संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः| अध्यायः ६१ सृष्टिखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ विषयानुक्रमणिका सृष्टिखण्डः - अध्यायः ६१ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ६१ Translation - भाषांतर द्विजाऊचुः - तुलसीपुष्पमाहात्म्यं श्रुतं त्वत्तो हरेः शुभम्तस्या स्तोत्रं कृतं पुण्यं श्रोतुमिच्छामहे वयम् ॥१॥व्यास उवाच - पुरा स्कंदपुराणे च यन्मया कीर्तितं द्विजाःकथयामि पुराणं च पुरतो मोक्षहेतवे ॥२॥शतानंद मुनेः शिष्याः सर्वे ते संशितव्रताःप्रणिपत्य गुरुं विप्राः पप्रच्छुः पुण्यतो हितम् ॥३॥पूर्वं ब्रह्ममुखान्नाथ यच्छ्रुतं तुलसीस्तवम्तद्वयं श्रोतुमिच्छामस्त्वत्तो ब्रह्मविदांवर ॥४॥शतानंद उवाच - नामोच्चारे कृते तस्याः प्रीणात्यसुरदर्पहापापानि विलयं यांति पुण्यं भवति चाक्षयम् ॥५॥सा कथं तुलसी लोकैः पूज्यते वंद्यते नहिदर्शनादेव यस्यास्तु दानं कोटिगवां भवेत् ॥६॥धन्यास्ते मानवा लोके यद्गृहे विद्यते कलौसालग्रामशिलार्थं तु तुलसी प्रत्यहं क्षितौ ॥७॥तुलसीं ये विचिन्वंति धन्यास्ते करपल्लवाःकेशवार्थं कलौ ये च रोपयंतीह भूतले ॥८॥किं करिष्यति संरुष्टो यमोपि सह किंकरैःतुलसीदलेन देवेशः पूजितो येन दुःखहा ॥९॥तीर्थयात्रादिगमनैः फलैः सिध्यति किन्नरःस्नाने दाने तथा ध्याने प्राशने केशवार्चने ॥१०॥तुलसी दहते पापं कीर्तने रोपणे कलौतुलस्यमृतजन्मासि सदा त्वं केशवप्रिये ॥११॥केशवार्थं चिनोमि त्वां वरदा भव शोभनेत्वदंगसंभवैर्नित्यं पूजयामि यथाहरिम् ॥१२॥तथा कुरु पवित्रांगि कलौ मलविनाशिनिमंत्रेणानेन यः कुर्याद्विचित्य तुलसीदलम् ॥१३॥पूजनं वासुदेवस्य लक्षकोटिगुणं भवेत्प्रभावं तव देवेशि गायंति सुरसत्तमाः ॥१४॥मुनयः सिद्धगंधर्वाः पाताले नागराट्स्वयम्न ते प्रभावं जानंति देवताः केशवादृते ॥१५॥गुणानां परिमाणं तु कल्पकोटिशतैरपिकृष्णानंदात्समुद्भूता क्षीरोदमथनोद्यमे ॥१६॥उत्तमांगे पुरा येन तुलसी विष्णुना धृताप्राप्यैतानि त्वया देवि विष्णोरंगानि सर्वशः ॥१७॥पवित्रता त्वया प्राप्ता तुलसीं त्वां नमाम्यहम्त्वदंगसंभवैः पत्रैः पूजयामि यथा हरिम् ॥१८॥तथा कुरुष्व मेऽविघ्नं यतो यामि परां गतिम्रोपिता गोमतीतीरे स्वयं कृष्णेन पालिता ॥१९॥जगद्धिताय तुलसी गोपीनां हितहेतवेवृंदावने विचरता सेविता विष्णुना स्वयम् ॥२०॥गोकुलस्य विवृद्ध्यर्थं कंसस्य निधनाय चवसिष्ठवचनात्पूर्वं रामेण सरयूतटे ॥२१॥राक्षसानां वधार्थाय रोपिता त्वं जगत्प्रियेरोपिता तपसो वृद्ध्यै तुलसीं त्वां नमाम्यहम् ॥२२॥वियोगे वासुदेवस्य ध्यात्वा त्वां जनकात्मजाअशोकवनमध्ये तु प्रियेण सह संगता ॥२३॥शङ्करार्थं पुरा देवि पार्वत्या त्वं हिमालयेरोपिता तपसो वृद्ध्यै तुलसीं त्वां नमाम्यहम् ॥२४॥सर्वाभिर्देवपत्नीभिः किन्नरैश्चापि नंदनेदुःस्वप्ननाशनार्थाय सेविता त्वं नमोस्तु ते ॥२५॥धर्मारण्ये गयायां च सेविता पितृभिः स्वयम्सेविता तुलसी पुण्या आत्मनो हितमिच्छता ॥२६॥रोपिता रामचंद्रेण सेविता लक्ष्मणेन चपालिता सीतया भक्त्या तुलसी दंडके वने ॥२७॥त्रैलोक्यव्यापिनी गंगा यथा शास्त्रेषु गीयतेतथैव तुलसी देवी दृश्यते सचराचरे ॥२८॥ऋश्यमूके च वसता कपिराजेन सेवितातुलसी वालिनाशाय तारासंगम हेतवे ॥२९॥प्रणम्य तुलसीदेवीं सागरोत्क्रमणं कृतम्कृतकार्यः प्रहृष्टश्च हनूमान्पुनरागतः ॥३०॥तुलसीग्रहणं कृत्वा विमुक्तो याति पातकैःअथवा मुनिशार्दूल ब्रह्महत्यां व्यपोहति ॥३१॥तुलसीपत्रगलितं यस्तोयं शिरसा वहेत्गंगास्नानमवाप्नोति दशधेनुफलप्रदम् ॥३२॥प्रसीद देवि देवेशि प्रसीद हरिवल्लभेक्षीरोदमथनोद्भूते तुलसि त्वां नमाम्यहम् ॥३३॥द्वादश्यां जागरे रात्रौ यः पठेत्तुलसीस्तवम्द्वात्रिंशदपराधांश्च क्षमते तस्य केशवः ॥३४॥यत्पापं यौवने बाल्ये कौमारे वार्द्धके कृतम्तत्सर्वं विलयं याति तुलसीस्तव पाठतः ॥३५॥प्रीतिमायाति देवेशस्तुष्टो लक्ष्मीं प्रयच्छतिकुरुते शत्रुनाशं च सुखं विद्यां प्रयच्छति ॥३६॥तुलसीनाममात्रेण देवा यच्छंति वांछितम्गर्ह्याणमपि देवेशो मुक्तिं यच्छति देहिनाम् ॥३७॥तुलसी स्तवसंतुष्टा सुखं वृद्धिं ददाति चउद्गतं हेलया विद्धि पापं यमपथे स्थितम् ॥३८॥यस्मिन्गृहे च लिखितो विद्यते तुलसीस्तवःनाशुभं विद्यते तस्य शुभमाप्नोति निश्चितम् ॥३९॥सर्वं च मंगलं तस्य नास्ति किंचिदमंगलम्सुभिक्षं सर्वदा तस्य धनं धान्यं च पुष्कलम् ॥४०॥निश्चला केशवे भक्तिर्न वियोगश्च वैष्णवैःजीवति व्याधिनिर्मुक्तो नाधर्मे जायते मतिः ॥४१॥द्वादश्यां जागरे रात्रौ यः पठेत्तुलसीस्तवम्तीर्थकोटिसहस्रैस्तु यत्फलं लक्षकोटिभिः ॥४२तत्फलं समवाप्नोति पठित्वा तुलसीस्तवम् ॥४३॥इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे तुलसीस्तवमाहात्म्यं नामैकषष्टितमोऽध्यायः ॥६१॥ N/A References : N/A Last Updated : October 25, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP