संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः| नमस्कारात्मकं द्वितीयं स्तोत्रम् स्तुतिकुसुमाञ्जलिः प्रस्तावना सूचिपत्रम् स्तुतिप्रस्तावना प्रथमं स्तोत्रम् नमस्कारात्मकं द्वितीयं स्तोत्रम् आशीर्वादाख्यं तृतीयं स्तोत्रम् मङ्गलाष्टकं चतुर्थं स्तोत्रम् कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् हराष्टकं षष्ठं स्तोत्रम् सेवाभिनन्दनं सप्तमं स्तोत्रम् शरणाश्रयणं अष्टमं स्तोत्रम् कृपणाक्रन्दनं नवमं स्तोत्रम् करुणाक्रन्दनं दशमं स्तोत्रम् दीनाक्रन्दनं एकादशं स्तोत्रम् तमःशमनं द्वादशं स्तोत्रम् प्रभुप्रसादनं त्रयोदशं स्तोत्रम् हितस्तोत्रं चतुर्दशं स्तोत्रम् करुणाराधनं पञ्चदशं स्तोत्रम् उपदेशनं षोडशं स्तोत्रम् भक्तिस्तोत्रं सप्तदशं स्तोत्रम् सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् हसितस्तोत्रं विंशं स्तोत्रम् अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् द्विपदयमकं चतुर्विंशं स्तोत्रम् रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् महायमकस्तोत्रं त्रिंशं स्तोत्रम् नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् ग्रन्थकर्तुर्वंशवर्णनम् नमस्कारात्मकं द्वितीयं स्तोत्रम् स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे. Tags : stuti kusumanjaliकुसुमाञ्जलिजगद्धर jagaddharस्तुति नमस्कारात्मकं द्वितीयं स्तोत्रम् Translation - भाषांतर ॐ नमः परमार्थैकरूपाय परमात्मने ।स्वेच्छावभासिताऽसत्यभेदभिन्नाय शम्भवे ॥१॥नमः शिवाय निःशेषक्लेशप्रशमशालिने ।त्रिगुणग्रन्थिदुर्भेदभवभेदविभेदिने ॥२॥नमः समस्तगीर्वाणकिरीटघटिताङ्घ्रये ।जगन्नगरनिर्म्माणनर्मशर्मदकर्म्मणे ॥३॥नमस्तमस्वतीकान्तखण्डमण्डितमौलये ।तापान्धकारनिर्वेदखेदविच्छेदवेदिने ॥४॥नमः समस्तसङ्कल्पकल्पनाकल्पशाखिने ।विकासिकलिकाकान्तकलापाय स्वयम्भुवे ॥५॥नमस्तमःपराभूतभूतवर्गानुकम्पिने ।श्वेतभानुबृहद्भानुभानुभासितचक्षुषे ॥६॥नमः शमनहुङ्कारकतराऽऽतुरहर्षिणे ।भवाय भवदावाग्निविविग्नाऽमृतवर्षिणे ॥७॥नमः समदकन्दर्पदर्पज्वरभरच्छिदे ।दुर्वारभवरुग्भङ्गभिषजे वृषलक्ष्मणे ॥८॥नमो जन्मजरामृत्युभीतिसातङ्कपालिने ।करुणामृतसम्पर्कपेशलाय कपालिने ॥९॥नमो निसर्गनिर्विघ्नप्रसादामृतसिन्धवे ।संसारमरुसन्तापतापितापन्नबन्धवे ॥१०॥नमः सान्द्राऽमृतस्यन्दिघनध्वनितशोभिने ।महाकालाय भीष्मोष्मभवग्रीष्मक्लमच्छिदे ॥११॥नमो वाङ्मनसातीतमहिम्ने परमेष्ठिने ।त्रिगुणाष्टगुणाऽनन्तगुणनिर्गुणमूर्त्तये ॥१२॥हंसाय दीर्घदोषान्तकारिणेऽम्बरचारिणे ।स्वमहोमहिमध्वस्तसमस्ततमसे नमः ॥१३॥यः सुवर्णेन चन्द्रेण गाङ्गेयेनाग्निजन्मना ।काञ्चनेनश्रियं धत्ते तस्मै स्मरजिते नमः ॥१४॥निजाङ्गभङ्गभङ्ग्यापि भक्तानुग्रहकारिणे ।नमः स्तम्भितजम्भारिभुजस्तम्भाय शम्भवे ॥१५॥निःसामान्याय मान्याय न्यायमार्गोपदेशिने ।मूर्धन्याय वदान्याय धन्याय स्वामिने नमः ॥१६॥नमः संहृतकालाय कालायसगलत्विषे ।गङ्गाधौतकलापाय कलापायमविन्दते ॥१७॥जिष्णुना जिष्णुना लोकान् विष्णुना प्रभविष्णुना ।ब्रह्मणा ब्रह्मणाद्येन स्तुताय स्वामिने नमः ॥१८॥कुलशैलदलं पूर्णसुवर्णगिरिकर्णिकम् ।नमोऽधितिष्ठतेऽनन्तनालं कमलविष्टरम् ॥१९॥निमित्तमन्तरेणापि यः सपङ्कजनाभये ।प्रवर्तते विभुस्तस्मै नमः पङ्कजनाभये ॥२०॥नमः सोमार्धदेहाय सोमार्धकृतमौलये ।श्वेताभयसमुद्भूतश्वेताभयशसे नमः ॥२१॥विनतानन्दनं नागविग्रहोग्रमुखं दृशा ।विनायकमुपासीनं भजते स्वामिने नमः ॥२२॥नमो ब्रह्महरित्र्यक्षश्रवसे भवसेतवे ।जगत्सर्गस्थितिह्रासहेतवे वृषकेतवे ॥२३॥कर्णिकादिष्विव स्वर्णमर्णवादिष्विवोदकम् ।भेदिष्वभेदि यत्तस्मै परस्मै महसे नमः ॥२४॥यमेकमेव श्रयतो न जायतेस्पृहा परस्मै महतेऽपि नाकिने ।नमः समस्तापदुपेतपालन-व्रताय तस्मै विभवे पिनाकिने ॥२५॥विधौ जगत्सर्गविधौ यदाहितंप्रतिष्ठितं यत्स्थितिकारणे विधौ ।समूढमूढार्धविधौ लये च यत्पराय तस्मै महसे नमो नमः ॥२६॥नमः समुत्पादिततारकद्विषेनमस्त्रिधामाश्रिततारकत्विषे ।नमो जगत्तारकपुण्यकर्म्मणेनमो नमस्तारकराजमौलये ॥२७॥नमो नमस्तेऽमृतभानुमौलयेनमो नमस्तेऽमृतसिद्धिदायिने ।नमो नमस्तेऽमृतकुम्भपाणयेनमो नमस्तेऽमृतभैरवात्मने ॥२८॥नमस्तमःपारपरार्ध्यवृत्तयेनमः समस्ताध्वविभक्तशक्तये ।नमः क्रमव्यस्तसमस्तमूर्त्तयेनमः शमस्थार्पितभक्तिमुक्तये ॥२९॥विजयजयप्रदाय शबराय वराय नमःसकलकलङ्कसङ्करहराय हराय नमः ।जगदगदप्रगल्भविभवाय भवाय नमःप्रवरवरप्रकाशितशिवाय शिवाय नमः ॥३०॥इति काश्मीरकमहाकविश्रीजगद्धरभट्टविरचितेभगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ``नमस्कारात्मकं'' नामकं द्वितीयं स्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : January 30, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP