संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः| स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः प्रस्तावना सूचिपत्रम् स्तुतिप्रस्तावना प्रथमं स्तोत्रम् नमस्कारात्मकं द्वितीयं स्तोत्रम् आशीर्वादाख्यं तृतीयं स्तोत्रम् मङ्गलाष्टकं चतुर्थं स्तोत्रम् कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् हराष्टकं षष्ठं स्तोत्रम् सेवाभिनन्दनं सप्तमं स्तोत्रम् शरणाश्रयणं अष्टमं स्तोत्रम् कृपणाक्रन्दनं नवमं स्तोत्रम् करुणाक्रन्दनं दशमं स्तोत्रम् दीनाक्रन्दनं एकादशं स्तोत्रम् तमःशमनं द्वादशं स्तोत्रम् प्रभुप्रसादनं त्रयोदशं स्तोत्रम् हितस्तोत्रं चतुर्दशं स्तोत्रम् करुणाराधनं पञ्चदशं स्तोत्रम् उपदेशनं षोडशं स्तोत्रम् भक्तिस्तोत्रं सप्तदशं स्तोत्रम् सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् हसितस्तोत्रं विंशं स्तोत्रम् अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् द्विपदयमकं चतुर्विंशं स्तोत्रम् रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् महायमकस्तोत्रं त्रिंशं स्तोत्रम् नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् ग्रन्थकर्तुर्वंशवर्णनम् स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे. Tags : stuti kusumanjaliकुसुमाञ्जलिजगद्धर jagaddharस्तुति स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् Translation - भाषांतर ते नाथ जन्म सकलं न कलङ्कयन्तिन द्रोहकर्मरसिकानपि शङ्कयन्ति ।तान्सस्पृहं मृगदृशः प्रविलोकयन्तिये त्वत्पदाब्जरजसाऽलिकमङ्कयन्ति ॥१॥ते विद्विषामभिमतं हृदि मोघयन्तिज्ञानामृतं च कृपणेषु समर्पयन्ति ।तेषां वचः क्षितिभुजोऽपि न लङ्घयन्तिये त्वां स्तवोक्तिकुसुमर्द्धिभिरर्चयन्ति ॥२॥ते जन्मनः फलमनल्पमुदञ्चयन्तिक्लेशापदः स्वमपरं च विमोचयन्ति ।तान्वैरिणः सहभुवोऽपि न वञ्चयन्तिये त्वामनाथजनबान्धवमर्चयन्ति ॥३॥ते धर्ममिन्दुकरसुन्दरमर्जयन्तिगीर्भिर्विदग्धहृदयान्यपि रञ्जयन्ति ।तानन्तकभ्रुकुटयोऽपि न तर्जयन्तिये त्वां भवामयहरं हर पूजयन्ति ॥४॥ते त्वत्स्तुतिं हृदयधाम्नि कवाटयन्तिदुःखद्रुमं च दृढमापदि पाटयन्ति ।भावं तवैव भुवि बालमिवाटयन्तिये वाङ्नटीमभिमुखं तव नाटयन्ति ॥५॥ते कर्मरज्जुनिगडं ह्यतिखण्डयन्तिसूक्तैः श्रुतीर्बुधजनस्य च मण्डयन्ति ।त्वद्भक्तिमप्यधिभवाब्धि तरण्डयन्तिये त्वन्मनः स्तुतिधनस्य करण्डयन्ति ॥६॥पापानि तेऽश्मशकलानि व चूर्णयन्तिगीर्भिर्ब्रुवः सुमनसामपि घूर्णयन्ति ।लोके निजानि च यशांस्युपकर्णयन्तिये धीमतां नुतिकथास्तव वर्णयन्ति ॥७॥ते मारकानपि न संयति घातयन्तिकारुण्यतः कृतरुषोपि न यातयन्ति ।लोकस्य शोकमभयेन च शातयन्तिये शेखरं चरणयोस्तव पातयन्ति ॥८॥ते पापपाश(कर्मबन्ध)मधिकं हृदि कर्तयन्तिभोगस्पृहां च विषयेषु निवर्तयन्ति ।सूक्तैः सचेतनमनांस्यपि नर्तयन्तिये चन्द्रचूडचरितं तव कीर्तयन्ति ॥९॥ते जान्मिकानि दुरितान्यवसादयन्तिसूक्तानि निर्मलमतीननुवादयन्ति ।गीतानि वैणिकनटानपि नादयन्तिये भक्तितस्तव नुतीः प्रतिपादयन्ति ॥१०॥ते सत्सु कर्मसु रिपूनपि चोदयन्तिगीर्भिः सतां च हृदयानि विनोदयन्ति ।तेषां शुचः क्वचन चेतसि नोदयन्तिये तावकानि चरितान्यनुमोदयन्ति ॥११॥ते विग्रहोग्रमनसोपि न खेदयन्तिमोहं दृढार्गलनिभं हृदि भेदयन्ति ।स्वं कौशलं मृदुमतीनपि वेदयन्तिसूक्तानि ये तव निजानि निवेदयन्ति ॥१२॥ते भेजुषां भवति भक्तिममन्दयन्तिवाग्वीरुधस्त्वयि रतिं हृदि कन्दयन्ति ।त्वामन्यदर्शनगतानपि वन्दयन्तिये वाग्भरेण हृदयं तव नन्दयन्ति ॥१३॥ते भुक्तिमुक्तिसफलर्द्धि विवर्द्धयन्तिसत्कर्म शर्म शमिताधि च साधयन्ति ।ये त्वां नवैरभिनवैरभिराधयन्तियानिक्षुसारमधुरान् सुधियो धयन्ति ॥१४॥ते सङ्गरे गुरुरुषोऽपि न योधयन्तिज्ञानामृतेन हृदयं च विशोधयन्ति ।रोषोद्भवं हृदि रिपोरपि रोधयन्तिये त्वां निजा नुतिकथाः प्रतिबोधयन्ति ॥१५॥ते दुर्मदान्बुधसदस्यवमानयन्तिप्रौढान्प्रणम्य विनयेन च मानयन्ति ।तान्भूतयः स्वयमनन्यसमानयन्तिये वासरांस्तव नवैः सशमा नयन्ति ॥१६॥ते निर्भये नतिमतः पथि यापयन्तिनोत्कम्पदानपि रिपूनुपतापयन्ति ।क्लेशापदं पशुसमानपि हापयन्तिये त्वां प्रसाद्य दृशमीश्वर दापयन्ति ॥१७॥ते दुर्मदं शमनमुग्रमदर्पयन्तिगर्धं च साधुसदनादपसर्पयन्ति ।दानादिनार्थिनिवहानपि तर्पयन्तिये तावके मुकुटमङ्घ्रितलेऽर्पयन्ति ॥१८॥ते सद्गृहेषु गुरुमापदमल्पयन्तिस्वं चाशयं शिशयिषोस्तव तल्पयन्ति ।आर्तिस्पृशामुपकृतीरपि कल्पयन्तिये बालकानपि नवं तव जल्पयन्ति ॥१९॥ते सापराधमनसोऽपि न कोपयन्तितापं ह्विया विपुलमापदि गोपयन्ति ।त्वद्धाम चामलमतीनधिरोपयन्तिये नार्चनं तव कदाचन लोपयन्ति ॥२०॥ते शक्तिमप्रतिहतां भुवि जृम्भयन्तिप्रीतिं परां कृतमतीनुपलम्भयन्ति ।वंशत्रयीमपि निजामभिशोभयन्तिये त्वां निजासु नुतिसूक्तिषु लोभयन्ति ॥२१॥ते मग्नमार्त्तजनमापदि तारयन्तिबुद्ध्या विमृश्य सदसच्च विचारयन्ति ।अज्ञानमानतिमतां च निवारयन्तित्वद्भक्तिमिन्दुधर ये हृदि धारयन्ति ॥२२॥ते विद्विषः स्थिररुषोऽप्यनुकूलयन्तिमोहं महीरुहमिव प्रविमूलयन्ति ।आज्ञां च मूर्ध्नि महतामवचूलयन्तिये भालमङ्घ्रिरजसा तव धूलयन्ति ॥२३॥ते पङ्कमङ्कगतमात्मनि धावयन्तिदिङ्मण्डलं च परितः परिपावयन्ति ।क्लेशान् क्षणात्तृणगणानिव लावयन्तिये त्वां प्रकाशवपुषं हृदि भावयन्ति ॥२४॥ते पीवरीं विपदमोकसि कर्शयन्तिस्वं कौशलं सुमनसश्च विमर्शयन्ति ।प्रीतिं सतां च हृदयेषु निवेशयन्तिये त्वत्स्तुतीर्विबुधसद्मसु दर्शयन्ति ॥२५॥ते निर्मलं सुकृतमात्मनि पोषयन्तिदुष्कर्मकर्दममलं हृदि शोषयन्ति ।क्रूरान् विरोधबिधुरानपि तोषयन्तिये नाम ते शिवशिवेत्यभिघोषयन्ति ॥२६॥ते विश्वमेव चरितैरभिभूषयन्तिक्रुद्धान् विरुद्धहृदयाँश्च न दूषयन्ति ।नात्युद्भटान्यमभटानपि रोषयन्तिरागेण ये शिव मनस्तव तोषयन्ति ॥२७॥ते त्वां कृपाम्बुतृषिते हृदि वर्षयन्तिस्वान्तौकसोऽघभुजगानपि कर्षयन्ति ।कम्पं विधाय च यमं भ्रुवि धर्षयन्तिये त्वां निजै(नवै)र्नुतिपदैर्हर हर्षयन्ति ॥२८॥ते मौनमुद्रि तगिरोऽप्युपहासयन्तिगीर्भिर्मुखानि सुधियामधिवासयन्ति ।विश्वं यशोभिरमलैरभिभासयन्तिये मानसं तव नवैः प्रविकासयन्ति ॥२९॥ते चित्तभित्तिमसतामपि चित्रयन्तिरोषोद्धतानरिजनानपि मित्रयन्ति ।सूक्तामृतैश्च भुवमेव पवित्रयन्तिवाङ्नावि ये तव चरित्रमरित्रयन्ति ॥३०॥चेतांसि ते सुकृतिनामुपबृंहयन्तिबाह्यान्तरानसुहृदश्च निबर्हयन्ति ।नात्मानमानतमरीनपि गर्हयन्तिये त्वां नवस्तवविभूतिभिरर्हयन्ति ॥३१॥आत्मानं ते कलुषकलिले मग्नमुच्चालयन्तिज्ञानाम्भोभिर्मलमलिकुलश्यामलं क्षालयन्ति ।स्मृत्वा च त्वां प्रमदरभसादंसमास्फालयन्तित्वद्भक्त्या ये सकलमलसं चित्तमुत्तालयन्ति ॥३२॥ते रामाणां मनसि मदनं सुप्तमुन्निद्रयन्तिश्लाघां लब्धुं सदसि च सतां चित्तमुन्मुद्रयन्ति ।तानुद्वृत्ताः कुटिलमतयो न क्वचिच्छिद्रयन्तित्वच्चित्तं ये वरद करुणाक्रन्दितैरार्द्रयन्ति ॥३३॥ते सभ्यानां सदसि नयनान्यश्रु विस्रावयन्तिक्रोधोत्कर्षं गुरुमुरुरुषां दूरमुत्प्रावयन्ति ।चेतः सूक्तैर्मणिमिव सतामैन्दवं द्रावयन्तिस्वामिन्ये त्वामभिनवनवव्याहृतीः श्रावयन्ति ॥३४॥तेषां सूक्तीरमलमतयः पूगवच्चर्वयन्तिक्रूराणां ते मदमभिमुखं प्रेङ्खितं खर्वयन्ति ।तान्विद्वांसस्तव नवसुधास्वादनायाह्वयन्तित्वत्पादाग्रे मुदितमनसो ये शिरः प्रह्वयन्ति ॥३५॥ते दुर्वृत्तानपि न कृपया पेशलाः क्लेशयन्तिग्लानिं ज्ञानां व्यसनजनितामाशये नाशयन्ति ।तृष्णार्त्तानप्यमृतमधुराः स्वा गिरः प्राशयन्तित्वामन्तर्ये शकलितकलिक्लेशमावेशयन्ति ॥३६॥ते रागादीन्मनसि मिलितानाशु विश्लेषयन्तिक्रोधान्धानप्यतनुविनया न क्वचिद्द्वेषयन्ति ।मोहध्वान्तं घनमधिमतिव्योम निःशेषयन्तित्वत्पार्श्वं ये गिरमभिमतप्राप्तये प्रेषयन्ति ॥३७॥ते निर्वेदं मनसि शमिनामह्नु तं ह्रासयन्तित्रस्तानस्तङ्गमितविपदः शश्वदाश्वासयन्ति ।त्वद्भावैकप्रवणभणितैरन्तकं त्रासयन्तिस्तुत्या ये त्वां नतजनहृतत्रासमुल्लासयन्ति ॥३८॥ते तज्ज्ञानां परिषदि गुणानात्मनः शंसयन्तिस्वान्ते चान्तर्यमभुजगजं साध्वसं ध्वंसयन्ति ।क्लेशान्पाशानिव च निबिडानाशु विस्रंसयन्तिप्रौढानां ये तव नुतिमधिश्रोत्रमुत्तंसयन्ति ॥३९॥ते त्वद्भक्तिव्यसनमनघं कर्म निर्वाहयन्तित्वत्सेवासु स्थिरमविरतं चित्तमुत्साहयन्ति ।स्वं चाघौघं यममदनवत्त्वद्दृशा दाहयन्तित्वां विज्ञप्तिं स्वयमवहितं येऽन्वहं ग्राहयन्ति ॥४०॥ते तक्षाणं तरुमिव गुरुं त्वामघं तक्षयन्तिप्राप्तुं तृप्तिं शुभफलभरं निर्भरं भक्षयन्ति ।प्रत्यासन्नां श्रियमपि धिया तीक्ष्णया लक्षयन्तित्वद्भक्तान्ये श्रुतिमिव नुतिं तावकीं शिक्षयन्ति ॥४१॥इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचितेभगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ``स्तुतिफलप्राप्तिस्तोत्रं'' नामकं षट्त्रिंशं स्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : January 30, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP