कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम्
स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.
आपन्नतापहरणप्रवणा घृणेव
त्वङ्गत्तरङ्गसुभगा गगनापगेव ।
पीयूषसारशिशिरा शशभृत्कलेव
वाणी शिवैकशरणा जयतीश्वरीव ॥१॥
यो मूर्धनि स्रजमिवोद्वहते धरित्री-
मुष्णीषतां श्रयति यस्य स भोगिराजः ।
यस्यामसौ वसति वाक्पतिरुक्तिदेवीं
तां ये वहन्ति हृदि ते कवयो जयन्ति ॥२॥
धन्याः शुचीनि सुरभीणि गुणोम्भितानि
वाग्वीरुधः स्ववदनोपवनोद्गतायाः ।
उच्चित्य सूक्तिकुसुमानि सतां
विविक्तवर्णानि कर्णपुलिनेष्ववतंसयन्ति ॥३॥
श्रोत्राण्यनर्गलगलन्मधुबिन्दुगर्भ-
सन्दर्भसुन्दरपदोपचितैर्वचोभिः ।
धन्याः सतां सुकवयः सुखयन्ति तेऽपि
तेषामकृत्रिमचमत्कृतिसाधुवादैः ॥४॥
ते केचिदस्खलितबन्धनवप्रबन्ध-
सन्धानबन्धुरगिरः कवयो जयन्ति ।
येषामचर्वितरसापि चमत्करोति
कर्णे कृतैव भणितिर्मधुरा सुधेव ॥५॥
तेऽनन्तवाङ्मयमहार्णवदृष्टपाराः
सांयात्रिका इव महाकवयो जयन्ति ।
यत्सूक्तिपेलवलवङ्गलवैरवैमि
सन्तः सदःसु वदनान्यधिवासयन्ति ॥६॥
जिह्वाग्ररङ्गभुवि सत्कवितुर्विलास-
लास्योत्सवव्यसनिनी स्वयमुक्तिदेवी ।
भ्रूकाण्डकुण्डलकिरीटशिरोधराणां
नृत्तोपदेशगुरुतां कृतिनामुपैति ॥७॥
आवर्जयन्ति मठराञ्जठरार्थमात्र-
पात्रीकृतार्थकणिका गणिकाविटाद्याः ।
प्रौढान् पुनर्भुजगभूषणभक्तिसिक्त-
सूक्तावलीविरचनाचतुराः कवीन्द्राः ॥८॥
धन्यः स कोऽपि सुकविः कविकर्मकृत्त-
लोकार्ति कार्तिकतुषारकरानुकारि ।
गायन्ति यस्य कृतिनस्त्रिजगत्पवित्रं
चित्रं चरित्रमिव बालमृगाङ्कमौलेः ॥९॥
त्रैलोक्यभूषणमणिर्गुणिवर्गबन्धु-
रेकश्चकास्ति सविता कविता द्वितीयः ।
शंसन्ति यस्य महिमातिशयं शिरोभिः
पादग्रहं विदधतः पृथिवीभृतोऽपि ॥१०॥
यस्य स्रवन्त्यमृतमेव मुखे तुषार-
हाराभिरामरुचिरञ्चितवक्रभङ्गिः ।
सूक्तिर्द्युसिन्धुरिव मूर्ध्नि हरस्य चन्द्र-
लेखेव वा वसति तं सुकविं नमामः ॥११॥
याता गुणैरुपचयं विमला प्रकृत्या
नैसर्गिकीं परिणतिं प्रथमां वहन्ती ।
बुद्धिः सतां शशिकलामुकुटप्रसादा-
द्वाणी च न क्वचिदपि प्रतिघातमेति ॥१२॥
चन्द्रावचूडचरणस्मरणप्रसाद-
सन्दर्भनिर्भरगभीरगिरां कवीनाम् ।
सूक्तिर्बिभर्ति मुखपङ्कजरङ्गनृत्य-
द्वाग्देवताकनकनूपुरनादलीलाम् ॥१३॥
काव्यं विभाव्य निजमर्धनिमीलितानि
नैसर्गिकं जहति चापलमीक्षणानि ।
गृह्णन्ति तन्मसृणतां सहजां विहाय
भ्रूवल्लयस्तु कृतिनां कविपुङ्गवानाम् ॥१४॥
नीहारहारधवलस्य जयत्यपूर्वः
पाकः स कोऽपि सुकृतस्य कृतस्य पूर्वम् ।
यः सम्प्रति प्रतिफलत्यमलासु बाल-
चन्द्रावचूलनुतिसूक्तिषु सत्कवीनाम् ॥१५॥
सूक्ष्मार्थदर्शनविमर्शवशप्ररूढ-
भ्रूकाण्डताण्डवनिवेदितचिद्विकासम् ।
आस्वाद्य यत्सुमतयो मुखमुद्वहन्ति
सूक्तामृतं जयति तत्कविकुञ्जराणाम् ॥१६॥
शब्दार्थमात्रमपि ये न विदन्ति तेऽपि
यां मूर्छनामिव मृगाः श्रवणैः पिबन्तः ।
संरुद्धसर्वकरणप्रसरा भवन्ति
चित्रस्थिता इव कवीन्द्रगिरं नुमस्ताम् ॥१७॥
लभ्यः स कुत्र सुजनः स्वकृतीः प्रदर्श्य
भ्रूकन्दलीयुगलमाकलयन्ति यस्य ।
नेत्रोत्पलोपरिपरिस्फुरदुत्तरङ्ग-
भृङ्गावलिद्वितयविभ्रमभृत् कवीन्द्राः ॥१८॥
स्फारेण सौरभभरेण किमेणनाभे-
स्तद्घानसारमपि सारमसारमेव ।
स्रक्सौमनस्यपि न पुष्यति सौमनस्यं
प्रस्यन्दते यदि मधुद्रवमुक्तिदेवी ॥१९॥
संसारमारवपथप्रथमानखेद-
विच्छेदकोविदमिदं कविकर्म्म जीयात् ।
विस्मारितं यदमुना यमुनासनाथं
पाथः प्रसिद्धमपि वैबुधसैन्धवं नः ॥२०॥
गाम्भीर्यशालिनि शुचावमृतौघशीते
नीते सदा सदनतां मदनान्तकेन ।
यस्यैकपिङ्गलगिरेरिव मानसेऽन्त-
रर्थाः स्फुरन्ति स विना सुकृतैः क्व लभ्यः ॥२१॥
यस्य द्युसिन्धुलहरीशुचयो न कस्य
दृष्टिप्रसादमवलोकयतोऽर्पयन्त्यः ।
गावः सुधारसमुचः प्रसरन्ति दिक्षु
विश्वैकभूषणमसौ जयति द्विजेन्द्रः ॥२२॥
संयोगमेत्य परमर्थपरिष्कृतस्य
पादान्तगोऽपि गुरुतां लघुरेति यस्य ।
तं शङ्करस्तुतिपरं परिशुद्धवृत्तं
सुश्लोकमाप्य मुदमेति न कस्य चेतः ॥२३॥
इह हि महिमा मायामोहप्ररोहतिरोहित-
त्रिजगदगदङ्कारः सारस्वतः प्रथते सताम् ।
प्रभवति जरामृत्युव्याधिप्रबन्धनिबन्धन-
व्यसनजनितव्यापत्तापक्लमापगमाय यः ॥२४॥
चमत्कारोत्कर्षं कमपि कमनीयं विमृशतां
दिशन्ती सा काचिज्जयति कविवाचां परिणतिः ।
यदासृष्टे (यदातुष्टे)चेतस्यमृतमिति निश्रेयसमिति
प्रियं धामेत्युच्चैः पदमिति समुद्यन्ति मतयः ॥२५॥
मधुस्यन्दी मन्दीकृतविपदुपाधिर्भवमरु-
भ्रमक्लेशावेशप्रशमकमनीयो विजयते ।
अखण्डश्रीखण्डद्रवनवसुधासारसरसः
प्रसादो वाग्देव्याः प्रवरकविकाव्यामृतवपुः ॥२६॥
घनानन्दस्यन्दोद्गत (स्पन्दोद्गत)विपुलवाष्पार्द्रनयनं
सलीलभ्रूवल्लीवलनविवलद्भालपुलिनम् ।
उदञ्चद्रोमाञ्चस्तवकितकपोलं विदधते
सुधार्द्रा धन्यानां वदनमनवद्याः कविगिरः ॥२७॥
धन्यानाममृतं द्रवन्ति हृदये कर्णे वलन्मल्लिका-
लङ्कारस्तवकन्ति कण्ठपुलिने मुक्ताकलापन्त्यपि ।
शैलान्दोलितदुग्धसिन्धुलहरीभङ्गाभिरामोद्गमा
श्यामाकामुकखण्डमण्डनकथासन्दर्भगर्भा गिरः ॥२८॥
धन्यानां भणितिच्छलेन वदनेषूद्यन्ति हृत्कर्णिका-
धाम्नः सूक्तिसुधावबोधविधुतापीडस्य चण्डीपतेः ।
किं जूटाहिकिरीटरत्नरुचयः किं स्रग्रजःसूचयः
किं मौलीन्दुमरीचयः किममरस्रोतस्वतीवीचयः ॥२९॥
सान्द्रानन्दकरे धृतामृतकरे नास्त्येष राकाकरे
न प्रौढप्रसरे निसर्गशिशिरे स्वर्गापगानिर्झरे ।
गाढप्रेमभरे स्मरज्वरहरे नोद्दामरामाधरे
यः शम्भोर्मधुरे स्तुतिव्यतिकरे ह्लादःसुधासोदरे ॥३०॥
ओजस्वी मधुरः प्रसादविशदः संस्कारशुद्धोऽभिधा-
भक्ति व्यक्तिविशिष्टरीतिरुचितैरर्थैर्धृतालङ्कृतिः ।
वृत्तस्थः परिपाकवानविरसः सद्वृत्तिरप्राकृतः
शस्यः कस्य न सत्कविर्भुवि यथा तस्यैव सूक्तिक्रमः ॥३१॥
प्राप्ता कल्पलतेव चेद्भगवती वागीश्वरी कैरपि
प्राक्पुण्यैः स्वपरोपकारकरणप्रौढा पुनर्दुर्लभा ।
अज्ञैस्तज्ज्ञजनोपदेशविहितावज्ञैर्दुराशाहतै-
रस्ता दुर्मदकर्दमे फलति किं पापं सशापं विना ॥३२॥
विस्रब्धं विलसन्त्युपस्कृतपदन्यासा विलासालसा
साहङ्कारमकारणारिभिरभिध्याताऽभिजाताकृतिः ।
क्षिप्ता दृप्तनृपान्धकूपकुहरे दाशैरिवाशाग्रहै-
र्ग्रस्तैः सूक्तिनिभेन तारकरुणं गौरीदृशी रोदिति ॥३३॥
उष्णं निःश्वसिति क्षितिं विलिखति प्रस्तौति न प्रेयसः
प्रीतिं सूक्तिभिरीशितुः करतले धत्ते कपोलस्थलम् ।
वाग्देवी हृदयज्वरेण गुरुणा क्रान्ता हताशैर्वृथा
नीताविष्कृतकोपनिष्कृपनृपस्तोत्रत्रपापात्रताम् ॥३४॥
अस्थाने गमिता लयं हतधियां वाग्देवता कल्पते
धिक्काराय पराभवाय महते तापाय पापाय वा ।
स्थाने तु व्ययिता सतां प्रभवति प्रख्यातये भूतये
चेतो निर्वृतये परोपकृतये प्रान्ते शिवावाप्तये ॥३५॥
एताः पूर्वकविप्रणीतविविधग्रन्थाऽमृतास्वादन-
क्रीडादुर्ललितं हरन्ति हृदयं वाचः कथं धीमताम् ।
केषाञ्चित्पुनरीश्वरस्तुतिपदव्याहारहेवाकिनां
यास्यन्ति स्पृहणीयतां भुवि भवक्लेशस्पृशां मादृशाम् ॥३६॥
इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``कविकाव्यप्रशंसाख्यं'' नाम पञ्चमं स्तोत्रं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : January 30, 2026

TOP