संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः| अध्यायः ५५ सृष्टिखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ विषयानुक्रमणिका सृष्टिखण्डः - अध्यायः ५५ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ५५ Translation - भाषांतर श्रीभगवानुवाच - अपरं च प्रवक्ष्यामि कामेनाधिष्ठितस्य चपुरा भागीरथी तीरे द्विजः परमहंसकः ॥१॥उपदेष्टा सहस्राणां द्विजानां शांतिदः परःएकदंडधरः साक्षात्कूर्मवद्धरणी स्थितः ॥२॥एकाकिनः सतस्तस्य देवागारे विनिष्कृतेपत्युर्गृहात्परं गेहं गंतुं सायं समुद्यता ॥३॥अकस्माद्युवती नारी मिलिता रूपधारिणीदृष्ट्वा तां भगवान्विप्रो मन्मथस्य भयार्दितः ॥४॥अगारजठरे कृत्वा स चैनां प्राक्षिपत्क्षपाम्अर्गलं सा दृढं कृत्वा देवागारे सुशोभने ॥५॥कदाचिदपि तं द्वारादागंतुं न ददाति हएवंभूतः समाधिस्थः क्षपां क्षिप्त्वा विलप्य सः ॥६॥चिंतयंस्तां वरारोहां द्वारि किं वा कृतं ममएवं संचिंत्यतामाह द्वारं देहीह नः प्रिये ॥७॥पतिश्च वशगः कांते दयितस्ते भविष्यतिततस्तं प्राह सा विप्रं वृद्धं कामप्रलालसम् ॥८॥अनन्विता गिरःस्तात वक्तुं त्वं नार्हसि प्रभोअथासौ भगवान्प्राह प्रचुरं चास्ति मे वसु ॥९॥तव दास्यामि कल्याणि प्रस्फोटय कपाटिकाम्विप्रमाह पुनः सा च त्वं वै मे धर्मतः पिता ॥१०॥मा गच्छ पुत्रिकां मां च परयोषां च धार्मिकमनसा स समालोच्य सुषिरेण पथा गृहान् ॥११॥बाहुनोद्धाट्यते नैव गंतुं चैव समुद्यतःगच्छतश्चार्द्धमरर उत्तमांगं सुसंकटे ॥१२॥प्रविष्टं न पुनश्चैति पंचत्वमगमत्तदाउषःकाले समायाता रक्षिणो ये च किंकराः ॥१३॥अद्भुतं तं शवं दृष्ट्वा तामुचुस्ते च विस्मिताःकथं च निधनं त्वस्य संभूतं ब्रूहि सुंदरि ॥१४॥कथयित्वा तु तद्वृत्तमभीष्टं देशमागताएवं कामस्य महिमा दुर्निवारो जनेषु च ॥१५॥सर्वेषामपि जंतूनां सुरासुरनृणां भवेत्दृष्ट्वाऽमोघां वरारोहां सर्वलोकपितामहः ॥१६॥च्युतबीजोभवत्तत्र लौहित्यसंभवस्मृतःपुनाति सकलान्लोकान्सर्वतीर्थमयो हि सः ॥१७॥यमाश्रित्य नरो याति ब्रह्मलोकमनामयम्द्विज उवाच - कथं च ब्रह्मणो मोहो ह्यमोघा का वरांगना ॥१८॥उद्भवं तीर्थराजस्य श्रोतुमिच्छामि तत्त्वतःश्रीभगवानुवाच - मुनिर्देवैः समाराध्यः पद्मयोनिसमप्रभः ॥१९॥शंतनुश्चेति विख्यातः पत्नी तस्य पतिव्रताअमोघेति समाख्याता रूपयौवनशालिनी ॥२०॥अस्याश्च पतिमन्वेष्टुं यातो ब्रह्मा च तद्गृहम्तस्मिन्काले मुनिश्रेष्ठः पुष्पाद्यर्थं वनं गतः ॥२१॥सा तं दृष्ट्वा सुरश्रेष्ठमर्घ्यपाद्यादिकं ददौदूरेभिवादनं कृत्वा सा गृहं प्रविवेश ह ॥२२॥तां च दृष्ट्वा नवद्यांगीं धाता कामवशं गतःस्रष्टात्मानं समाधायाचिंतयत्तां पुरोगताम् ॥२३॥बीजं पपात खट्वायां ब्रह्मणः परमात्मनःततो ब्रह्मा गतस्त्रस्तस्त्वरया परिपीडितः ॥२४॥अथायातो मुनिर्गेहं शुक्रं पीठे ददर्श हतमपृच्छद्वरारोहां कश्चाप्यत्रागतः पुमान् ॥२५॥तमुवाच ततोऽमोघा ब्रह्मा ह्यत्रागतः पतेत्वामेवान्वेषितुं नाथ मया दत्तोत्र पीठकः ॥२६॥शुक्रस्य कारणं चात्र तपसा ज्ञातुमर्हसिततो ध्यानात्परिज्ञातं तेनैव च द्विजन्मना ॥२७॥ब्रह्मरेतः परं साध्वी पालयस्व ममाज्ञयाउत्पद्यते सुतस्ते तु सर्वलोकैकपावनः ॥२८॥आवयोः सर्वकल्याणं फलिष्यति मनोगतम्ततः पतिव्रता तस्य आज्ञामागृह्य संभवात् ॥२९॥पपौ रेतो महाभागा ब्रह्मणः परमात्मनःआवर्त इव संजज्ञे रौद्रगर्भ इति स्फुरन् ॥३०॥प्रसोढुं नैव शक्ता सा शंतनुं चाब्रवीत्ततःगर्भं धारयितुं नाथ न शक्नोम्यधुना प्रभो ॥३१॥किं करिष्यामि धर्मज्ञ प्राणो मे संचलत्यपिआज्ञापय महाभाग गर्भं त्यक्ष्यामि यत्र च ॥३२॥पत्युराज्ञां समादाय मुक्तो गर्भो युगंधरेपयस्तेजोमयं शुद्धं सर्वधर्मप्रतिष्ठितम् ॥३३॥तन्मध्ये पुरुषः शुद्धः किरीटी नीलवाससारत्नदाम्ना च विद्धांगो दुःप्रेक्ष्यो ज्योतिषां गणः ॥३४॥ततो देवगणाः स्वर्गात्पुष्पवर्षमवाकिरन्प्रसूतः सर्वतीर्थेषु तीर्थराज इति स्मृतः ॥३५॥ततो राम इति ख्यातः प्रजातोहं भृगोः कुलेक्षत्रियान्पितृहंतॄंस्तु ससैन्यबलवाहनान् ॥३६॥हत्वा युद्धगतान्भीतान्पंकैः सर्वैर्युतो ह्यहम्ब्रह्महत्यासमं घोरं मद्गेहे समुपस्थितम् ॥३७॥पंकयुक्तं कुठारं मे क्षालितं नैव शुद्ध्यतिततः खे चाभवद्वाणी राम मद्वचनं कुरु ॥३८॥यत्र तीर्थे कुठारं ते निर्मलं च भवेदिहतत्र ते सर्वपापानां जातानां च क्षयो भवेत् ॥३९॥जनानां तत्र सर्वेषां हितार्थं तिष्ठ मानदचपलं गच्छ तीर्थानि सर्वाणि सुमहांति च ॥४०॥तेषां मध्ये महातीर्थे पर्शुः शुद्धो भवेद्यदितं च जानीहि तीर्थेषु मुक्तिदं परिकीर्तितम् ॥४१॥तच्छ्रुत्वा जामदग्न्यस्तु तीर्थानि प्रययौ तदागंगां सरस्वतीं शुभ्रां कावेरीं सरयूं तथा ॥४२॥गोदावरीं च यमुनां कद्रूं च वसुदां तथाअन्यां च पुण्यदां रम्यां गौरीं पूर्वां स्थितां शुभाम् ॥४३॥गच्छतस्तस्य धीरस्य सदागतिसमस्य चक्षालितः सर्वतीर्थेषु न पुनर्निर्मलोऽभवत् ॥४४॥ततो गिरिगुहां दुर्गां महारण्यं च पर्वतम्गिरिकूटं च दुर्लभ्यं ययौ तीर्थमसौ हरिः ॥४५॥न च निर्मलतामेति कुठारस्तस्य तेन चविषादमगमत्तत्र रामः परपुरंजयः ॥४६॥हाहेति विविधं कृत्वा चोपविश्य धरातलेप्रचिंतामगमद्वीरस्तमुवाच पुनस्तथा ॥४७॥पूर्वस्यां दिशि देवेश तीर्थं चास्ति गुहोदरेतच्छ्रुत्वा नरशार्दूलो गत्वा कुंडं ददर्श सः ॥४८॥प्रदक्षिणं जलावर्तं शुभ्रं पापहरं शुभम्तज्जलस्पर्शमात्रेण कुठारः शुद्धतां गतः ॥४९॥ततो रामोभिषेकं तु कृतवान्प्रमुदान्वितःशुद्धात्मनस्त्वपापस्य बुद्धिर्जाता प्रपाविनी ॥५०॥ 1.55.50स रामः सुचिरं स्थित्वा तीर्थराजं प्रसाद्य तम्ततस्ततोऽचलात्प्राप्य पुरं वेगसमन्वितः ॥५१॥ख्यातं कृत्वा ततश्चोर्व्यां गतोसौ लवणार्णवम्अयं तीर्थवरः साक्षात्पितामहकृतो भुवि ॥५२॥सुखदः सर्वतः शुद्धो मुक्तिमार्गप्रदः किलएवं कामप्रभावं च विद्धि दुर्वारदुःसहम् ॥५३॥कामाज्जातं वृषं पापं पुण्यं पुण्यप्रयोगतःस जातश्चैव लौहित्यो विरंचेश्चैव चौरसः ॥५४॥शंतनो क्षेत्र संजातस्त्वमोघागर्भसंभवःविरिञ्चिना जितः कामः शांतनोरप्यमत्सरात् ॥५५॥तस्याः पतिव्रतात्वाच्च तीर्थात्तीर्थवरो हि सःएवं यस्तु पठेन्नित्यं पुण्याख्यानमिदं शिवम् ॥५६॥शृणुयाद्वा मुदा पृथ्व्यां मुक्तिमार्गं स गच्छति ॥५७इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे पंचाख्याने लौहित्योत्पत्तिर्नाम पंचपंचाशत्तमोऽध्यायः ॥५५॥ N/A References : N/A Last Updated : October 25, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP