कृपणाक्रन्दनं नवमं स्तोत्रम्
स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.
दीपोत्करैरविरुचां परिपूरणेयं
नीहारवारिभिरिदं भरणं पयोधेः ।
अस्मादृशां मितदृशां नियतैर्वचोभिः
प्रस्तूयते भव तव (तव भव)स्तवचापलं यत् ॥१॥
अत्राऽपराध्यति गिरो हर धृष्टतेय-
मेषा निसर्गमुखरा मुखरागिणी यत् ।
प्रौढिं परामनुपयत्यपि वाञ्छति त्वां
स्वामिन् हठादिव परं पुरुषं गृहीतुम् ॥२॥
यद्वा भवत्यसुलभो भवदाश्रितस्य
शस्यः स कोऽपि महिमा न हि मादृशोऽपि ।
स्वच्छन्दमन्दमपि यत्र पदं त्वदुक्षा
धत्ते मही भवति हेममयी हि तत्र ॥३॥
भीष्मो विषादपि विषादपिनद्धमेत-
च्चेतश्चकार सविकारमकारणारिः ।
मोहामयस्तमयमस्तमयं नयामि
स्वामिँस्तव स्तवरसायनसेवनेन ॥४॥
एषः स्तवस्तव नवप्रमदोपदेश-
मादेशयञ्जयति कोऽपि गुरुर्गिरीश ।
सद्यः पुरः स्फुरति मे दुरतिक्रमेण
यत्सङ्कमक्रमवशेन वचोधिदेवी ॥५॥
नास्य स्पृहाऽस्ति सरसाय रसायनाय
नाऽयन्त्रितेन्दुवदनावदनाऽमृताय ।
निर्बन्धमेति तु भवत्सविधे विधेहि
निर्बन्धमन्धकरिपो तदिदं मनो मे ॥६॥
आभाति शक्रनगरी न गरीयसी मे
प्रीतिं च सिञ्चति न काञ्चन काञ्चनाद्रिः ।
जाने परं हर शरण्यमरण्यमेव
यत्र त्वदङ्घ्रिनलिनार्चननिर्वृतिः स्यात् ॥७॥
पुष्पेषु दोहदवशादवशा(शं)भृशं या
बभ्राम वामनयनाभुजमञ्जरीषु ।
सा साम्प्रतं दृगलिनी वलिनी(नीं)व्यनक्ति
त्वद्भक्तिकल्पलतिकाफलभोगतृष्णम् ॥८॥
किं निर्मिता मुकुटचन्द्रकलां निपीड्य
किं वा शिरःशरणनिर्झरिणीजलेन ।
किं वा करस्थकलशामृतसम्प्लवेन
भक्तिस्त्वया प्रणयिनां भवतापशान्त्यै ॥९॥
स्वामिन्विचित्रचरितस्य तवाऽपदान-
गीतामृतेषु दृढरूढरतिर्ममेयम् ।
दूरीकृताऽन्यसरणिर्हरिणीव वाणी
सत्यं पदात्पदमपि क्षमते न गन्तुम् ॥१०॥
आश्वासनं यमभयाकुलतामृतानां
सञ्जीवनं भवदवव्यथया मृतानाम् ।
आलम्बनं सुकविराजगिरामृतानां
सङ्कीर्तनं जयति ते चरितामृतानाम् ॥११॥
दानं तरङ्गतरलः किल दुग्धसिन्धु-
र्मुक्तिः करालतरकालभयात्प्रसादः ।
त्यागोऽपि सप्तदिवसानि सुवर्णवृष्टिः
किं किं न चारुचरितं भवतः प्रशस्यम् ॥१२॥
स्वामिन् रजःपरिचितं चपलस्वभावं
जात्या मलीमसमिदं हृदयं मदीयम् ।
त्वत्पादपद्मविषये कृतपक्षपातं
धत्ते प्रमोदभरनिर्भरभृङ्गलक्ष्मीम् ॥१३॥
त्वां वामदेवमपि दक्षिणमाश्रितेषु
सर्वत्र शङ्कर वसन्तमपि स्मरारिम् ।
अप्यन्तकोपशमहेतुमनन्तकोप-
शान्त्येककारणमचिन्त्यगतिं श्रयामि ॥१४॥
क्वापि प्रसीदसि दिशन्विशदं प्रकाशं
क्वापि प्रयच्छसि घनावरणोपरोधम् ।
कुर्मः किमत्र महनीयमहामहिम्नो
नास्त्येव नाम नियतिर्नभसः प्रभोश्च ॥१५॥
चित्तं नतापदुपतापहृतिप्रवृत्तिं
भीताऽभयार्पणपणप्रवणां च वाणीम् ।
लोकोपकारपरतन्त्रमिदं वपुश्च
कस्त्वत्परः परमकारुणिको बिभर्ति ॥१६॥
चित्तं विषादमगमन्न परं प्रसाद-
मौज्झद्विचारमुचितं न बहिः प्रचारम् ।
लेभे न कुत्र विवरं प्रवरं न बोध-
मेतत्त्वयैव भगवन्धृतविप्रयोगम् ॥१७॥
अश्रान्तमान्तरमशान्तरजोविकारं
सारङ्गकेतुमुकुटस्फुटमन्धकारम् ।
युक्तं यदन्धयति यद्बधिरीकरोति
कोऽतिप्रसङ्ग इति तत्र न तर्कयामि ॥१८॥
लीलाविलोलललनानयनान्तवास-
मासाद्य यः क्व न भनक्ति मनस्विनोऽपि ।
सोऽयं निविश्य विमले हृदये मदीये
धिङ्मर्ममर्म न भिनत्ति कथं मनोभूः ॥१९॥
स्वामिन्नसन्तमिव तत्र वसन्तमेव
सत्वामवैति किमिदं यदि वा किमन्यत् ।
दग्धोऽपि यं पुनरवाप्य बिभर्ति गर्वं
सर्वङ्कषो विजयते स तव प्रसादः ॥२०॥
श्रीखण्डचन्दननिघृष्टकुरङ्गनाभि-
कर्पूरकुङ्कुमकरम्बशुभाङ्गरागम् ।
उद्यन्नवीनकदलीदलसौकुमार्यं
बिभ्रत्यनङ्गनटमङ्गलरङ्गमङ्गम् ॥२१॥
फुल्लारविन्दवदना विकसच्छिरीष-
मालाभुजाभिनवनीलसरोजनेत्रा ।
ब्रह्मास्त्रमप्रतिहतं विहिता हिताय
पुष्पायुधस्य कुसुमैरिव माधवेन ॥२२॥
नाथेति जीवितहरेति दयापरेति
सप्रेमकोपमतिकोमलमालपन्ती ।
गाढानुरागविवृताखिलगूढभाव-
मावर्जयन्त्यविषयैर्वचसां विलासैः ॥२३॥
किंवा परं कुपितनिर्घृणपञ्चबाण-
बाणौघभिन्नहृदया परिरभ्य गाढम् ।
मुग्धाजनस्य सहजामवजित्य लज्जा-
मौत्सुक्यसान्द्रमधरामृतमर्पयन्ती ॥२४॥
आक्षिप्तसिन्धुमथनोत्थमहामृतौघ-
भावत्कभक्तिरसपारणनित्यतृप्तम् ।
प्रत्याहृतेन्द्रियमवाप्तसमाधिसौख्यं
न त्वत्परं हरति सा हरिणेक्षणाऽपि ॥२५॥
हेलावलन्मलयमारुतकम्पितानां
शीर्णैः फलैः स्वयमरण्यमहीरुहाणाम् ।
वृत्तिर्हरस्मरणघूर्णितचेतसः क्व
दीनं मुखं क्व च पुरः कुमहीपतीनाम् ॥२६॥
नेत्रत्वमीश तव मूर्तिविलोकनेषु
वाक्त्वं भवच्चरितचर्वणविभ्रमेषु ।
त्वत्सङ्कथाश्रवणकर्मणि कर्णभाव-
मिच्छन्ति गन्तुमपराणि (इतराणि)ममेन्द्रियाणि ॥२७॥
यच्छत्रचामरसिता कृतिनां विभूतिः
सः स्वल्प एव भगवन् भवतः प्रसादः ।
त्वत्साम्यमेव (तत्साम्यं)तु सतामधिकस्ततोऽपि
यद्वल्कलं च वसनं विपिनं च वासः ॥२८॥
त्वत्पादपङ्कजरजश्छुरितौ च पाणी
वाणी भवच्चरितचर्वणगर्विता च ।
चित्तं भवद्गुणगणस्मरणव्रतं च
भूयो भवन्ति मम चेदहहास्मि धन्यः ॥२९॥
भिक्षाशनोऽपि भगवंस्त्वमकिञ्चनोऽपि
जीर्णश्मशाननिलयोऽपि दिगम्बरोऽपि ।
किं वा परं वरद घस्मर भस्मरूक्ष-
गात्रोऽपि सन्मम विभुः प्रतिजन्म भूयाः ॥३०॥
याचे न किञ्चिदपरं वसतिर्गिरीन्द्रे
कैलासनाम्नि भवदध्युषिते ममास्तु ।
किं वा न तत्र भगवन् मम ये सखाय-
स्तेऽन्येऽपि सन्ति गवयाः कपयः कुरङ्गाः ॥३१॥
वाचाममी न विषये विषयेषु येषु
तृष्णाऽन्वभावि विषमा विषमाकिरन्ती ।
तन्मां भजोज्ज्वलविलोलविलोचनान्त-
विन्यासभासुरसुधारसुधारसेन ॥३२॥
नानुग्रहस्तव विना त्वयि भक्तियोगं
नानुग्रहं तव विना त्वयि भक्तियोगः ।
बीजप्ररोहवदसावनयोर्न कस्य
भूत्यै परस्परनिमित्तनिमित्तिभावः ॥३३॥
शान्तं मनो यदि यमैर्नियमैः किमन्यै-
र्वाणी यदि प्रियहिता स्तुतिचाटुभिः किम् ।
कारुण्यमस्ति यदि किं व्रतहोमदानै-
र्भक्तिर्भवे यदि किमन्यसुखाभिलाषैः ॥३४॥
भुक्तं विकल्पकवलैः सुरलोकसौख्य-
मालोकिता विविधशास्त्रदृशैव मुक्तिः ।
पीता सुधा श्रवणशुक्तिपुटैः समक्ष-
मास्वादिता पुनरियं शिवभक्तिरेव ॥३५॥
दीर्घाण्यघान्यधिशुचीव भवन्त्यहानि
हानिर्बलस्य शरदीव नदीजलस्य ।
दुःखान्यसत्परिभवा इव दुःसहानि
हा निःसहोऽस्मि कुरु निःशरणेऽनुकम्पाम् ॥३६॥
निर्भर्त्सितो विपदि बन्धुरिवाऽभिमानी
मा नीरसं स्पृशतु नाम मनो विवेकः ।
विद्यां निदाघ इव घर्मरुचिर्हिमानी-
मानीयनाशमुपतापयते तु मोहः ॥३७॥
तस्मादुपैति न तनुस्तरसाऽवसायं
सायन्तनी प्रतिपदिन्दुकलेव यावत् ।
तावत्कृपां कुरु हतोऽस्म्यहमंहसाऽयं
सा यन्त्रिता मयि तवास्तनयेन येन ॥३८॥
अभ्येति मृत्युभटसंहतिरस्तकम्पा
कम्पामहे मनसि यां विनिवेशयन्तः ।
एका गतिर्गिरिश तत्र तवानुकम्पा
कम्पात्रतां नयति या न शुभोदयानाम् ॥३९॥
यन्निःस्पृहोप्यजनयस्तनयं कुमारं
मारं विधाय शलभं नयनानलस्य ।
तत्ते परार्थमिति विश्रुतमाकुमारं
मा रंहसा जहिहि देहि तदेहि वाचम् ॥४०॥
सर्वस्वमेव मम दत्तमहाप्रहारा
हारामलं हर हरन्त्यरयो विवेकम् ।
रक्षाकरी तव कृपाऽत्र कृताऽवहारा
हा राजशेखरमणेः पुरतो हतोऽहम् ॥४१॥
देवालये वसतिमर्थयते कपोतः
सिन्धौ वणिग्भजति वृत्तिमशङ्कपोतः ।
पृष्ठे श्रियं वहति नित्यमनेकपोऽत-
स्त्वद्भक्तिमेमि सरसीमिव भेकपोतः ॥४२॥
लब्धा धृतिर्दिवि कदाचन वासवेन
सैन्येन सा परिवृतेन न वासवेन ।
नो वा बलेन भुवि पीतनवासवेन
त्वां भेजुषो भवति याऽभिनवा सवेन ॥४३॥
या दुर्लभा दिवि महर्षभयान कस्य
कालस्य या निधनधाम भयानकस्य ।
वाचा तया कृतनतेरभयानकस्य
तुल्यश्रियाऽर्पयसि शं शुभया न कस्य ॥४४॥
यं वीक्षसे क्षतमहाकलिकाल सन्तं
क्लिष्टं कृतीकृतबृहत्कलिकाल सन्तम् ।
इन्दोरिवाऽमृतमयी कलिका लसन्तं
बालाऽवलोकयति सोत्कलिकालसं तम् ॥४५॥
मुक्तावलीव रहिता शिव नायकेन
मुक्ता भवद्गणसभेव विनायकेन ।
वाणी त्वया परिहृताऽखिलनायकेन
सम्भाव्यते हृदयसंवननाय केन ॥४६॥
यस्योचितः प्रथितमान समाधिनान्त-
स्तेनार्तिमुद्वहति मानसमाधिनान्तः ।
शुद्धां मतिं स्पृशति पांसुलभावलेप-
स्तत्राप्युपैषि न कृपां सुलभावलेपः ॥४७॥
कामं भवेऽत्र बहवः सुभगस्वभावा
भावा भवन्तु मम तु द्वितयं स्पृहायै ।
शब्दार्थपाकरुचिरा कविराजगीर्वा
गीर्वाणसिन्धुधरभक्तिरभङ्गुरा वा ॥४८॥
ज्योत्स्नाछटाभिरिव देव चकोरकस्य
भास्वत्प्रभाभिरिव पङ्कजकोरकस्य ।
दैवीभिरद्भिरिव बर्हिकिशोरकस्य
प्रीतिर्न ते नुतिकथाभिरघोर कस्य ॥४९॥
वृत्तं क्व ते सकलवाङ्मनसातिवृत्तं
चेतः स्खलद्गति भवावरणात्क्व चेतः ।
वित्रासवन्तमिति मामनुदत्पवित्रा
भक्तिः स्तुतिस्तव कृतेयमतः सुभक्तिः ॥५०॥
वन्दामहे च विविधं विवदामहे च
लज्जामहे च कलुषाणि भजामहे च ।
ईहामहे च कुवचांसि सहामहे च
दह्यामहे च दुरितैर्जठरस्य हेतोः ॥५१॥
लब्धं चिरेण सुकृतैरचिरस्थिरं च
मानुष्यकं पुनरिदं सुलभं च चेति ।
जानीम एव च न च स्वहितं विधातु-
मीहामहे वयमहो बत यद्भविष्याः ॥५२॥
तस्मादवश्यमवशानविशङ्कमेव
भोगोपभोगरसिकानसमाप्तकृत्यान् ।
यावन्न धीवर इवैत्य तिमीनकस्मा-
न्मृत्युः क्षणादशरणान् हरते हठेन ॥५३॥
तावत्प्रसीद कुरु नः करुणाममन्द-
माक्रन्दमिन्दुधर मर्षय मा विहासीः ।
ब्रूहि त्वमेव भगवन् करुणार्णवेन
त्यक्तास्त्वया कमपरं शरणं व्रजामः ॥५४॥
जातस्य मृत्युरिति चेत्स न लङ्घितः किं
श्वेतेन शीतकरशेखरनन्दिना च ।
ताभ्यामसौ यदि जितो विपुलैस्तपोभि-
रस्माकमल्पतपसां त्वनिवार्य एव ॥५५॥
तर्ह्यर्चनान्तसमये तव पादपीठ-
मालिङ्ग्य निर्भरमभङ्गुरभक्तिभाजः ।
निद्रानिभेन विनिमीलितलोचनस्य
प्राणाः प्रयान्तु मम नाथ तव प्रसादात् ॥५६॥
एतेन किं निविडबन्धभृतो भुजङ्गाः
किं वा न वक्रिमविलासविकासभाजः ।
किन्तु क्रमादपचिताः पदगुम्फहीनाः
सूक्तामृतानुकरणे कथमुत्सहन्ते ॥५७॥
तस्माद्भयङ्करमदः फणिकर्णपूर-
हेवाकदुर्ललितमस्तनयं विहाय ।
स्वामिन्निमाः श्रवणयोः प्रणयोपचार-
गर्भा गिरश्चतुरमाभरणीकुरुष्व ॥५८॥
स्वामिन्नबन्धवतया वत या तवेयं
वाणी मया निजगदे जगदेकबन्धोः ।
तामन्तकान्तकर शङ्कर शंसतो मे
कर्णे कुरुष्व करुणां करुणाम्बुराशे ॥५९॥
पश्यन्तमन्धमभिमानिनमस्तमानं
विस्तीर्णकर्णमपि या बधिरं करोति ।
साऽऽर्त्तिर्न नर्तयति किं कुनृणामिव श्रीः
तस्मात्क्षमस्व भगवन्नतिलङ्घनानि ॥६०॥
उच्छृङ्खलं खलमलङ्घ्यबलं ज्वलन्त-
मन्तः कृतान्तमविकल्पमनल्पदर्पम् ।
आशङ्क्य शङ्करचरित्रपवित्रचित्र-
सूक्तिष्वपि स्थिररुषं प्रतिबोधयामः ॥६१॥
प्रत्यग्रकर्कशमशल्कमुदर्कपथ्यं
तथ्यं सतोषमपदोषमरोषपोषम् ।
सन्धित्सवस्तव कृतान्तहितं मितं च
यद्ब्रूमहे तदवधारय सावधानः ॥६२॥
अन्यत्र दर्शय निरङ्कुश हुङ्कृतानि
कीनाश नाशय दुराशय माऽभिमानम् ।
नाथीकृतेन्दुमुकुटानपि नाम मन्ये
निर्भर्त्सयिष्यसि हतैव तवेयमाशा ॥६३॥
येनेश्वरेण महता विहितागसस्ते
कृत्वाऽपि शासनमकारि पुनः प्रसादः ।
तत्सेवका वयमतस्तव विद्विषोऽपि
यद्ब्रूमहे हितमदो मनुषे रुषेति ॥६४॥
रे दुर्विनीत खल काल पुरा पुरारे-
र्यामाप्तवानसि निजाविनयप्रशास्तिम् ।
श्रुत्वैव तां धृतिमतामपि कम्पमेति
चेतः कथं पुनरुपक्रमसे तदेव ॥६५॥
पाणौ निधेहि पवनाशनपाशमाशु
नास्तीह ते पुरुषपाश रुषोऽवकाशः ।
निःसङ्करेषु शरणीकृतशङ्करेषु
रे काल कातरभयङ्कर किं करोषि ॥६६॥
व्यापारय स्वपुरुषं पुरुषं परेषु
मा रोषमङ्कुरय शङ्करकिङ्कराणाम् ।
किं विस्मृतं विषधरायुध निर्निरोध-
क्रोधप्रबोधपटहं हरहुङ्कृतं ते (तत्)॥ ६७॥
कीनाश बालिश निरङ्कुश निर्विमर्श
निस्त्रिंश निष्करुण निःशरणेषु चेत्त्वम् ।
निष्कारणं निरनुरोध करोषि रोषं
तत्किं चिकीर्षसि महेश्वरसंश्रितेषु ॥६८॥
कुर्वन् विरोधमनिरोधमबान्धवेषु
धत्से मुधा यम समुद्धतकन्धरत्वम् ।
तीव्राऽपराधविधुरेष्वपि साधवो हि
बाधां विधातुमधमेष्वपि न क्षमन्ते ॥६९॥
यत्प्राणिषु प्रभवसि प्रसभं प्रहर्तुं
प्राप्य प्रभोः प्रमथनाथपितुः प्रसादम् ।
तत्प्राक्कृतस्य दुरितस्य दुरुत्तरस्य
तेषां फलं तव किमन्तक पौरुषं तत् ॥७०॥
तत्तथ्यमेव किमकारणकण्टकं त्वां
यद्धर्मराज इति काल जनाः स्तुवन्ति ।
लोका न किं जगदमङ्गलमूलकोषं
शंसन्ति मङ्गलविहङ्गम इत्युलूकम् ॥७१॥
त्वां जीवितेश इति यत्स्तुवते रुदत्यः
कापालिकाः शवदहो गुरवो द्विजाश्च ।
तद्युक्तमन्तक यतः परमः सुहृत्त्वं
तेषामकारणरिपुस्त्वसुहृत्परेषाम् ॥७२॥
क्लिश्यन्त्यवश्यमपमार्जनभूतयाग-
निर्याणकर्मचरमेष्टिशिवक्रियाद्यैः ।
ये दैशिकाः परमकारुणिकाः परार्थे
त्वां श्राद्धदेव इति ते रविज स्तुवन्ति ॥७३॥
देशं न यत्त्यजति सन्तमसन्तमन्तं
ध्वान्तं नयंस्तव पिता समवर्त्यतोऽर्कः ।
त्वं सत्स्वसत्स्वपि समं प्रहरस्यतोऽपि
सद्यः स्तुवन्ति समवर्त्तिनमन्तक त्वाम् ॥७४॥
कोपं विधाय तव येन कृतः प्रसाद-
स्तत्सेवकेष्वपि चिकीर्षसि यत्प्रसादम् ।
किं तत्र वर्तयसि मां समवर्त्यतोऽपि
त्वं स्तूयसे विषमवर्त्यपि मर्मविद्भिः ॥७५॥
भालस्थलानि कलयस्यमलेन्दुमौलि-
पादारविन्दमकरन्दसितानि येषाम् ।
त्वं मानवानसि विमानय मा नयज्ञ
तन्मानवानवसि रौद्र यदि स्वमौद्रम् ॥७६॥
दुर्वृत्तदर्पशमनाच्छमनोऽसि यत्त्वं
यद्वा यमोऽस्यधमसंयमनात्तदन्यत् ।
मन्ये मदं शमयितुं प्रभवस्तवैव
त्वामेव वा यमयितुं भवभक्तिभाजः ॥७७॥
उद्वृत्तमन्तक नृशंस भृशं सगर्व
शर्वस्तवव्यवसितेष्वपि चेष्टसे यत् ।
तद्भावि भाविभवभैरवभैरवोग्र-
भालानलोद्भवपराभवकृत्पुनस्ते ॥७८॥
किं वाऽन्यदर्कज विशङ्क विशङ्कटास्य
हास्यं चिकीर्षसि यदीश्वरसंश्रयाणाम् ।
तन्मा कृथा न हि तवाश्रितवत्सलोऽसौ
सानुग्रहोप्यनुचितं क्षमते महेशः ॥७९॥
भालस्थलीव तिलकेन वधूकटाक्ष-
विक्षोभितेन तिलकेन वनावलीव ।
विज्ञप्तिरेणतिलकेन विभावरीव
शोभां वसन्ततिलकेन बिभर्त्ति शम्भोः ॥८०॥
वासः क्षीणदशं वयश्च करणग्रामं मनश्चाऽक्षमं
निःसारेषु दुरीश्वरेष्वपचितेरुद्वेगमङ्गेष्वपि ।
व्यर्थं वेश्म नृजन्म चाखिलमिदं कल्याणशून्यं वपुः
कोषं चोद्वहतः कुरुष्व करुणां चित्ते गिरं च श्रुतौ ॥८१॥
अज्ञस्तावदहं न मन्दधिषणः कर्तुं मनोहारिणी-
श्चाटूक्तीः प्रभवामि यामि भवतो याभिः कृपापात्रताम् ।
आर्तेनाऽशरणेन किं तु कृपणेनाक्रन्दितं कर्णयोः
कृत्वा सत्वरमेहि देहि चरणं मूर्धन्यधन्यस्य मे ॥८२॥
इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``कृपणाक्रन्दनं'' नाम नवमं स्तोत्रं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : January 30, 2026

TOP