संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः| अध्यायः ३८ सृष्टिखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ विषयानुक्रमणिका सृष्टिखण्डः - अध्यायः ३८ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ३८ Translation - भाषांतर भीष्म उवाचकथं रामेण विप्रर्षे कान्यकुब्जे तु वामनःस्थापितः क्व च लब्धोसौ विस्तरान्मम कीर्तय ॥१॥तथा हि मधुरा चैषा या वाणी रामकीर्तनेकीर्तिता भगवन्मह्यं हृता कर्णसुखावह ॥२॥अनुरागेण तं लोकाः स्नेहात्पश्यंति राघवम्धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः ॥३॥प्रशास्ति पृथिवीं सर्वां धर्मेण सुसमाहितःतस्मिन्शासति वै राज्यं सर्वकामफलाद्रुमाः ॥४॥रसवंतः प्रभूताश्च वासांसि विविधानि चअकृष्टपच्या पृथिवी निःसपत्ना महात्मनः ॥५॥देवकार्यं कृतं तेन रावणो लोककंटकःसपुत्रोमात्यसहितो लीलयैव निपातितः ॥६॥तस्यबुद्धिस्समुत्पन्ना पूर्णे धर्मे द्विजोत्तमतस्याहं चरितं सर्वं श्रोतुमिच्छामि वै मुने ॥७॥पुलस्त्य उवाचकस्यचित्त्वथ कालस्य रामो धर्मपथे स्थितःयच्चकार महाबाहो शृणुष्वैकमना नृप ॥८॥सस्मार राक्षसेंद्रं तं कथं राजा विभीषणःलंकायां संस्थितो राज्यं करिष्यति च राक्षसः ॥९॥गीर्वाणेषु प्रातिकूल्यं विनाशस्य तु लक्षणम्मया तस्य तु तद्दत्तं राज्यं चंद्रार्ककालिकम् ॥१०॥तस्याविनाशतः कीर्तिः स्थिरा मे शाश्वती भवेत्रावणेन तपस्तप्तं विनाशायात्मनस्त्विह ॥११॥विध्वस्तः स च पापिष्ठो देवकार्ये मयाधुनातदिदानीं मयान्वेष्यः स्वयं गत्वा विभीषणः ॥१२॥संदेष्टव्यं हितं तस्य येन तिष्ठेत्स शाश्वतम्एवं चिंतयतस्तस्य रामस्यामिततेजसः ॥१३॥आजगामाथ भरतो रामं दृष्ट्वाब्रवीदिदम्किं त्वं चिंतयसे देव न रहस्यं वदस्व मे ॥१४॥देवकार्ये धरायां वा स्वकार्ये वा नरोत्तमएवं ब्रुवंतं भरतं ध्यायमानमवस्थितम् ॥१५॥अब्रवीद्राघवो वाक्यं रहस्यं तु न वै तवभवान्बहिश्चरः प्राणो लक्ष्मणश्च महायशाः ॥१६॥अवेद्यं भवतो नास्ति मम सत्यं विधारयएषा मे महती चिंता कथं देवैर्विभीषणः ॥१७॥वर्तते यद्धितार्थं वै दशग्रीवो निपातितःगमिष्ये तदहं लंकां यत्र चासौ विभीषणः ॥१८॥तं च दृष्ट्वा पुरीं तां तु कार्यमुक्त्वा च राक्षसम्आलोक्य सर्ववसुधां सुग्रीवं वानरेश्वरम् ॥१९॥महाराजं च शत्रुघ्नं भातृपुत्रांश्च सर्वशःएवं वदति काकुत्स्थे भरतः पुरतः स्थितः ॥२०॥उवाच राघवं वाक्यं गमिष्ये भवता सहएवं कुरु महाबाहो सौमित्रिरिह तिष्ठतु ॥२१॥इत्युक्त्वा भरतं रामः सौमित्रं चाह वै पुरेरक्षाकार्या त्वया वीर यावदागमनं हि नौ ॥२२॥एवं लक्ष्मणमादिश्य ध्यात्वा वै पुष्पकं नृपआरुरोह स वै यानं कौसल्यानंदवर्धनः ॥२३॥पुष्पकं तु ततः प्राप्तं गांधारविषयो यतःभरतस्य सुतौ दृष्ट्वा जगन्नीतिं निरीक्ष्य च ॥२४॥पूर्वां दिशं ततो गत्वा लक्ष्मणस्य सुतौ यतःपुरेषु तेषु षड्रात्रमुषित्वा रघुनंदनौ ॥२५॥गतौ तेन विमानेन दक्षिणामभितो दिशम्गंगायामुनसंभेदं प्रयागमृषिसेवितम् ॥२६॥अभिवाद्य भरद्वाजमत्रेराश्रममीयतुःसंभाष्य च मुनींस्तत्र जनस्थानमुपागतौ ॥२७॥राम उवाचअत्र पूर्वं हृता सीता रावणेन दुरात्मनाहत्वा जटायुषं गृध्रं योसौ पितृसखो हि नौ ॥२८॥अत्रास्माकं महद्युद्धं कबंधेन कुबुद्धिनाहतेन तेन दग्धेन सीतास्ते रावणालये ॥२९॥ॠष्यमूके गिरिवरे सुग्रीवो नाम वानरःस ते करिष्यते साह्यं पंपां व्रज सहानुजः ॥३०॥पंपासरः समासाद्य शबरीं गच्छ तापसीम्इत्युक्तो दुःखितो वीर निराशो जीविते स्थितः ॥३१॥इयं सा नलिनी वीर यस्यां वै लक्ष्मणोवदत्मा कृथाः पुरुषव्याघ्र शोकं शत्रुविनाशन ॥३२॥आज्ञाकारिणि भृत्ये च मयि प्राप्स्यसि मैथिलीम्अत्र मे वार्षिका मासा गता वर्षशतोपमाः ॥३३॥अत्रैव निहतो वाली सुग्रीवार्थे परंतपएषा सा दृश्यते नूनं किष्किंधा वालिपालिता ॥३४॥यस्यां वै स हि धर्मात्मा सुग्रीवो वानरेश्वरःवानरैः सहितो वीर तावदास्ते समाः शतम् ॥३५॥वानरैस्सह सुग्रीवो यावदास्ते सभां गतःतावत्तत्रागतौ वीरौ पुर्यां भरतराघवौ ॥३६॥दृष्ट्वा स भ्रातरौ प्राप्तौ प्रणिपत्याब्रवीदिदम्क्व युवां प्रस्थितौ वीरौ कार्यं किं नु करिष्यथः ॥३७॥विनिवेश्यासने तौ च ददावर्घ्ये स्वयं तदाएवं सभास्थिते तत्र धर्मिष्टे रघुनंदने ॥३८॥अंगदोथ हनूमांश्च नलो नीलश्च पाटलःगजो गवाक्षो गवयः पनसश्च महायशाः ॥३९॥पुरोधसो मंत्रिणश्च दैवज्ञो दधिवक्रकःनीलश्शतबलिर्मैन्दो द्विविदो गंधमादनः ॥४०॥वीरबाहुस्सुबाहुश्च वीरसेनो विनायकःसूर्याभः कुमुदश्चैव सुषेणो हरियूथपः ॥४१॥ॠषभो विनतश्चैव गवाख्यो भीमविक्रमःॠक्षराजश्च धूम्रश्च सहसैन्यैरुपागताः ॥४२॥अंतःपुराणि सर्वाणि रुमा तारा तथैव चअवरोधोंगदस्यापि तथान्याः परिचारिकाः ॥४३॥प्रहर्षमतुलं प्राप्य साधुसाध्विति चाब्रुवन्वानराश्च महात्मानः सुग्रीवसहितास्तदा ॥४४॥वानर्यश्च महाभागास्ताराद्यास्तत्र राघवम्अभिप्रेक्ष्याश्रुकंठ्यश्च प्रणिपत्येदमब्रुवन् ॥४५॥क्व सा देवी त्वया देव या विनिर्जित्यरावणम्शुद्धिं कृत्वा हि ते वह्नौ पितुरग्र उमापतेः ॥४६॥त्वयानीता पुरीं राम न तां पश्यामि तेग्रतःन विना त्वं तया देव शोभसे रघुनंदन ॥४७॥त्वया विनापि साध्वी सा क्व नु तिष्ठति जानकीअन्यां भार्यां न ते वेद्मि भार्याहीनो न शोभसे ॥४८॥क्रौंचयुग्मं मिथो यद्वच्चक्रवाकयुगं यथाएवं वदंतीं तां तारां ताराधिपसमाननाम् ॥४९॥प्राह प्रवचसां श्रेष्ठो रामो राजीवलोचनःचारुदंष्ट्रे विशालाक्षि कालो हि दुरतिक्रमः1.38. ॥५०॥सर्वं कालकृतं विद्धि जगदेतच्चराचरम्विसृज्यताः स्त्रियः सर्वाः सुग्रीवोभिमुखः स्थितः ॥५१॥सुग्रीव उवाचभवंतौ येन कार्येण इहायातौ नरेश्वरौतच्चापि कथ्यतां शीघ्रं कृत्यकालो हि वर्तते ॥५२॥ब्रुवाणमेवं सुग्रीवं भरतो रामचोदितःआचचक्षे च गमनं लंकायां राघवस्य तुतौ चाब्रवीच्च सुग्रीवो भवद्भ्यां सहितः पुरीम् ॥५३॥गमिष्ये राक्षसं देव द्रष्टुं तत्र विभीषणम्सुग्रीवेणैवमुक्ते तु गच्छस्वेत्याह राघवः ॥५४॥सुग्रीवो राघवौ तौ च पुष्पके तु स्थितास्त्रयःतावत्प्राप्तं विमानं तु समुद्रस्योत्तरं तटम् ॥५५॥अब्रवीद्भरतं रामो ह्यत्र मे राक्षसेश्वरःचतुर्भिः सचिवैः सार्धं जीवितार्थे विभीषणः ॥५६॥प्राप्तस्ततो लक्ष्मणेन लंकाराज्येभिषेचितःअत्र चाहं समुद्रस्य परेपारे स्थितस्त्र्यहम् ॥५७॥दर्शनं दास्यते मेऽसौ ज्ञातिकार्यं भविष्यतितावन्न दर्शनं मह्यं दत्तमेतेन शत्रुहन् ॥५८॥ततः कोपः सुमद्भूतश्चतुर्थेहनि राघवधनुरायम्य वेगेन दिव्यमस्त्रं करे धृतम् ॥५९॥दृष्ट्वा मां शरणान्वेषी भीतो लक्ष्मणमाश्रितःसुग्रीवेणानुनीतोऽस्मि क्षम्यतां राघव त्वया ॥६०॥ततो मयोत्क्षिप्तशरो मरुदेशे ह्यपाकृतःततस्समुद्रराजेन भृशं विनयशालिना ॥६१॥उक्तोहं सेतुबंधेन लंकां त्वं व्रज राघवलंघयित्वा नरव्याघ्र वारिपूर्णं महोदधिम् ॥६२॥एष सेतुर्मया बद्धः समुद्रे वरुणालयेत्रिभिर्दिनैः समाप्तिं वै नीतो वानरसत्तमैः ॥६३॥प्रथमे दिवसे बद्धो योजनानि चतुर्दशद्वितीयेहनि षट्त्रिंशत्तृतीयेर्धशतं तथा ॥६४॥इयं सा दृश्यते लंका स्वर्णप्राकारतोरणाअवरोधो महानत्र कृतो वानरसत्तमैः ॥६५॥अत्र युद्धं महद्वृत्तं चैत्राशुक्लचतुर्दशिअष्टचत्वारिंशद्दिनं यत्रासौ रावणो हतः ॥६६॥अत्र प्रहस्तो नीलेन हतो राक्षसपुंगवःहनूमता च धूम्राक्षो ह्यत्रैव विनिपातितः ॥६७॥महोदरातिकायौ च सुग्रीवेण महात्मनाअत्रैव मे कुंभकर्णो लक्ष्मणेनेंद्रजित्तथा ॥६८॥मया चात्र दशग्रीवो हतो राक्षसपुंगवःअत्र संभाषितुं प्राप्तो ब्रह्मा लोकपितामहः ॥६९॥पार्वत्या सहितो देवः शूलपाणिर्वृषध्वजःमहेंद्राद्याः सुरगणाः सगंधर्वास्स किंनराः ॥७०॥पिता मे च समायातो महाराजस्त्रिविष्टपात्वृतश्चाप्सरसां संघैर्विद्याधरगणैस्तथा ॥७१॥तेषां समक्षं सर्वेषां जानकी शुद्धिमिच्छताउक्ता सीता हव्यवाहं प्रविष्टा शुद्धिमागता ॥७२॥लंकाधिपैः सुरैर्दृष्टा गृहीता पितृशासनात्अथाप्युक्तोथ राज्ञाहमयोध्यां गच्छ पुत्रकम् ॥७३॥न मे स्वर्गो बहुमतस्त्वया हीनस्य राघवतारितोहं त्वया पुत्र प्राप्तोऽस्मीन्द्रसलोकताम् ॥७४॥लक्ष्मणं चाब्रवीद्राजा पुत्र पुण्यं त्वयार्जितम्भ्रात्रासममथो दिव्यांल्लोकान्प्राप्स्यसि चोत्तमान् ॥७५॥आहूय जानकीं राजा वाक्यं चेदमुवाच हन च मन्युस्त्वया कार्यो भर्तारं प्रति सुव्रते ॥७६॥ख्यातिर्भविष्यत्येवाग्र्या भर्तुस्ते शुभलोचनेएवं वदति रामे तु पुष्पके च व्यवस्थिते ॥७७॥तत्र ये राक्षसवरास्ते गत्वाशु विभीषणंप्राप्तो रामः ससुग्रीवश्चारा इत्थं तदाऽवदन् ॥७८॥विभीषणस्तु तच्छ्रुत्वा रामागमनमंतिकेचारांस्तान्पूजयामास सर्वकामधनादिभिः ॥७९॥अलंकृत्य पुरीं तां तु निष्क्रान्तः सचिवैः सहदृष्ट्वा रामं विमानस्थं मेराविव दिवाकरं ॥८०॥अष्टांगप्रणिपातेन नत्वा राघवमब्रवीत्अद्य मे सफलं जन्म प्राप्ताः सर्वे मनोरथाः ॥८१॥यद्दृष्टौ देवचरणौ जगद्वंद्यावनिंदितौकृतः श्लाघ्योस्म्यहं देव शक्रादीनां दिवौकसां ॥८२॥आत्मानमधिकं मन्ये त्रिदशेशात्पुरंदरात्रावणस्य गृहे दीप्ते सर्वरत्नोपशोभिते ॥८३॥उपविष्टे तु काकुत्स्थे अर्घं दत्वा विभीषणःउवाच प्रांजलिर्भूत्वा सुग्रीवं भरतं तथा ॥८४॥इहागतस्य रामस्य यद्दास्ये न तदस्ति मेइयं च लंका रामेण रिपुं त्रैलोक्यकंटकम् ॥८५॥हत्वा तु पापकर्माणं दत्ता पूर्वं पुरी ममइयं पुरी इमे दारा अमी पुत्रास्तथा ह्यहं ॥८६॥सर्वमेतन्मया दत्तं सर्वमक्षयमस्तु तेततः प्रकृतयः सर्वा लंकावासिजनाश्च ये ॥८७॥आजग्मू राघवं द्रष्टुं कौतूहलसमन्विताःउक्तो विभीषणस्तैस्तु रामं दर्शय नः प्रभो ॥८८॥विभीषणेन कथिता राघवाय महात्मनेतेषामुपायनं सर्वं भरतो रामचोदितः ॥८९॥जग्राह वानरेन्द्रश्च धनरत्नौघसंचयंएवं तत्र त्र्यहं रामो ह्यवसद्राक्षसालये ॥९०॥चतुर्थेहनि संप्राप्ते रामे चापि सभास्थितेकेकसी पुत्रमाहेदं रामं द्रक्ष्यामि पुत्रक ॥९१॥दृष्टे तस्मिन्महत्पुण्यं प्राप्यते मुनिसत्तमैःविष्णुरेष महाभागश्चतुर्मूर्तिस्सनातनः ॥९२॥सीता लक्ष्मीर्महाभाग न बुद्धा साग्रजेन तेपित्रा ते पूर्वमाख्यातं देवानां दिविसंगमे ॥९३॥कुले रघूणां वै विष्णुः पुत्रो दशरथस्य तुभविष्यति विनाशाय दशग्रीवस्य रक्षसः ॥९४॥विभीषण उवाचएवं कुरुष्व वै मातर्गृहाण नवमं वरम्पात्रं चंदनसंयुक्तं दधिक्षौद्राक्षतैः सह ॥९५॥दूर्वयार्घं सह कुरु राजपुत्रस्य दर्शनम्सरमामग्रतः कृत्वा याश्चान्या देवकन्यकाः ॥९६॥व्रजस्व राघवाभ्याशं तस्मादग्रे व्रजाम्यहम्एवमुक्त्वा गतं रक्षो यत्र रामो व्यवस्थितः ॥९७॥उत्सार्य दानवान्सर्वान्रामं द्रष्टुं समागतान्सभां तां विमलां कृत्वा रामं स्वाभिमुखे स्थितम् ॥९८॥विभीषण उवाचविज्ञाप्यं शृणु मे देव वदतश्च विशांपतेदशग्रीवं कुंभकर्णं या च मां चाप्यजीजनत् ॥९९॥इयं सा देवमाता नः पादौ ते द्रष्टुमिच्छतितस्यास्तु त्वं कृपां कृत्वा दर्शनं दातु मर्हसि1.38. ॥१००॥राम उवाचअहं तस्याः समीपं तु मातृदर्शनकांक्षयागमिष्ये राक्षसेंद्र त्वं शीघ्रं याहि ममाग्रतः ॥१०१॥प्रतिज्ञाय तु तं वाक्यमुत्तस्थौ च वरासनात्मूर्ध्नि चांजलिमाधाय प्रणाममकरोद्विभुः ॥१०२॥अभिवादयेहं भवतीं माता भवसि धर्मतःमहता तपसा चापि पुण्येन विविधेन च ॥१०३॥इमौ ते चरणौ देवि मानवो यदि पश्यतिपूर्णस्स्यात्तदहं प्रीतो दृष्ट्वेमौ पुत्रवत्सले ॥१०४॥कौसल्या मे यथा माता भवती च तथा ममकेकसी चाब्रवीद्रामं चिरं जीव सुखी भव ॥१०५॥भर्त्रा मे कथितं वीर विष्णुर्मानुषरूपधृत्अवतीर्णो रघुकुले हितार्थेत्र दिवौकसाम् ॥१०६॥दशग्रीव विनाशाय भूतिं दातुं विभीषणेवालिनो निधनं चैव सेतुबंधं च सागरे ॥१०७॥पुत्रो दशरथस्यैव सर्वं स च करिष्यतिइदानीं त्वं मया ज्ञातः स्मृत्वा तद्भर्तृभाषितम् ॥१०८॥सीता लक्ष्मीर्भवान्विष्णुर्देवा वै वानरास्तथागृहं पुत्र गमिष्यामि स्थिरकीर्तिमवाप्नुहि ॥१०९॥सरमोवाचइहैव वत्सरं पूर्णमशोकवनिकास्थितासेविता जानकी देव सुखं तिष्ठति ते प्रिया ॥११०॥नित्यं स्मरामि वै पादौ सीतायास्तु परंतपकदा द्रक्ष्यामि तां देवीं चिंतयाना त्वहर्निशम् ॥१११॥किमर्थं देवदेवेन नानीता जानकी त्विहएकाकी नैव शोभेथा योषिता च तया विना ॥११२॥समीपे शोभते सीता त्वं च तस्याः परंतपएवं ब्रुवन्त्यां भरतः केयमित्यब्रवीद्वचः ॥११३॥ततश्चेंगितविद्रामो भरतं प्राह सत्वरम्विभीषणस्य भार्या वै सरमा नाम नामतः ॥११४॥प्रिया सखी महाभागा सीतायास्सुदृढं मतासर्वंकालकृतं पश्य न जाने किं करिष्यति ॥११५॥गच्छ त्वं सुभगे भर्तृगेहं पालय शोभनेमां त्यक्त्वा हि गता देवी भाग्यहीनं गतिर्यथा ॥११६॥तया विरहितः सुभ्रु रतिं विंदे न कर्हिचित्शून्या एव दिशः सर्वाः पश्यामीह पुनर्भ्रमन् ॥११७॥विसृज्यतां च सरमां सीतायास्तु प्रियां सखीम्गतायामथ केकस्यां रामः प्राह विभीषणम् ॥११८॥दैवतेभ्यः प्रियं कार्यं नापराध्यास्त्वया सुराःआज्ञया राजराजस्य वर्तितव्यं त्वयानघ ॥११९॥लंकायां मानुषो यो वै समागच्छेत्कथंचनराक्षसैर्न च हंतव्यो द्रष्टव्योसौ यथा त्वहम् ॥१२०॥विभीषण उवाचआज्ञयाहं नरव्याघ्र करिष्ये सर्वमेव तुविभीषणे हि वदति वायू राममुवाच ह ॥१२१॥इहास्तिवैष्णवी मूर्तिः पूर्वं बद्धो बलिर्ययातां नयस्व महाभाग कान्यकुब्जे प्रतिष्ठय ॥१२२॥विदित्वा तदभिप्रायं वायुना समुदाहृतम्विभीषणस्त्वलंकृत्य रत्नैः सर्वैश्च वामनम् ॥१२३॥आनीय चार्पयद्रामे वाक्यं चेदमुवाच हयदा वै निर्जितः शक्रो मेघनादेन राघव ॥१२४॥तदा वै वामनस्त्वेष आनीतो जलजेक्षणनयस्व तमिमं देव देवदेवं प्रतिष्ठय ॥१२५॥तथेति राघवः कृत्वा पुष्पकं च समारुहत्धनं रत्नमसंख्येयं वामनं च सुरोत्तमम् ॥१२६॥गृह्य सुग्रीवभरतावारूढौ वामनादनुव्रजन्नेवांबरे रामस्तिष्ठेत्याह विभीषणम् ॥१२७॥राघवस्य वचः श्रुत्वा भूयोप्याह स राघवम्करिष्ये सर्वमेतद्धि यदाज्ञप्तं विभो त्वया ॥१२८॥सेतुनानेन राजेंद्र पृथिव्यां सर्वमानवाःआगत्य प्रतिबाधेरन्नाज्ञाभंगो भवेत्तव ॥१२९॥कोत्र मे नियमो देव किन्नु कार्यं मया विभोश्रुत्वैतद्राघवो वाक्यं राक्षसोत्तमभाषितम् ॥१३०॥कार्मुकं गृह्य हस्तेन रामः सेतुं द्विधाच्छिनत्त्रिर्विभज्य च वेगेन मध्ये वै दशयोजनम् ॥१३१॥छित्वा तु योजनं चैकमेकं खंडत्रयं कृतम्वेलावनं समासाद्य रामः पूजां रमापतेः ॥१३२॥कृत्वा रामेश्वरं नाम्ना देवदेवं जनार्दनंअभिषिच्याथ संगृह्य वामनं रघुनंदनः ॥१३३॥दक्षिणादुदधेश्चैव निर्जगाम त्वरान्वितःअंतरिक्षादभूद्वाणी मेघगंभीरनिःस्वना ॥१३४॥रुद्र उवाचभो भो रामास्तु भद्रं ते स्थितोऽहमिह सांप्रतम्यावज्जगदिदं राम यावदेषा धरा स्थिता ॥१३५॥तावदेव च ते सेतु तीर्थं स्थास्यति राघवश्रुत्वैवं देवदेवस्य गिरं ताममृतोपमाम् ॥१३६॥राम उवाचनमस्ते देवदेवेश भक्तानामभयंकरगौरीकांत नमस्तुभ्यं दक्षयज्ञविनाशन ॥१३७॥नमो भवाय शर्वाय रुद्राय वरदाय चपशूनांपतये नित्यं चोग्राय च कपर्दिने ॥१३८॥महादेवाय भीमाय त्र्यंबकाय दिशांपतेईशानाय भगघ्नाय नमोस्त्वंधकघातिने ॥१३९॥नीलग्रीवाय घोराय वेधसे वेधसा स्तुतकुमारशत्रुनिघ्नाय कुमारजननाय च ॥१४०॥विलोहिताय धूम्राय शिवाय क्रथनाय चनमो नीलशिखंडाय शूलिने दैत्यनाशिने ॥१४१॥उग्राय च त्रिनेत्राय हिरण्यवसुरेतसेअनिंद्यायांबिकाभर्त्रे सर्वदेवस्तुताय च ॥१४२॥अभिगम्याय काम्याय सद्योजाताय वै नमःवृषध्वजाय मुंडाय जटिने ब्रह्मचारिणे ॥१४३॥तप्यमानाय तप्याय ब्रह्मण्याय जयाय चविश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते ॥१४४॥नमो नमोस्तु दिव्याय प्रपन्नार्तिहराय चभक्तानुकंपिने देव विश्वतेजो मनोगते ॥१४५॥पुलस्त्य उवाचएवं संस्तूयमानस्तु देवदेवो हरो नृपउवाच राघवं वाक्यं भक्तिनम्रं पुरास्थितम् ॥१४६॥रुद्र उवाचभो भो राघव भद्रं ते ब्रूहि यत्ते मनोगतम्भवान्नारायणो नूनं गूढो मानुषयोनिषु ॥१४७॥अवतीर्णो देवकार्यं कृतं तच्चानघ त्वयाइदानीं स्वं व्रजस्थानं कृतकार्योसि शत्रुहन् ॥१४८॥त्वया कृतं परं तीर्थं सेत्वाख्यं रघुनंदनआगत्य मानवा राजन्पश्येयुरिह सागरे ॥१४९॥महापातकयुक्ता ये तेषां पापं विलीयतेब्रह्मवध्यादिपापानि यानि कष्टानि कानिचित्1.38. ॥१५०॥दर्शनादेव नश्यंति नात्र कार्या विचारणागच्छ त्वं वामनं स्थाप्य गंगातीरे रघूत्तम ॥१५१॥पृथिव्यां सर्वशः कृत्वा भागानष्टौ परंतपश्वेतद्वीपं स्वकं स्थानं व्रज देव नमोस्तु ते ॥१५२॥प्रणिपत्य ततो रामस्तीर्थं प्राप्तश्च पुष्करम्विमानं तु न यात्यूर्ध्वं वेष्टितं तत्तु राघवः ॥१५३॥किमिदं वेष्टितं यानं निरालंबेऽम्बरे स्थितम्भवितव्यं कारणेन पश्येत्याह स्म वानरम् ॥१५४॥सुग्रीवो रामवचनादवतीर्य धरातलेस च पश्यति ब्रह्माणं सुरसिद्धसमन्वितम् ॥१५५ब्रह्मर्षिसङ्घसहितं चतुर्वेदसमन्वितम्दृष्ट्वाऽऽगत्याब्रवीद्रामं सर्वलोकपितामहः ॥१५६॥सहितो लोकपालैश्च वस्वादित्यमरुद्गणैःतं देवं पुष्पकं नैव लंघयेद्धि पितामहम् ॥१५७॥अवतीर्य ततो रामः पुष्पकाद्धेमभूषितात्नत्वा विरिंचनं देवं गायत्र्या सह संस्थितम् ॥१५८॥अष्टांगप्रणिपातेन पंचांगालिंगितावनिःतुष्टाव प्रणतो भूत्वा देवदेवं विरिंचनम् ॥१५९॥राम उवाचनमामि लोककर्तारं प्रजापतिसुरार्चितम्देवनाथं लोकनाथं प्रजानाथं जगत्पतिम् ॥१६०॥नमस्ते देवदेवेश सुरासुरनमस्कृतभूतभव्यभवन्नाथ हरिपिंगललोचन ॥१६१॥बालस्त्वं वृद्धरूपी च मृगचर्मासनांबरःतारणश्चासि देवस्त्वं त्रैलोक्यप्रभुरीश्वरः ॥१६२॥हिरण्यगर्भः पद्मगर्भः वेदगर्भः स्मृतिप्रदःमहासिद्धो महापद्मी महादंडी च मेखली ॥१६३॥कालश्च कालरूपी च नीलग्रीवो विदांवरःवेदकर्तार्भको नित्यः पशूनां पतिरव्ययः ॥१६४॥दर्भपाणिर्हंसकेतुः कर्ता हर्ता हरो हरिःजटी मुंडी शिखी दंडी लगुडी च महायशाः ॥१६५॥भूतेश्वरः सुराध्यक्षः सर्वात्मा सर्वभावनःसर्वगः सर्वहारी च स्रष्टा च गुरुरव्ययः ॥१६६॥कमंडलुधरो देवः स्रुक्स्रुवादिधरस्तथाहवनीयोऽर्चनीयश्च ॐकारो ज्येष्ठसामगः ॥१६७॥मृत्युश्चैवामृतश्चैव पारियात्रश्च सुव्रतःब्रह्मचारी व्रतधरो गुहावासी सुपङ्कजः ॥१६८॥अमरो दर्शनीयश्च बालसूर्यनिभस्तथादक्षिणे वामतश्चापि पत्नीभ्यामुपसेवितः ॥१६९॥भिक्षुश्च भिक्षुरूपश्च त्रिजटी लब्धनिश्चयःचित्तवृत्तिकरः कामो मधुर्मधुकरस्तथा ॥१७०॥वानप्रस्थो वनगत आश्रमी पूजितस्तथाजगद्धाता च कर्त्ता च पुरुषः शाश्वतो ध्रुवः ॥१७१॥धर्माध्यक्षो विरूपाक्षस्त्रिधर्मो भूतभावनःत्रिवेदो बहुरूपश्च सूर्यायुतसमप्रभः ॥१७२॥मोहकोवंधकश्चैवदानवानांविशेषतःदेवदेवश्च पद्माङ्कस्त्रिनेत्रोऽब्जजटस्तथा ॥१७३॥हरिश्मश्रुर्धनुर्धारी भीमो धर्मपराक्रमःएवं स्तुतस्तु रामेण ब्रह्मा ब्रह्मविदांवरः ॥१७४॥उवाच प्रणतं रामं करे गृह्य पितामहःविष्णुस्त्वं मानुषे देहेऽवतीर्णो वसुधातले ॥१७५॥कृतं तद्भवता सर्वं देवकार्यं महाविभोसंस्थाप्य वामनं देवं जाह्नव्या दक्षिणे तटे ॥१७६॥अयोध्यां स्वपुरीं गत्वा सुरलोकं व्रजस्व चविसृष्टो ब्रह्मणा रामः प्रणिपत्य पितामहं ॥१७७॥आरूढः पुष्पकं यानं संप्राप्तो मधुरां पुरीम्समीक्ष्य पुत्रसहितं शत्रुघ्नं शत्रुघातिनं ॥१७८॥तुतोष राघवः श्रीमान्भरतः स हरीश्वरःशत्रुघ्नो भ्रातरौ प्राप्तौ शक्रोपेन्द्राविवागतौ ॥१७९॥प्रणिपत्य ततो मूर्ध्ना पंचांगालिंगितावनिःउत्थाप्य चांकमारोप्य रामो भ्रातरमंजसा ॥१८०॥भरतश्च ततः पश्चात्सुग्रीवस्तदनंतरंउपविष्टोऽथ रामाय सोऽर्घमादाय सत्वरं ॥१८१॥राज्यं निवेदयामास चाष्टांगं राघवे तदाश्रुत्वा प्राप्तं ततो रामं सर्वो वै माथुरो जनः ॥१८२॥वर्णा ब्राह्मणभूयिष्ठा द्रष्टुमेनं समागताःसंभाष्य प्रकृतीः सर्वा नैगमान्ब्राह्मणैः सह ॥१८३॥दिनानि पंचोषित्वाऽत्र रामो गंतुं मनो दधेशत्रुघ्नश्च ततो रामे वाजिनोथ गजांस्तथा ॥१८४॥कृताकृतं च कनकं तत्रोपायनमाहरत्रामस्त्वाह ततः प्रीतः सर्वमेतन्मया तव ॥१८५॥दत्तं पुत्रौ तेऽभिषिञ्च राजानौ माथुरे जनेएवमुक्त्वा ततो रामः प्राप्तो मध्यंदिने रवौ ॥१८६॥महोदयं समासाद्य गंगातीरे स वामनंप्रतिष्ठाप्य द्विजानाह भाविनः पार्थिवांस्तथा ॥१८७॥मया कृतोऽयं धर्मस्य सेतुर्भूतिविवर्धनःप्राप्ते काले पालनीयो न च लोप्यः कथंचन ॥१८८॥प्रसारितकरेणैवं प्रार्थनैषा मया कृतानृपाः कृते मयार्थित्वे यत्क्षेमं क्रियतामिह ॥१८९॥नित्यं दैनंदिनीपूजा कार्या सर्वैरतंद्रितैःग्रामान्दत्वा धनं तच्च लंकाया आहृतं च यत् ॥१९०॥प्रेषयित्वा च किष्किंधां सुग्रीवं वानरेश्वरंअयोध्यामागतो रामः पुष्पकं तमथाब्रवीत् ॥१९१॥नागंतव्यं त्वया भूयस्तिष्ठ यत्र धनेश्वरःकृतकृत्यस्ततो रामः कर्तव्यं नाप्यमन्यत ॥१९२॥पुलस्त्य उवाचएवन्ते भीष्म रामस्य कथायोगेन पार्थिवउत्पत्तिर्वामनस्योक्ता किं भूयः श्रोतुमिच्छसि ॥१९३॥कथयामि तु तत्सर्वं यत्र कौतूहलं नृपसर्वं ते कीर्त्तयिष्यामि येनार्थी नृपनंदन ॥१९४॥इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे वामनप्रतिष्ठानामाष्टत्रिंशोऽध्यायः ॥३८॥ N/A References : N/A Last Updated : October 25, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP