संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः|
एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम्

एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम्

स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.


उदारवर्णैरथ सङ्गतैरहं
मुदाभिधावद्भिरुपोढलक्षणैः ।
पदैरमन्दध्वनिभिर्महेश्वरं
प्रभुं प्रपद्ये तुरगोत्तमैरिव ॥१॥

शिवेन देव्या जगृहे करोहित-
स्त्रसन्यदा कुङ्कुमपङ्करोहितः ।
तदास्य योऽर्काग्निनिशाकरोहितः
स्तवः स वः स्यादभयङ्करो हितः ॥२॥

अनञ्जनं नेत्रविकासकारणं
निरङ्कुशं कर्णकरेणुवारणम् ।
अचन्द्रिकं चित्तचकोरपारणं
क्रियाद्व ईशार्चनमार्तिदारणम् ॥३॥

सुखाकरोति क्लमहृन्न माधव-
स्तथामरौ वोपवनेऽपि माधवः ।
यथा शरीरार्धनिरुद्धमाधवः
प्रशस्यमानो भगवानुमाध्वः ॥४॥

दिनान्तरात्र्यागमयोरिवाथवा
सुरस्रवन्तीयमुनौघयोरिव ।
उमारमाकामुकयोः समागमः
सिताऽसितस्तापमघं च हन्तु वः ॥५॥

उमाख्यमासाद्य महानियोऽगतः
प्रियं निधिं सौख्यमहानि यो गतः ।
करोतु युष्माकमहानि योगतः
शुभान्यसाविद्धमहा नियोगतः ॥६॥

द्विजाधिपाधिष्ठितशेखरं महा-
भुजं गविन्यस्तभरं समुद्वहन् ।
वपुः सदाभङ्गदयासमाश्रितं
तनोतु वः सम्पदमच्युतः शिवः ॥७॥

अघद्रुमध्वंसमहाकरेणवः
सुधासिताः पावककल्करेणवः ।
वसन्ति यस्मिन्नभयङ्करेऽणवः
करोतु शं तेन हरः करेण वः ॥८॥

धृतिस्त्वदीयेन सुदर्शनेन मे
भवत्यभेदस्तु हरे किमुच्यते ।
परस्परं शङ्करकृष्णयोरिदं
वचः सुखायैकमुखोत्थमस्तु वः ॥९॥

न जन्म यस्याद्रिनिवास दारुणः
स ते ज्वलत्यक्ष्णि शिखी सदारुणः ।
यमं न किं तेन शिरःसदाऽरुण-
स्त्वदाश्रितं किं ग्रसतां स दारुणः ॥१०॥

सदा नगोपाहितबन्धुरस्थितिं
स्तुवे पिनाकेन समेधितश्रियम् ।
महर्द्धिकं सोपशमे कृतादरं
हरं हरिं वा तरसा रसादहम् ॥११॥

मनो भृशं भ्राम्यति बालिशं भवे
जहाति भक्तिं च दिवानिशं भवे ।
अतः परं नाम किमस्य शं भवे-
न्निवेदयेत्स्वं यदि कर्म शम्भवे ॥१२॥

समुद्रजन्मानमुपादधत्करे
सितद्युतिं वक्त्रनिवेशनोचितम् ।
रतः सदास्कन्दकदर्थनाहतौ
हरो हरिर्वा दुरितं धुनोति वः ॥१३॥

जिगीषवः क्लेशपरम्पराभवं
वनेषु भिक्षाधृतकर्परा भवम् ।
असोढवन्तः कुनृपात्पराभवं
भजन्ति सन्तः स्तुतितत्परा भवम् ॥१४॥

कदा दधानो घनशान्तिशोभिनीं
शुभाम्बरालङ्करणोचितां तनुम् ।
भजाम्यहं दृष्टिनिवेशनौचितीं
शशीव तिग्मांशुरिवाऽच्युतस्य ते ॥१५॥

किमाम्रवन्या सृमरालवालया
प्रियाकबर्या किमरालबालया ।
सरःश्रिया किं समरालबालया
धृतेशभक्तिर्ह्यमराऽलवाऽलया ॥१६॥

कदाऽनवद्यामतिनिर्मलामहं
महानदीनां सलिलैः प्रसादिभिः ।
वहामि हंसैरुपशोभिताम्बरां
प्रभुप्रसादाच्छरदं यथा तनुम् ॥१७॥

प्रभुं प्रपत्तुं स्थलमेहि मालयं
महीधरं मानस वा हिमालयम् ।
रसातले वौपयिकाहिमालयं
श्रयन्तमन्वेषय याहि मा लयम् ॥१८॥

निधाय चक्षुर्दहतो मनोभवं
न कामहानिं प्रवितन्वतो दृशा ।
अनष्टमूर्तेर्दधतोऽष्टमूर्तितां
जयन्ति शम्भोर्विविधा विभूतयः ॥१९॥

समाश्रितस्त्वां करुणापराऽज यः
क्वचिन्न तस्यास्ति रणे पराजयः ।
परे तमारब्धपरस्पराजयः
श्रयन्ति नाथं धृतचापराजयः ॥२०॥

ध्रुवं स कृष्णस्तमधश्चकार य-
श्चिराय पक्षद्वयकल्पितस्थितिम् ।
द्विजाधिराजं विनतार्तिहारिणं
बिभर्ति यो मूर्ध्नि स तु त्वमीश्वरः ॥२१॥

विभुं विरिञ्चोऽपि न वेद नाम यं
नतस्य दुःखं घनवेदनामयम् ।
निहन्ति तस्यापि भवेदनामयं
शुचं भजेन्नाप्यनिवेदनामयम् ॥२२॥

समुद्रजालिङ्गितकण्ठपीठं
सदैव सत्याहितसक्तिमच्युतम् ।
अनन्यगा यस्य नवोक्तिमौक्तिकै-
रलङ्करोति प्रचुरा सरस्वती ॥२३॥

अभीष्टदायी यमधामहोदयाद्-
ध्वनिर्यया श्वेतनृपे महोदया ।
धृतिं दिशन्ती नमतामहो दया
क्व सा तवास्मास्वधुना महोदया ॥२४॥

अयमहं पुरुषोत्तममच्युतं
बलिजितं कृतसत्यपरिग्रहम् ।
अचलितश्रियमाश्रितनन्दकं
धृतसुदर्शनमीश्वरमाश्रये ॥२५॥

वितन्वती भक्तिमतां समानतां
बिभर्ति या कल्पलतासमानताम् ।
कथं दधन्मूर्तिमिमां समान्तां
तव स्तुतिं वच्मि शतं समा न ताम् ॥२६॥

इह परशुचितोर्जिताकृति-
द्विजपतिशेखरतां बिभर्ति यः ।
त्रिजगति गिरिशं सतां हितं
प्रणमतरामतनुं तमच्युतम् ॥२७॥

यमं ययारब्धमहामहाऽनयः क्षयं
दृशा यस्य स शर्महाऽनयः ।
ददासि चेत्तामुदितो महानयः
क्षताश्च विघ्नाः कृतकामहानयः ॥२८॥

अनलसम्भृतकान्ति दधत्सदा
रुचिरमारचितास्पदमीक्षणम् ।
सुमतये विधुरोपकृतिप्रियो
भवतु वो भगवान् भगवानिव ॥२९॥

न जातु तज्ज्ञाः कृतिनोऽवहन्त या-
मधोगतौ कारणमेव हन्त या ।
त्वयि प्रसन्ने सुमतावहन्तया
न यामि दुःखं नरकावहं तया ॥३०॥

प्रियां मुखे यो धृतपञ्चमस्वरां
गिरं वहन्तीममृतस्य सोदराम् ।
विशेषविश्रान्तरुचिर्बिभर्ति मां
वपुष्यसौ पुष्यतु वः शिवोऽच्युतः ॥३१॥

नुतिर्मयेयं भजतां हिताय ते
कृताऽनया शर्म सतां हि तायते ।
मनस्यपि ग्लानिरपोहिता यते
धृता यदेषा श्रुतिसंहितायते ॥३२॥

अमेयमहिमा हिमाद्रितनया-
नयात्तहृदयो दयोर्जितमतिः ।
विभुर्भवरुजं रुजन्नविकलं
कलङ्करहितं हितं दिशतु वः ॥३३॥

उदारकरुणोऽरुणोर्जितमहा
महाहिवलयो लयोज्झितवपुः ।
अघौघशमनो मनोधृतमुदा-
मुदात्तविभवो भवो भवतु वः ॥३४॥

एकः पादोदकमधिशिरः श्लाघ्यमन्यस्य धत्ते
चक्रे पूजां नयनकमलेनाऽपरस्य द्वितीयः ।
इत्यन्योन्यं प्रकृतिमहतामन्तरज्ञौ गुणानां
हर्षोत्कर्षं कमपि कुरुतां कामकंसद्विषौ वः ॥३५॥

यस्मिन्नद्रिसमुद्रजावहनयोरुत्सृज्य नैसर्गिकं
वैरं केसरिकुञ्जरप्रवरयोः सौहार्दहृद्या स्थितिः ।
यस्मिन्नप्यहिराजपन्नगभुजौ निर्व्याजमैत्रीयुजौ
निष्प्रत्यूहमसौ महापुरुषयोः सन्धिर्निबध्नातु वः ॥३६॥

इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``एकान्तरयमकस्तोत्रं'' नामैकोनत्रिंशं स्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : January 30, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP