संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः| द्विपदयमकं चतुर्विंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः प्रस्तावना सूचिपत्रम् स्तुतिप्रस्तावना प्रथमं स्तोत्रम् नमस्कारात्मकं द्वितीयं स्तोत्रम् आशीर्वादाख्यं तृतीयं स्तोत्रम् मङ्गलाष्टकं चतुर्थं स्तोत्रम् कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् हराष्टकं षष्ठं स्तोत्रम् सेवाभिनन्दनं सप्तमं स्तोत्रम् शरणाश्रयणं अष्टमं स्तोत्रम् कृपणाक्रन्दनं नवमं स्तोत्रम् करुणाक्रन्दनं दशमं स्तोत्रम् दीनाक्रन्दनं एकादशं स्तोत्रम् तमःशमनं द्वादशं स्तोत्रम् प्रभुप्रसादनं त्रयोदशं स्तोत्रम् हितस्तोत्रं चतुर्दशं स्तोत्रम् करुणाराधनं पञ्चदशं स्तोत्रम् उपदेशनं षोडशं स्तोत्रम् भक्तिस्तोत्रं सप्तदशं स्तोत्रम् सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् हसितस्तोत्रं विंशं स्तोत्रम् अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् द्विपदयमकं चतुर्विंशं स्तोत्रम् रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् महायमकस्तोत्रं त्रिंशं स्तोत्रम् नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् ग्रन्थकर्तुर्वंशवर्णनम् द्विपदयमकं चतुर्विंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे. Tags : stuti kusumanjaliकुसुमाञ्जलिजगद्धर jagaddharस्तुति द्विपदयमकं चतुर्विंशं स्तोत्रम् Translation - भाषांतर वचसि सरस्वति मे विभवं प्रकटय जातरसारम् ।नुतिभिरुपस्तुहि देवि भयं सकलसुरान्तरसारम् ॥१॥अविरलभस्मरजोधवलं विहितमहाशमलाभम् ।भज भगवत्यगजाधवलं श्रमशमनं विमलाभम् ॥२॥दातुमनुत्तमहावपुषं यः प्रबभूव नदीनम् ।नाथमनुत्तमहावपुषं तं भज देवि न दीनम् ॥३॥भक्तिरसस्तव देव सतां जयति महामृतहृद्यः ।चरणतले भवतो वसतां कलिमलपल्वलहृद्यः ॥४॥नयनमुदीर्य तमो हर मे निहतमहाविषमेषु ।येन पुनर्हतमोह रमे वैरिषु नो विषमेषु ॥५॥त्वयि वरदे रुचिरप्रमदाः प्रचलितचामरहस्ताः ।सदसि भजन्ति जनं प्रमदा रमयति सोऽपि रहस्ताः ॥६॥हिमकरकिरणसमूहसितं सुरसरिदम्बुविडम्बि ।वह भगवन् वदने हसितं मा भवतात्र विडम्बि ॥७॥उपमितमन्मथचापलतां भ्रुवमवधूय सहेलम् ।रविजदृशां घनचापलतां विघटय ता न सहेऽलम् ॥८॥रविसुतवर्त्म मम स्मरतः श्रुतयमकिङ्करवाणि ।दलति विभो हृदयं दरतः पुरहर किं करवाणि ॥९॥प्रथयति यस्तव हन्त महं नुतिवचसा रुचिरेण ।शुभशतसिद्धिसहं तमहं शिरसि वहाम्यचिरेण ॥१०॥भवभयभञ्जनभङ्गिविधौ भक्तिमतां प्रभवन्तम् ।विहितहितं विधुरेऽपि विधौ भजत जगत्प्रभवं तम् ॥११॥मदनमहीरुहदवदहनं शिरसि धृतामृतभासम् ।भजत दुरन्तविषादहनं प्रणतसमर्पितभासम् ॥१२॥वितर नदीरमणं शमनं शकलय खण्डय कामम् ।प्रथय धनञ्जयभयशमनं रचय पुरं हतकामम् ॥१३॥इति सदयेन यदाचरितं भुवनहिताय हरेण ।भजत तदस्य महाचरितं नुतिवचसार्तिहरेण ॥१४॥गतिरशुभं हर का तरतां भवति विनाश भवन्तम् ।इति चतुरं हर कातरतां रचय च मां शुभवन्तम् ॥१५॥वरद भवन्तमृते धरते भुवनमिदं सकलं कः ।इति नतिमिन्दुकलाधर ते भजति न कः सकलङ्कः ॥१६॥इयमखिलेतरजातिमतां जयति जनिः प्रथमा नः ।सेव्यभुवं विभुरेति मतां यत्र हृदि प्रथमानः ॥१७॥तुभ्यमयं शितिनाल सतां वरद करोमि नमोऽहम् ।शमय महेश ममालसतां येन भजामि न मोहम् ॥१८॥भजसि यया किल कामदया नतजनमीश समस्तम् ।सा मम ते हतकाम दया गमयतु वैशसमस्तम् ॥१९॥येन शुचं हतलोभ जनस्त्यजति सुधामधुरेण ।तेन विभो वचसा भज नः प्रकटितधामधुरेण ॥२०॥मदयसि येन जनं सकलं मधुरगिरा वदनेन ।मयि वचनं परिहासकलं प्रतिदिश तावदनेन ॥२१॥येन सतां विपदानयनं दुरितमदभ्रमहारि ।दिश विशदं मयि तन्नयनं मदनमदभ्रमहारि ॥२२॥जगदखिलं यदि नन्दयसे तिमिरमुषा रसितेन ।इममपि किं न जनं दयसे तेन तुषारसितेन ॥२३॥दुरितहृतौ विषसाद करः क्वापि न ते रमणीयः ।अपि स भयं विषसादकरः शमयतु घोरमणीयः ॥२४॥भयहरणे महिताभ यतः प्रथयसि जातरसत्वम् ।मामपि पाहि महाभयतः पुरहर कातरसत्त्वम् ॥२५॥भजामि मायाशबरं वरं वरं दिशन्तमन्तं कुनयं नयन्नयम् ।विजित्य कृत्यप्रभवं भवं भवं विखण्डितक्लेशपरम्परं परम् ॥२६॥मलक्षयमलक्षयं भव भवत्प्रसादादहंशिवस्तव शिव स्तवः प्रविहितस्ततोऽयं मया ।समुद्धर समुद्धर व्यसनसङ्कटादर्कजःसमक्षमसमक्षमः स्पृशति चेन्न जिह्वेषि किम् ॥२७॥सन्त्यन्याः कृतिनामनामयगिरः का नाम नामन्थरान ज्ञानां हृदि वास्तवास्तव मुदं के वा स्तवास्तन्वते ।वागेषा त्वतिसाध्वसाध्वपतिता यत्साध्वसाध्वभ्यधा-त्तन्मन्ये महिमानमानयति ते स्थेमानमानन्दकृत् ॥२८॥इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचितेभगवतो महेश्वर्स्य स्तुतिकुसुमाञ्जलौ``द्विपदयमकं'' नाम चतुर्विंशं स्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : January 30, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP