिशयशंसि यदेतदुच्चै-र्नामोत्तमाङ्गमिति नाथ शिरो बिभर्ति ।तद्युज्यते भव भवच्चरणारविन्द-पीठप्रणामपरमस्य नमस्यमस्य ॥३०॥किं श्रीघनोऽप्यसुगतः किमुमाधवोऽपिन त्वं कदाचन जनार्दनतां बिभर्षि ।स्वामिन् गजारिरपि किं नगजाप्रियस्त्वंस्वातन्त्र्यमस्ति यदि वा भवतः किमन्यत् ॥३१॥अरुणद्युतिग्लपितशीतदीधिति-प्रकटीकृतालिकमलं विलोक्य मे ।भवतः प्रभातमिव भाललोचनंभजते कदा नु विषमं शमं तमः ॥३२॥इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचितेभगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ``तमःशमनं'' नामकं द्वादशं स्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : January 30, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP