संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः| प्रभुप्रसादनं त्रयोदशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः प्रस्तावना सूचिपत्रम् स्तुतिप्रस्तावना प्रथमं स्तोत्रम् नमस्कारात्मकं द्वितीयं स्तोत्रम् आशीर्वादाख्यं तृतीयं स्तोत्रम् मङ्गलाष्टकं चतुर्थं स्तोत्रम् कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् हराष्टकं षष्ठं स्तोत्रम् सेवाभिनन्दनं सप्तमं स्तोत्रम् शरणाश्रयणं अष्टमं स्तोत्रम् कृपणाक्रन्दनं नवमं स्तोत्रम् करुणाक्रन्दनं दशमं स्तोत्रम् दीनाक्रन्दनं एकादशं स्तोत्रम् तमःशमनं द्वादशं स्तोत्रम् प्रभुप्रसादनं त्रयोदशं स्तोत्रम् हितस्तोत्रं चतुर्दशं स्तोत्रम् करुणाराधनं पञ्चदशं स्तोत्रम् उपदेशनं षोडशं स्तोत्रम् भक्तिस्तोत्रं सप्तदशं स्तोत्रम् सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् हसितस्तोत्रं विंशं स्तोत्रम् अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् द्विपदयमकं चतुर्विंशं स्तोत्रम् रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् महायमकस्तोत्रं त्रिंशं स्तोत्रम् नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् ग्रन्थकर्तुर्वंशवर्णनम् प्रभुप्रसादनं त्रयोदशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे. Tags : stuti kusumanjaliकुसुमाञ्जलिजगद्धर jagaddharस्तुति प्रभुप्रसादनं त्रयोदशं स्तोत्रम् Translation - भाषांतर अथ नुतिभिरमन्थराक्षराभिः सुजनमनोमृगवागुराभिराभिः ।विभुमभयदमादरादरातिक्षपणपणप्रवणं प्रसादयामः ॥१॥सुरमुकुटविटङ्करत्नरोचिःखचितनखाङ्कुरकेसराभिरामम् ।पुरहरचरणारविन्दयुग्मं शिरसि विधत्त किरीटवाञ्च्छया किम् ॥२॥कलयतु भवतामभग्नवृत्तिर्हरहरशङ्करशङ्करेति सूक्तिः ।अविरलगलमण्डनप्रतिष्ठां किममलमौक्तिकदामकामनाभिः ॥३॥कलयत मणिकुण्डलेऽवलेपं श्लथयत निर्म्मलमल्लिकाभिलाषम् ।हरचरितनुतिक्रमैरजस्रं कुरुत नवश्रवणावतंसलीलाम् ॥४॥इह विहतभवोपतापमापत्प्रशमसमर्थमनर्थनाशहेतुम् ।नमति न मतिमानमानवीयप्रमदविधानपरं परं हरं कः ॥५॥त्रिजगति भजति स्थितिं बुधानां धुरि दुरितक्षतिशिक्षितः स एकः ।शशिशकलशिखामणिप्रणामप्रणयि बिभर्ती शिरश्चिरस्थिरं यः ॥६॥स जयति जगदीशशक्तिपातस्तव कवितुर्यदसक्तमुक्तिदेवी ।रसमसमचमत्कृतिप्रसूतिं वितरति काञ्चनसिद्धिमेति येन ॥७॥इह विदधतु नाम पामराणां प्रणतिकृतामपरे प्रभुप्रतीतिम् ।प्रभवति न तु मृत्युभीतिभङ्गे जगति भवन्तमृतेऽमृतेश कश्चित् ॥८॥वियदियति महस्विमण्डले कः श्रितवति कर्तुमनष्टचेष्टमीष्टे ।विषमतमतमः प्रबन्धमन्धं जगदगदं घृणिमन्तमन्तरेण ॥९॥शकलितकलितर्ष सप्रकर्ष प्रकटितहर्ष महर्षभाधिरूढ ।दिश विशदमदभ्रमभ्रसिन्धुद्रवधवलं भवलङ्घनं प्रसादम् ॥१०॥प्रभवति भवति प्रसादरम्यां दिशति दृशं न विभा विभावरीणाम् ।सवितरि वितरिष्यति प्रकाशं नहि महिमप्रभवो विभावरीणाम् ॥११॥समुचितसदसद्विचारचर्याचतुरतरः कतरः कलौ मदन्यः ।इह परमशिवं भवं विजेतुं परमशिवं भवमेव सेवते यः ॥१२॥शमयितुमलमग्निमग्निरेव ग्लयपति हन्त हिमं हिमं विवृद्धम् ।जरयति च पयः पयः किमन्यद्धरति भवं भव एव भक्तिभाजाम् ॥१३॥वरमजिनजटाभृतः कपालप्रणयिकरस्य नरस्य भैक्ष्यवृत्तिः ।स्मरहरचरणारविन्दसेवाविरहवती न तु चक्रवर्तिमूर्तिः ॥१४॥मरुभुवि वरमुष्णरश्मिरश्मिप्रकरकदर्थितमूर्तिरेकभेकः ।न तु भवदनुरागभागधेयग्लपनविपद्विकलीकृतो मनुष्यः ॥१५॥कलिमलपटली मलीमसत्वं नयति मतिं हतदर्प दर्पणाभाम् ।इति शितिगल शीतरश्मिप्रसरसितं रसितं तवाऽर्थयामः ॥१६॥नुतिमुखरमुखः प्रसादपात्रं भवति ममेति यदैष ते कृतान्तः ।अपि कवलितसप्तलोकलोकः प्रभवति नैव तदैष मे कृतान्तः ॥१७॥तव रविजपुरान्धकप्रमाथे दृशि विशिखे त्रिशिखे च यः कृतास्थः ।परिचरणपरः पुराविरासीत् स जयति दैवतमुत्तमं कृशानुः ॥१८॥समजनि जनितस्पृहः स एकस्त्रिजगति चन्द्रकिरीट कृष्णसारः ।उपकरणपदं जगाम कृत्तिस्तव चरणास्तरणक्रमेण यस्य ॥१९॥जनिरपि जयति विनीतरीतिर्जगति भुजङ्गमपुङ्गवस्य तस्य ।मणिकटकमुदस्य यस्य शस्यं भव भवदङ्गदभङ्गिमेति भोगः ॥२०॥अलभत भगवन्नबन्ध्यमेकस्त्रिभुवनसीमनि जन्म पुङ्गवेन्द्रः ।तव भव शवभस्मरूषितोंऽघ्रिः शिरसि धृतो विनयानतेन येन ॥२१॥जनयति जगति स्पृहां न केषां जनिरपि कुञ्जरशेखरस्य तस्य ।त्रिभुवनमहितस्य यस्य कृत्तिर्भव भवदम्बरडम्बरं बिभर्ति ॥२२॥स जयति जितकाल कालकूटः स्वजनिपवित्रितमुग्धदुग्धसिन्धुः ।तव कवलभुवं जवादवाप्तः कलयति यःशितिकण्ठ कण्ठपीठम् ॥२३॥परिणतशरदिन्दुसुन्दराभं वदनमनभ्रनभोनिभश्च कण्ठः ।इति शुभमुभयं विभोरभिन्नत्रिदशधुनीयमुनाविडम्बि वन्दो ॥२४॥हिमहिमकरहारि वारि गाङ्गं कुवलयकान्तिकलिन्दकन्यकाम्भः ।इति शुभमुभयं प्रभुप्रसादाद्वपुरिव हारिहरं वरं प्रपद्ये ॥२५॥धृतकुटिलकलः किलान्धकारी रुचितमलीमसभोगिभोगयोगः ।त्वयि सपदि पराङ्मुखे यथाऽहं त्वमिव महाकलिकालभग्नशक्तिः ॥२६॥कवलितविषमक्लमं दधानः सततसमाश्रिततारकारिरूपम् ।द्विजपतिमुकुटस्तथैव जातु त्वमिव शिव त्वयि सम्मुखे भवेयम् ॥२७॥जय जयद वचो विमुञ्च मुञ्चन्मधु मधुरं जनरञ्जनप्रगल्भम् ।हर हर दुरितं ममाऽद्य माद्यद्भव भव भीमदभीमदर्शनस्त्वम् ॥२८॥निजवृजिनविजृम्भितं ममैतत्त्रिजगदनुग्रहनित्यदीक्षितस्त्वम् ।क्वचिदपि भगवन्नदृष्टपूर्वं प्रथयसि यन्मयि विह्वलेऽवलेपम् ॥२९॥प्रणमति विधुरे पुरोऽवलग्ने दधति मयि प्रसभं गदाभियोगम् ।किमिति परिजने दयामृतार्द्रां दृशमपकारवतीव नो दधासि ॥३०॥स्फुटविकटविकस्वरप्रदीप्तज्वलनमहीनमहीन्द्रहार चक्षुः ।बलवदलवदर्पकालकामक्षयकरमाकरमाशु मुञ्च सिद्धेः ॥३१॥हिमकरमकरध्वजौ न रूपं कविधिषणौ धिषणौचितीं न तीव्राम् ।रणमरुणमरुत्सखौ जिगीषोरनुहरतो हरतोषिणो न तेजः ॥३२॥रविकरविकसत्सिताब्जशुभ्रप्रसृमरचामरचारुहासिनी श्रीः ।भव न भवनमुज्झति क्षणं यत्सुकृतवतां तव तां प्रणौमि शक्तिम् (भक्तिम्)॥ ३३॥यदभयद भवत्यवस्थितेऽन्तः समहिम नो हि मनो विशोकमासीत् ।विशदविशदकर्मकर्दमे तत्सपदि विषादि विषाद केन जातम् ॥३४॥नयविनयविशुद्धमन्तरुद्यद्दहनसमानसमाप्तरोषदोषम् ।यमनियमनियन्त्रितं मनो मे कुरु सविलासविलासिनीविरक्तम् ॥३५॥अवसरसरसालसालघूद्यन्मधुरवधूरवधूतचित्तचिन्तः ।स सकलकलधौतधौत मूर्तिस्तव नतिमानतिमात्रचित्रचिद्यः ॥३६॥मलमलमलघुं विहन्तुमाप्तुं मुदमुदयं समयं समर्थ्य चान्तः ।महमहमहहेश्वरप्रशंसामयमयमाश्रयमाश्रयं सुखानाम् (गुणानाम्)॥ ३७॥गुणिभिर्विबुधैर्हरीन्द्रमुख्यैर्भव संसाररिपोर्द्विषः स्तुतस्य ।हितमातनुते तव प्रसादादसुहृत्प्राणहरोऽपि पुण्यभाजाम् ॥३८॥अपि नाथ जनार्दनस्य विष्णोरपि वैकुण्ठ इति प्रसिद्धिभाजः ।अधिकंसरुषोऽपि चेद्भवत्तो झगितिप्रागभवत्सुदर्शनाप्तिः ॥३९॥अपि सर्वजनाऽविरुद्धबुद्धेरपि तीक्ष्णस्य परं जितक्रुधोऽपि ।न कथं मम साधुनाऽपि यद्वा जगदीशोऽसि विभुः किमुच्यते ते ॥४०॥सुमनःसुलभे तथा न नाके सुमनःसुन्दरसौरभे न चास्थाम् ।सुमनःसु च नाश्नुते सुधार्द्रासु मनः सुष्ठु यथा भवत्कथासु ॥४१॥श्रीर्देवी जयति यया कटाक्षितानां हस्तस्था सकलसमीहितार्थसिद्धिः ।सा यस्मादजनि तमब्धिमर्भकाय प्रादाद्यः कथमिव वर्ण्यते स देवः ॥४२॥नार्हत्यमन्दरयमन्दरयत्नलब्धास्पर्धां सुधा न वसुधाऽनवधिश्च यस्य ।सोऽयं नवः शिवनवः शिवतातयेऽस्तुविद्वत्सभाजनसभाजनभाजनं वः ॥४३॥इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचितेभगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ``प्रभुप्रसादनं'' नाम त्रयोदशं स्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : January 30, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP