संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः|
करुणाराधनं पञ्चदशं स्तोत्रम्

करुणाराधनं पञ्चदशं स्तोत्रम्

स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.


अधुना तपसेव देवतामभि योगेन सरस्वतीमिव ।
सुहृदेव समीहितां श्रियं प्रगुणेनेव गुणेन संसदम् ॥१॥

प्रतिभामिव काव्यकर्म्मणा वसुना कीर्तिमिवार्थिगामिना ।
मनसीव शमेन निर्वृतिं सुकृतेनेव परत्र सद्गतिम् ॥२॥

करुणां हरिणाङ्कलक्ष्मणः सकलार्थाऽर्पणकल्पवल्लरीम् ।
विपदन्तकरीमुपासितुं स्तुतिलेशेन मनः प्रवर्तते ॥३॥

करुणां भवतो विकासिनीममलैरीश गुणैरलङ्कृताम् ।
नलिनीमलिनीव भारती भजतीयं मम वल्गुवादिनी ॥४॥

उपलक्ष्य तवान्धकारितां मयि धत्ते पदमन्धकारिता ।
विषमामवलोक्य ते दृशं मम दृष्टिर्विषमत्वमश्नुते ॥५॥

तव वीक्ष्य वृषाधरीकृतिं घटते मेऽपि वृषाधरीकृतिः ।
धृतवक्रकलत्वमीक्ष्य ते प्रथते वक्रकलत्वमेव मे ॥६॥

तव वीक्ष्य च भग्नकामतामुदितेयं मम भग्नकामता ।
करुणामपि ते समीक्ष्य मे करुणा गीर्न कथं प्रवर्तताम् ॥७॥

ससुरासुरमानुषं जगद्यदधीनं स भवानपीश्वरः ।
वशवर्तिपदे ययाऽर्पितो जयतीयं करुणैव तावकी ॥८॥

करुणा तव जीवितेश्वरीमतिशेते भगवन्नुमामपि ।
उमया हृतमर्धमेव यत्सकलस्त्वं पुनरेतया हृतः ॥९॥

करुणा तव शस्यते यया जितकामोऽपि भवान् वशीकृतः ।
इदमन्यदियं यदम्बिकामपि देवीमनयद्विधेयताम् ॥१०॥

जगदम्बुभुवा भुवाम्भसा सितभासा नभसा नभस्वता ।
धृतमुष्णरुचात्मना च यत्करुणाया महिमा तवेश सः ॥११॥

अहतप्रसरां प्रसादिनीं सहसाऽपोहिततापसम्पदम् ।
शरणं करुणातरङ्गिणीं प्रतिपद्ये तव देव पावनीम् ॥१२॥

प्रणयेन चिरं प्रसादिता मदनाशाकुलितेन चेतसा ।
तरुणी करुणा करोति ते न कथं नाथ हृदि स्थिरं पदम् ॥१३॥

भुजगा इव चन्दनद्रुमं ग्लपयन्तो विषमा नयन्ति माम् ।
परिहार्यदशामरातयो मदमानप्रमुखा धृतिच्छिदः ॥१४॥

करुणामरुणाऽनुजन्मनस्तनुमुच्चैरिव पक्षपातिनीम् ।
समुपैमि धृताच्युतश्रियं शरणं भूधरपुत्रिकापतेः ॥१५॥

स्फुरितारुणचारुचक्षुषा वपुषा निर्भरघर्मविप्रुषा ।
परुषाशयतामुपेयुषा सरुषा यत्प्रहरन्ति योषितः ॥१६॥

भगवन् दृढबद्धमूलयोर्द्विषतोरेष सहस्रशाखयोः ।
अविषह्यनिपातपीडयोरनुभावः कुसुमेषुरोषयोः ॥१७॥

अनयोः करुणैव तावकी नियतं मूलनिकृन्तनक्षमा ।
यमलाऽर्जुनयोरिवोर्जिता शिशुलीला नरकान्तकारिणः ॥१८॥

न विधिर्निधिलाभसम्भृतो न विनोदो मृगनाभिसम्भवः ।
न च शारदचन्द्रचन्द्रिका न कलं कोकिलकण्ठकूजितम् ॥१९॥

न शिशोरसमञ्जसं वचो न मृगाक्षीपरिरम्भविभ्रमः ।
मधुरा न कवीन्द्रभारती न च साम्राज्यविभूतिजृम्भितम् ॥२०॥

न रसायनपानकौतुकं न च शक्रासनवासवासना ।
परिपूरयितुं क्षमेत ते करुणाया हर षोडशीं कलाम् ॥२१॥

सुरभिर्न मम स्पृहास्पदं सुरभिर्दक्षिणमारुतोऽपि वा ।
सुरभिक्षुवितीर्णवाञ्छिता सुरभिर्नो करुणा यथा तव ॥२२॥

समुदेति यदश्रु शोकजं रुचिरानन्दमयं विभाति तत् ।
पुलकः प्रथते भयेन यः स चमत्कारकृतः प्रवर्तते ॥२३॥

क्लमजं दृशि यन्निमीलनं परमार्थानुभवादुदेति तत् ।
शरणं करुणामुपेयुषां कृतिनां चन्द्रकिरीट तावकीम् ॥२४॥

भजतः सरलेव भारती नरकङ्कालकृतग्रहस्य मे ।
करुणा प्रथतामुमापते कलिकालाञ्छितविग्रहस्य ते ॥२५॥

भगवन् मदिरामदोन्मदप्रमदापाङ्गतरङ्गभङ्गुरम् ।
जरसा तरसावसादितं वपुरायाति न यावदापदम् ॥२६॥

कुपितान्तककिङ्करेरितः कुटिलां तद्भ्रुकुटिं विडम्बयन् ।
न घनाञ्जनपुञ्जसन्निभो भुजगो यावदुपैति कन्धराम् ॥२७॥

न कुकर्मविपाककल्पिता नरके यावदुदेति वेदना ।
गदिता शमनानुगामिभिः परुषा गीरिव मर्मभेदिनी ॥२८॥

यदि तावदियं न गाहते हृदयं ते करुणातरङ्गिणी ।
बत दुःसहतापसम्पदामितरा का शरणार्थिनां गतिः ॥२९॥

न समानसमागमां तथा प्रमदाय प्रमदा यतात्मनाम् ।
शिवदा शिवदास्यकृद्यथा स्वदमानस्वदमाऽनघा मतिः ॥३०॥

एकः पुरन्दरपुरं दरवेल्लितभ्रूः
किंस्विज्जनङ्गमजनं गमयेन्महर्षिः ।
किं तामसं पदमसम्पदमिन्द्रमन्यो
धन्योदया भव दया भवतो न चेत्स्यात् ॥३१॥

आर्द्रे मनस्युदितमार्तजनोपताप-
सम्पर्कतोऽथ दृशि कन्दलितं शुभायाम् ।
वाचि क्षणात्कुसुमितं फलितं च कृत्ये
कारुण्यबीजमजरं जयतीन्दुमौलेः ॥३२॥

रोगैरुग्रैरखिलविगलत्सौष्ठवो नष्टचेष्टः
पर्यस्ताङ्गोऽशुचिनि शयने भग्नसर्वाभ्युपायः ।
यावज्जीवं विहितमहितं कर्म कर्तव्यमूढः
स्मृत्वा स्मृत्वा दलितहृदयः कातरः कान्दिशीकः ॥३३॥

तर्षोत्कर्षात्कलुषपरुषैः कर्मभिः शर्महृद्भि-
र्यत्सम्प्राप्तं कथमपि(कृशमपि)भृशं क्लेशयित्वा शरीरम् ।
रिक्थग्राहैर्द्रविणमखिलं लुण्ठ्यमानं तदग्रे
पश्यन्नश्यत्सकलकरणो दह्यमानः शुचान्तः(शुचार्त्तः)॥ ३४॥

शोकोद्रेकादविरलगलद्बाष्पपूर्णेक्षणाभिः
सत्पत्नीभिश्चकितचकितं(चकितैः)लोचनैरीक्ष्यमाणः ।
पुत्रैर्मित्रैः सहजसचिवैर्बन्धुभिर्भृत्यवर्गै-
राक्रन्दद्भिः करुणकरुणैः पीड्यमानः प्रलापैः ॥३५॥

स्वस्थावस्थैर्भृशमशुचिताशङ्किभिर्वेश्मगर्भा-
दन्तर्लीनस्मृतिरपि हठान्निष्ठुरैः कृष्यमाणः ।
यस्मिन्काले कवलितवपुर्मृत्युनाऽभ्येति भीतिं
तत्र त्राता क इव करुणामैश्वरीमन्तरेण ॥३६॥

वपुःखण्डे खण्डः प्रतिवसति शैलेन्द्रदुहितुः
शिखण्डे खण्डेन्दुः स्वयमपि विभुः खण्डपरशुः ।
तथापि प्रत्यग्रं शरणमुपयातं प्रति विभो-
रखण्डो व्यापारो जगति करुणाया विजयते ॥३७॥

जय जितामय जय सुधामय जय धृतामृतदीधिते
जय हतान्धक जय पुरान्तक जय कृतान्तकसंहृते ।
जय परापर जय दयापर जय नताऽर्पितसद्गते
जय जितस्मर जय महेश्वर जय जय त्रिजगत्पते ॥३८॥

स्थानाऽस्थाननियन्त्रणाविरहितो निर्हेतुरप्रार्थितः
सत्यं सत्त्वहितार्थ एव तरणेरम्भोभृतश्चोद्यमः ।
तृष्णातापशमक्षमस्तु न रविर्न ध्वान्तशीतान्तकृ-
न्मेघः स त्वखिलार्तिहृद्विजयते माहेश्वरोऽनुग्रहः ॥३९॥

बहुना किमत्र करुणामुमापतेः सुदशावतारकृतमूर्जितश्रियम् ।
भजताऽनिरुद्धहृदयेप्सितागमप्रवणां विभूतिमिव कैटभद्विषः ॥४०॥

इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``करुणाराधनं'' नामकं पञ्चदशं स्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : January 30, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP