संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः|
कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम्

कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम्

स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.


काञ्चीकाञ्चनकिङ्किणीकलकलः शिञ्जानमञ्जीरजो
झाङ्कारः सकलाङ्गभूषणमणिश्रेणीझणाडम्बरः ।
वाग्देव्याः प्रचलस्ख (प्रचलोच्छलत्)लद्भुजलताक्षेपक्वणत्कङ्कण-
क्वाणश्चङ्कमणक्रमे विजयते चन्द्रार्धमौलेः स्तवः ॥१॥

स्वामिन् वाङ्मयदेवता भगवती स्वेच्छाविहारक्रिया-
क्रीडाकाननमाननं भव भवद्भक्तस्य नूनं व्यधात् ।
नोचेन्नूतननूतनः प्रतिदिनं हृद्यः समुद्यन्क्रमा-
दस्मिन्नुज्ज्वलवर्णकोमलपदन्यासः कथं लक्ष्यते ॥२॥

स्वैरं कैरविणीकुटुम्बकलिकालङ्कार सारस्वत-
स्फारस्वारसिकप्रसादविशदस्वाधीनवाग्देवताः ।
धन्याः सत्कवयस्तव स्तवनिभात्त्वद्भक्तिभाजां विप-
त्तापाऽपाकृतये दिशन्ति शिशिरस्निग्धाः सुधाविप्रुषः ॥३॥

यस्य त्वन्नमनैः शिरोदशशती सौन्दर्यसन्दर्शनै-
श्चारित्रश्रवणोत्सवैश्च भवतश्चक्षुःसहस्रद्वयम् ।
साफल्यं रसनासहस्रयुगलं त्वत्कीर्तनैश्चाश्नुते
त्रैलोक्याद्भुतमूर्तये भगवते शेषाय तस्मै नमः ॥४॥

राकेन्दोरपि माधवादपि सतां सङ्गादपि स्वामिनः
सम्मानादपि कामिनीकुचयुगाभोगोपभोगादपि ।
शम्भो शर्व शशाङ्कशेखर शिव श्रीकण्ठ विश्वेश्वर
त्रायस्वेति सतां हरन्ति हृदयं सान्द्रामृतार्द्रा गिरः ॥५॥

श्यामाकामुकमाधवादिविरसं नासीरकस्तूरिका-
काश्मीरादिनिरादरं मलयजालेपावलेपावहम् ।
कुर्वन्ति प्रविधूतनूतनवधूगाढाङ्गसङ्गस्पृहं
चेतः कस्य न शाम्भवस्तवसुधासिक्ताः सतां सूक्तयः ॥६॥

यस्यैताः स्तवसूक्तयस्तव मुखे खेलन्ति हेलाजित-
ज्वालाजालजटालकालरसनासंरम्भसम्भावनाः ।
वल्गन्त्यस्य पुरः पुरन्दरपुरीकान्ताकटाक्षच्छटा-
बाणश्रेणिशरव्यदिव्यवपुषः स्वर्वन्दिवृन्दोक्तयः ॥७॥

हर्षोत्कर्षविवर्द्धिनीः परिणतक्षौद्रद्रवस्पर्धिनी-
र्धन्यानां मधुरास्तव स्तवगिरः कर्णे चिरं कुर्वताम् ।
मान्द्यं विन्दति नन्दनेन्दुवदनासन्दिग्धमुग्धाधर-
प्रोन्मीलन्मधुबिन्दुसुन्दरसुधासन्दोहदो दोहदः ॥८॥

सद्विद्याभ्यसनः सभानिवसनः सौधासनाध्यासनः
शुद्धान्नग्रसनः सुधौतवसनः सत्साध्वसध्वंसनः ।
सह्लादोल्लसनः प्रसन्नहसनः सम्पन्नसद्वासनः
सत्काव्यव्यसनः सुधार्द्ररसनः शम्भोः कृतोपासनः ॥९॥

राकाकान्तरुचः क्षताखिलशुचः पीयूषधारामुचः
स्वान्तक्लान्तिहृतश्चमत्कृतिकृतः सङ्गीतभङ्गीभृतः ।
शम्भोरम्बुदनादविह्वलवलद्बालाङ्गनालिङ्गन-
ह्लादस्वादसुखस्पृहामिह जहत्त्यन्तर्मृशन्तः स्तुतीः ॥१०॥

सारासारविदः सतां भयभिदः प्रह्वोपतापच्छिदः
कारुण्यार्द्रहृदः प्रसन्नसुहृदः स्फारीभवत्संविदः ।
त्राताशेषविशः प्रकाशितदिशः कीर्त्या महीनिर्विशः
कर्षन्तीश निशः प्रसक्तसुदृशस्त्वत्पादपीठस्पृशः ॥११॥

दुर्धर्षर्द्धिपुषः सहर्षवपुषस्तर्षप्रकर्षप्लुषः
सर्वोत्कर्षजुषः क्षणक्षतरुषः कल्याणपूर्णायुषः ।
उत्सर्पत्सहसः समिद्धमहसः क्षिप्तोर्जितानेहस-
श्चित्तान्तप्रहसः सुखाप्तरहसस्त्वद्ध्यानधौतांहसः ॥१२॥

कालं बालकुरङ्गकेतनकृतोत्तंसप्रशंसामृत-
स्यन्दास्वादविनोदनैर्यदनयन्निःस्पन्दमन्दं मनः ।
तस्यान्यत्र कविक्रमे कमलिनीकिञ्जल्कपानोत्सव-
व्यग्रस्येव मधुव्रतस्य कुसुमेऽन्यस्मिन्कथं स्याद्रतिः ॥१३॥

खट्वाङ्गे मुकुटे करे श्रवणयोः प्रायेण यो भूषणं
ब्रह्मोपेन्द्रपुरःसरामरशिरःश्रेणिं बिभर्ति प्रभुः ।
तत्पादाम्बुजभक्तिभावितमतिर्धन्यः शिरोभूषण-
ख्यातिं निश्चितमश्नुते त्रिभुवनप्रष्ठप्रतिष्ठाजुषाम् ॥१४॥

रोहन्मोहमहीरुहोरुपरशुर्दुर्वारमारज्वर-
प्लोषोल्लाघभिषग्विषौघविषमक्लेशोग्रशापावधिः ।
ताम्यल्लोचनचक्रवाकमिथुनब्रध्नोदयश्चन्द्रिका-
पूरश्चित्तचकोरकस्य जयति श्रीकण्ठपूजाविधिः ॥१५॥

अर्चां वीक्ष्य विचित्रचारुरचनां चन्द्रार्धचूडामणे-
र्व्यक्तिं भक्तिचमत्कृतिः कृतधियो यस्यैति चित्ते मुहुः ।
तस्मिन्सस्पृहमर्पिताः सचकिताः साचीकृताः सस्मिताः
साकूताश्च पतन्ति पक्ष्मलदृशां प्रेमामृतार्द्रा दृशः ॥१६॥

स्वामिन् सौमनसं निबध्य वपुषि स्रग्दाम दृग्दामभि-
र्भस्मीभावितमन्मथस्य भवतो भिन्दन्ति भक्तिस्पृशः ।
दोलान्दोलनविह्वलेन्दुवदनादोःकन्दलीचन्दन-
स्यन्दानन्दनिमीलितार्धनयनास्तापव्यथां मान्मथीम् ॥१७॥

स्वामिन् यस्तव पादपङ्कजयुगं भक्त्याऽभ्यषिञ्चन्मुहुः
पूजान्तेषु नमन्नमन्दमुदितानन्दाश्रुलेशोत्करैः ।
तस्याङ्घ्री ललिताक्षिपक्ष्मपटलप्रान्तस्रुतार्णःकण-
श्रेणीभिः स्नपयन्त्यनङ्गविगलन्मानाः कुरङ्गीदृशः ॥१८॥

त्वामक्षामशुभानुभावविभवं भालाग्निकीलावली-
संरम्भादभियोक्तुमक्षमतया साक्षादुपेक्ष्य स्मरः ।
नूनं हन्ति निरन्तरं भव भवत्सेवैकहेवाकिनं
कर्णाभ्यर्णवलत्कटाक्षविशिखश्रेणीभिरेणीदृशाम् ॥१९॥

आदौ भक्तिवयस्यया परिचयान्नीतोन्मुखत्वं शनै-
रारूढा विषमेषुवर्त्मसु चिरं भ्रान्ताऽथ तान्तेः पदम् ।
दूतीकृत्य नवानवद्यवचसं देवीं पुरो भारती-
मेषा त्वामुपगन्तुमिच्छति पतिं प्रोद्दामकामा मतिः ॥२०॥

धूमोद्गारगभीरघस्मरवपुर्निर्भर्त्सितार्कप्रभं
स्फूर्जत्फूत्कृतकर्बुरीकृतसितश्रीकान्तदेहद्युति ।
ग्रासीकर्त्तुमुदग्रविग्रहगलद्वह्निस्फुलिङ्गं विषं
को जग्राह करेऽमरेश्वरनुतस्त्वामन्तरेणाऽपरः ॥२१॥

क्रोधोद्भ्रान्तकृतान्तकिङ्करकरद्रोणीमुखप्रेङ्खित-
व्यालालिङ्गितकन्धरः प्रकटयन्नाक्रन्ददीनां गिरम् ।
चक्षुर्दिक्षु विदिक्षु च क्षतधृतिर्निक्षिप्य रक्षाक्षमं
काङ्क्षन्कं शरणं वृणोति मरणे त्वामन्तरेणातुरः ॥२२॥

वर्षन्ती भवदोषपोषपरुषप्लोषप्रमोषक्षमं
पीयूषं विशदांशु(डशनांशु)भिर्दश दिशत्काशप्रकाशा दिशः ।
कर्षन्ती विषमं तमः प्रमथितालोकस्य लोकस्य गी-
श्चान्द्री मूर्ध्नि कलेव देव भवतो वक्त्रे विधत्तां पदम् ॥२३॥

यत्पर्याप्तकृपाविपाकविकसन्माधुर्यधुर्यं तव
स्वान्तं भीमभवोपतापविपदि स्फीताऽवहेलं मयि ।
स्वामिन्नेष विधिर्ममैव विधुरो दूराध्वखिन्नो जन-
स्तीराद्रत्ननिधेर्व्यपैति विफलः स्वैरेव दुष्कर्मभिः ॥२४॥

यत्सौन्दर्यसमुद्रसान्द्रलहरीहेलाचलच्चामर-
व्यग्राङ्गाङ्गुलिबालमालववधूदृक्पातपात्रं वपुः ।
सेवासन्निधिशंसिसम्भ्रमनमत्सामन्तमौलिस्थली-
लीढाङ्घ्रिद्वयमुद्वहन्ति कृतिनः सौभाग्यभाग्यास्पदम् ॥२५॥

यच्च प्रेङ्खदखर्वगर्वघटितभ्रूभङ्गभीमाकृति-
क्ष्माभृत्पाशमुखावलोकनघनप्रोल्लङ्घनाभीरुभिः ।
उन्मीलन्मृदुशाद्वले तरुतले स्वर्ल्लोककल्लोलिनी-
कूले मूलफलाशनैः शमसुधास्वादार्थिभिः स्थीयते ॥२६॥

यच्चाऽस्मिन्भवडम्बरे परिणमन्मन्दानिलान्दोलन-
व्यालोलन्नलिनीदलाञ्चलचलप्रालेयलेशोपमे ।
दुष्कालव्यसनावसन्नजनतासन्तापनिर्वापण-
व्यापारैकसुकर्मनिर्मलफलारम्भैः सुखं जीव्यते ॥२७॥

निःशङ्कं विकलङ्कमङ्कविकसल्लक्ष्मीकटाक्षेक्षितं
यन्मानुष्यमुपेत्य नित्यमुदिता नन्दन्ति दन्तिव्रजैः ।
यच्चान्ते पुरुहूतवारवनितागीतामृताकर्णन-
प्रोन्मीलत्पुलकावकीर्णवपुषः स्वर्मध्यमध्यासते ॥२८॥

सोऽयं सर्वजगत्प्रभोरशरणत्राणैकहेवाकिनः
कारुण्यामृतसागरस्य गिरिजाभर्तुः परोऽनुग्रहः ।
कस्तं न स्तुतिभिर्विमर्शरसिकः प्रौढार्पितप्रीतिभिः
प्राप्तुं शर्मदकर्मनिर्मलफलं नन्दत्यमन्दादरः ॥२९॥

दृष्टिः पीयूषवृष्टिर्मधुरमधुरसस्यन्दिनी देव वाणी
पाणी त्वत्पादपीठीपरिमलनरजोराजिमैत्रीपवित्रौ ।
चेतः स्वच्छन्दचर्यापरिणतकरुणारामविश्रामधाम
त्वामक्षामप्रसादामृतजलधिमहो भेजुषामेष पाकः ॥३०॥

तस्यैकस्याङ्घ्रिपीठं स्फुटमुकुटमणिप्रौढरोचिःप्रतानैः
क्षोणीपालाः शिरोभिः करपुटघटितैरञ्जसा रञ्जयन्ति ।
धत्ते धन्यः स चैकः सितरुचिरुचिरच्छत्रशुभ्रोत्तरीयां
लक्ष्मीमुद्दामरामाकरकमलचलच्चामरोदारहाराम् ॥३१॥

तं वाणीभिर्गृणन्ति श्रवणपुटसुधास्यन्दिनीभिर्मुनीन्द्रा
गीतैर्गायन्ति विद्याधरवरवनितास्तस्य चित्रं चरित्रम् ।
विद्वद्गोष्ठीषु तस्य प्रसरति कृतिनो दानदाक्षिण्यवार्ता
कीर्तिर्जागर्ति तस्य प्रवरकविवचोभङ्गिसन्मङ्गलेषु ॥३२॥

किं वाऽन्यन्नैष पश्यत्यलमनलशिखापिङ्गजिह्वास्फुलिङ्ग-
स्फूर्जद्दंष्ट्राकरालं भ्रुकुटिकुटिलितं भीषणं कालवक्त्रम् ।
स्वामिन्मन्दानिलान्दोलितललितलतानृत्तकान्ते वनान्ते
शान्तेर्ष्यस्त्वामविद्याजडजगदगदङ्कारमाराधयेद्यः ॥३३॥

आकर्णाकृष्टचापः प्रहरति निभृतं निर्निमित्तापकारी
नारीनेत्रान्ततिर्यग्विवलनविशिखश्रेणिभिः पुष्पचापः ।
फूत्कारस्फारफालः स्फुरदुरुगरलज्वालजिह्वाजटालः
कालव्यालः करालः कवलयति वपुर्हन्तुकामः क्व यामः ॥३४॥

तस्मादस्माकमाकस्मिकविकसदसत्कर्मपाकोपताप-
व्यापत्तापातुराणामविरलकरुणासिन्धुरापन्नबन्धुः ।
भक्तिश्रद्धाप्रबन्धानमदमरशिरःश्रेणिमाणिक्यमाला-
ज्वालालीढाङ्घ्रिपीठः शरणमशरणत्राणशीलस्त्वमेकः ॥३५॥

या निःशेषौषधीनां जनिरजनि पुनर्न क्वचित्कम्पसम्प-
त्सम्पर्को यत्र यत्र स्थितिरुपरि परिभ्रंशभाजां जनानाम् ।
एषा शेषाहिपीठप्रकटितवसतिः सम्पदां भूतधात्री
पात्रीकुर्वत्यजस्रं जनमनघमघः प्रक्रमस्ते नमस्ते ॥३६॥

संसारेऽस्मिन्नसारे परमिह कुशलं कर्म धर्मप्रधानं
धर्मः शर्मप्रदोऽपि प्रभवति सुधियां सिद्धये शुद्धिहेतोः ।
शुद्धौ बद्धस्पृहाणां न भवति कृतिनां यद्विनाऽऽपद्विनाश-
स्त्रैलोक्याप्यायकं तज्जलमपि भगवन् विभ्रमस्ते नमस्ते ॥३७॥

यं मुक्त्वा जीवयन्तं जगदगदमदः सन्ततं सन्तमन्त-
र्जन्तूनां शीतभीतिप्रकटितविपदामस्ति न स्वस्तिहेतुः ।
गीर्वाणानां हविर्भिर्ग्लपयति विपदं यज्वनामप्यनल्पैः
सङ्कल्पैः कल्पितैर्यः स भवति विभवः पावकस्ते नमस्ते ॥३८॥

अन्तः सन्तिष्ठमानः स्थगयति जगतां पञ्चतां पञ्चधा यः
सन्धाय स्थायिभावं प्रसरति सततं यत्र तेजस्विचक्रम् ।
यत्र स्थैर्यं बिभर्ति त्रिभुवनभवनं बिभ्रदाधारभूतां
भूतानां मूर्तिमेष प्रथयति विभुतां मारुतस्ते नमस्ते ॥३९॥

यत्र ब्रह्माण्डपिण्डः प्रसरति सरलालाबुतुम्बीविडम्बी
स्थैर्यं झाङ्कारि वारि प्रथयति तदपि स्कन्धबन्धेषु यस्य ।
सोऽपि स्फारेण भर्तुं प्रभवति पवनो यस्य नोद्देशलेशं
धाम्नामाधारभूतं भव भवति वपुस्तन्नभस्ते नमस्ते ॥४०॥

धातुश्चातुर्यभाजो जनजननविधौ या मुखेभ्यश्चतुर्भ्यः
साकं नाकस्थितानामजनिषत कृतप्रीतयः स्फीतभासाम् ।
तासामासां श्रुतीनां जनयति नियतं कर्मभिः शर्मकृद्भिः
साफल्यं यः स यज्वा वपुरधृतविपत्सङ्गमस्ते नमस्ते ॥४१॥

प्रेङ्खद्भिर्यन्मयूखैर्विदधति धवले निर्जराः प्राणयात्रां
प्रोद्दामानन्दधाम प्रथयति बहुले पारणं यः पितॄणाम् ।
कुर्वन्नुर्वन्तरिक्षं प्रशमिततिमिरं यः समस्तौषधीनां
पीनां पुष्णाति भातिं तनुरतनुरसौ चन्द्रमास्ते नमस्ते ॥४२॥

प्रातः प्राभञ्जनेऽस्मिन्पथि पथिकमिव ध्वान्तकान्तारताम्य-
ल्लोकालोकार्पणार्थं प्रमुदितमुदितं यं समर्चन्ति सन्तः ।
सायं ध्यायन्ति सन्ध्याविधिमधि सुधियो बाधिताधिं समाधिं
साधिम्नाऽधिष्ठितायं त्वमिह स मिहिरः सद्गभस्ते नमस्ते ॥४३॥

दिग्देशाकारकालैरकलितविभवं यन्महद्बीजभूतं
भूतग्रामस्य यस्य त्रिभुवनविषयं वस्तुजातं विवर्त्तः ।
यस्मिन्हेम्नीव नानाभरणपरिकरो लीयते विश्वमन्ते
तद्भिन्नेष्वप्यभिन्नं भव भवसि परं ब्रह्म तस्मै नमस्ते ॥४४॥

इत्थं मत्सूक्तयस्ते शशधरशिखर स्फारसारस्वतौघ-
प्रोन्मीलद्वक्त्रशुक्तिस्खलदमलमिलन्मौक्तिकव्यक्तिभाजः ।
तीव्रापत्तापताम्यत्सहृदयहृदयक्लान्तिशान्तिप्रगल्भा-
दर्भाग्रस्पर्द्धिबुद्धिग्रथितदृढगुणाः कर्णपूरीभवन्तु ॥४५॥

इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``कर्णपूरस्तोत्रं'' नामकं त्रयस्त्रिंशं स्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : January 30, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP