संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः| अध्यायः २२ सृष्टिखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ विषयानुक्रमणिका सृष्टिखण्डः - अध्यायः २२ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २२ Translation - भाषांतर भीष्म उवाचभूर्लोकोथ भुवर्लोकः स्वर्लोकोथ महर्जनःतपः सत्यं च सप्तैते देवलोकाः प्रकीर्त्तिताः ॥१॥पर्यायेण तु सर्वेषामाधिपत्यं कथं भवेत्इहलोके शुभं रूपमायुरारोग्यमेव च ॥२॥लक्ष्मीश्च विपुला ब्रह्मन्कथं स्यात्सुरपूजितपुलस्त्य उवाचपुरा हुताशनः सार्द्धं मारुतेन महीतले ॥३॥आदिष्टः पुरुहूतेन विनाशाय सुरद्विषाम्निर्दग्धेषु ततस्तेन दानवेषु सहस्रशः ॥४॥तारकः कमलाक्षश्च कालदंष्ट्रः परावसुःविरोचनस्तु संह्रादः प्रयातास्ते तदा वसन् ॥५॥अंतःसमुद्रमाविश्य सन्निवेशमकुर्वतअशक्ता इति तेप्यग्निमारुताभ्यामुपेक्षिताः ॥६॥ततः प्रभृति वै देवान्मानुषान्स भुजंगमान्संपीड्य च मुनीन्सर्वान्प्रविशंति पुनर्जलम् ॥७॥एवं युगसहस्राणि ते वीराः सप्त पंच चजलदुर्गबलाद्राजन्पीडयंति जगत्त्रयम् ॥८॥ततः पुनरथो वह्निमारुतावमराधिपःआदिदेशाचिरादंबु निधिरेष विशोष्यताम् ॥९॥यस्मादस्मद्द्विषां चैष शरणं वरुणालयःतस्माद्भवद्भ्यामद्यैव शोषमेष प्रणीयताम् ॥१०॥तावूचतुस्ततः शक्रं मयशम्बरसूदनम्अधर्म एष देवेंद्र सागरस्य विनाशनम् ॥११॥यस्माज्जीवनिकायस्य महतः संक्षयो भवेत्तस्मादुपायमन्यं तु समाश्रय पुरंदर ॥१२॥यस्य योजनमात्रेपि जीवकोटि शतानि चनिवसंति सुरश्रेष्ठ स कथं नाशमर्हति ॥१३॥एवमुक्तः सुरेंद्रस्तु क्रोधसंरक्तलोचनःउवाचेदं वचो रोषादमरावग्निमारुतौ ॥१४॥न धर्माधर्मसंयोगं प्राप्नुवंत्यमराः क्वचित्भवंतौ तु विशेषेण महात्मानौ च तिष्ठतः ॥१५॥ममाज्ञा न कृता यस्मान्मारुतेन समं त्वयामुंनिव्रतपरो भूत्वा परिगृह्य कलेवरम् ॥१६॥धर्मार्थशास्त्ररहितां योनिं प्रति विभावसोतस्मादेकेन वपुषा मुनिरूपेण मानुषे ॥१७॥मारुतेन समं लोके तव जन्म भविष्यतियदा तु मानुषत्वेपि त्वया गंडूषशोषितः ॥१८॥भविष्यत्युदधिर्वह्ने तदा देवत्वमाप्स्यसिइतींद्रशापात्पतितौ तत्क्षणात्तौ महीतले ॥१९॥अवाप्तवंतौ देहे च कुंभाज्जन्म ततोभवत्मित्रावरुणयोर्वीर्याद्वसिष्ठश्चात्मजोभवत् ॥२०॥ततोगस्त्य उग्रतपा बभूव मुनिसत्तमःअस्माद्भ्रातुः स वै भ्राता वसिष्ठस्यानुजो मुनिः ॥२१॥भीष्म उवाचकथं च मित्रावरुणौ पितरावस्य तौ स्मृतौजन्म कुंभादगस्त्यस्य यथाभूत्तद्वदाधुना ॥२२॥पुलस्त्य उवाचपुरा पुराणपुरुषः कदाचिद्गंधमादनेभूत्वा धर्मसुतो विष्णुश्चचार विपुलं तपः ॥२३॥तपसा चास्य भीतेन विघ्नार्थे प्रेषितावुभौशक्रेण माधवानंगावप्सरोगणसंयुतौ ॥२४॥यदा च गीतवाद्येन भावहावादिना हरिःन काममाधवाभ्यां च मोहं नेतुमशक्यत ॥२५॥तदा काममधुस्त्रीणां विषादमभजद्गणःसंक्षोभायत तस्तेषामूरुदेशान्नराग्रजः ॥२६॥नारीमुत्पादयामास त्रैलोक्यस्यापि मोहिनीम्संमोहितास्तया देवास्तौ तु चैव सुरावुभौ ॥२७॥अप्सराणां समक्षं हि देवानामब्रवीद्धरिःउर्वशीति च नाम्नेयं लोके ख्यातिं गमिष्यति ॥२८॥ततः कामयमानेन मित्रेणाहूयतोर्वशीप्रोक्ता मां रमयस्वेति बाढमित्यब्रवीच्च सा ॥२९॥गच्छंती तु ततः सूर्यलोकमिंदीवरेक्षणावरुणेन वृता पश्चाद्वचनं तमभाषत ॥३०॥मित्रेणाहं वृता पूर्वं मम सूर्यः पतिः प्रभोउवाच वरुणश्चित्तं मयि संन्यस्य गम्यताम् ॥३१॥गतायां बाढमित्युक्त्वा मित्रः शापमदादथअद्यैव मानुषे लोके गच्छ सोमसुतात्मजम् ॥३२॥भजस्वेति यतो मिथ्या धर्म एष त्वया कृतःजलकुंभे ततो वीर्यं मित्रेण वरुणेन च ॥३३॥प्रक्षिप्तमथ संजातौ द्वावेव मुनिसत्तमौनिमिर्नाम नृपः स्त्रीभिः पुरा द्यूतमदीव्यत ॥३४॥तदंतरेभ्याजगाम वसिष्ठो ब्रह्मसंभवःतस्य पूजामकुर्वाणं शशाप स मुनिर्नृपम् ॥३५॥विदेहस्त्वं भवस्वेति शप्तस्तेनाप्यसौ मुनिःअन्योन्यशापादुभयोर्विशरीरे तु तेजसी ॥३६॥जग्मतुश्शापनाशाय ब्रह्माणं जगतः पतिम्अथ ब्रह्मसमादेशाल्लोचनेष्ववसन्निमिः ॥३७॥निमेषाः स्युश्चलोकानां तद्विश्रामाय पार्थिववसिष्ठोप्यभवत्तस्मिञ्जलकुंभे च पूर्ववत् ॥३८॥ततो जातश्चतुर्बाहुः साक्षसूत्रकमंडलुःअगस्त्य इति शांतात्मा बभूव ऋषिसत्तमः ॥३९॥मलयस्यैकदेशे तु वैखानस विधानतःसभार्यः संवृतो विप्रैस्तपश्चक्रे सुदुष्करम् ॥४०॥ततः कालेन महता तारकादिनिपीडितम्जगद्वीक्ष्यसकोपेन पीतवान्वरुणालयम् ॥४१॥ततोस्य वरदास्सर्वे बभूवुः शंकरादयःब्रह्माविष्णुश्च भगवान्वरदानाय जग्मतुः ॥४२॥वरं वृणीश्व भद्रं ते यश्चाभीष्टोत्र वै मुनेअगस्त्य उवाचयावद्ब्रह्मसहस्राणां पंचविंशतिकोटयः ॥४३॥वैमानिको भविष्यामि दक्षिणांबरवर्त्मनिमद्विमानोदयात्कुर्याद्यः कश्चित्पूजनं मम ॥४४॥स सप्तलोकाधिपतिः पर्यायेण भविष्यतियस्त्वाश्रमं पुष्करे तु मन्नाम्ना परिकीर्तयेत् ॥४५॥स चैव पुण्यतां यातु वर एष वृतो मयाश्राद्धं येऽत्र करिष्यंति पिंडपूर्वं तु भक्तितः ॥४६॥तेषां पितृगणास्सर्वे मया सह दिवि स्थिताःएतत्कालं वसिष्यंति एष एव वरो मम ॥४७एवमस्त्विति तेप्युक्त्वा जग्मुर्देवा यथागतम्तस्मादर्घः प्रदातव्यो ह्यगस्त्याय सदा बुधैः ॥४८भीष्म उवाचकथमर्घप्रदानं च कर्तव्यं तस्य वै मुनेःविधानं यदगस्त्यस्य पूजने तद्वदस्व मे ॥४९॥पुलस्त्य उवाचप्रत्यूष समये विद्वान्कुर्यादस्योदये निशिस्नानं शुक्लतिलैस्तद्वच्छुक्लमाल्यांबरो गृही ॥५०॥स्थापयेदव्रणं कुंभं माल्यवस्त्रविभूषितम्पंचरत्नसमायुक्तं घृतपात्रेणसंयुतम् ॥५१॥अंगुष्ठमात्रं पुरुषं तथैव सुवर्णमध्यायतबाहुदंडम्चतुर्भुजं कुंभमुखे निधाय धान्यानि सप्ताचलसंयुतानि ॥५२॥सकांस्यपात्राक्षतशुक्लयुक्तं मंत्रेण दद्याद्द्विजपुंगवायउत्क्षिप्य कुंभोपरिदीर्घबाहुमनन्यचेता यमदिङ्मुखस्थम् ॥५३॥श्वेतां च दद्याद्यदिशक्तिरस्ति रौप्यैः खुरैर्हेममुखीं सवत्सांधेनुं नरः क्षीरवतीं प्रणम्य स्रग्वस्त्रघंटाभराणां द्विजाय ॥५४॥आसप्तरात्रादुदये नृपास्य दातव्यमेतत्सकलं नरेणयावत्समास्सप्तदशाथ वा स्युरथोर्द्ध्वमप्यत्र वदंति केचित् ॥५५॥काशपुष्पप्रतीकाश अग्निमारुतसंभवमित्रावरुणयोः पुत्र कुंभयोने नमोस्तु ते ॥५६॥प्रत्यब्दं च फलत्यागमेवं कुर्वन्नसीदतिहोमं कृत्वा ततः पश्चाद्वर्तयेन्मानवः फलम् ॥५७॥अनेनविधिना यस्तु पुमानर्घं निवेदयेत् अर्घ्यइमं लोकमवाप्नोति रूपारोग्यफलप्रदम् ॥५८॥द्वितीयेन भुवर्लोकं स्वर्लोकं च ततः परम्सप्तैव लोकानाप्नोति सप्तार्घान्यः प्रयच्छति ॥५९॥इति पठति शृणोति यो हि सम्यक्चरितमगस्त्यसमर्चनं च पश्येत्मतिमपि च ददाति सोपि विष्णोर्भवनगतः परिपूज्यतेमरौघैः ॥६०॥भीष्म उवाचसौभाग्यारोग्यफलदममित्रक्षयकारकम्भुक्तिमुक्तिप्रदं यच्च तन्मे ब्रूहि महामते ॥६१॥पुलस्त्य उवाचयदुमाया पुरा देव उवाचांधकसूदनःकथासु संप्रवृत्तासु धर्म्यासु ललितासु च ॥६२॥तदिदानीं प्रवक्ष्यामि भुक्तिमुक्तिफलप्रदम्गौर्युवाचदत्तः शापो हि सावित्र्या मह्यं लक्ष्म्यै सुरेश्वर ॥६३॥यथा लक्ष्मीप्रधानत्वमहं यामि तथा वदशंकर उवाचशुणुष्वावहिता देवि तथैवान्यत्स्वयंकृतम् ॥६४॥नराणामथ नारीणामाराधनमनुत्तमम्नभस्ये वाथ वैशाखे पुण्ये मार्गशिरस्यथ ॥६५॥शुक्लपक्षे तृतीयायां स्नातः स गौरसर्षपैःगोरोचनं सगोमूत्रं गोदुग्धं च घृतं तथा ॥६६॥दधिचंदनसंमिश्रं ललाटे तिलकं न्यसेत्सौभाग्यारोग्यकृद्यस्मात्सदा च ललिताप्रियम् ॥६७॥प्रतिपक्षं तृतीयायां पुमान्वापि सुवासिनीधारयेद्रक्तवस्त्राणि कुसुमानि सितानि च ॥६८॥विधवा शुक्लवस्त्रं वै त्वेकमेव हि धारयेत्कुमारी शुक्ल सूक्ष्मे च परिदध्यात्तु वाससी ॥६९॥देवीं च पंचगव्येन ततः क्षीरेण केवलंस्नापयेन्मधुना तद्वत्पुष्पगंधोदकेन तु ॥७०॥पूजयेच्छुक्लपुष्पैस्तु फलैर्नानाविधैरपिधान्यलाजादिलवणगुडक्षीरघृतान्वितैः ॥७१॥शुक्लाक्षततिलैरर्चा कार्या देवि सदा त्वयापादयोरर्चनं कुर्यात्प्रतिपक्षं वरानने ॥७२॥वरदायै नमः पादौ तथा गुल्फौ श्रियै नमःअशोकायै नमो जंघे पार्वत्यै जानुनी तथा ॥७३॥ऊरू मांगल्यकारिण्यै वामदेव्यै तथा कटिम्पद्मोदरायै जठरं नमः कंठे श्रियै नमः ॥७४॥करौ सौभाग्यदायिन्यै बाहू च सुमुखश्रियैमुखं दर्पविनाशिन्यै स्मरदायै स्मितं पुनः ॥७५॥गौर्यै नमस्तथानासामुत्पलायै च लोचनेतुष्ट्यै ललाटमलकं कात्यायन्यै नमः शिरः ॥७६॥नमो गोर्य्यै नमः पुष्ट्यै नमः कांत्यै नमः श्रियैरंभायै ललितायै च वामदेव्यै नमो नमः ॥७७॥एवं संपूज्य विधिवदग्रतः पद्ममालिखेत्पत्रैः षोडशभिर्युक्तं क्रमेणैव सकर्णिकम् ॥७८॥पूर्वेण विन्यसेद्गौरीमपर्णां च ततः परम्भवानीं दक्षिणे तद्वद्रुद्राणीं च ततः परम् ॥७९॥विन्यसेत्पश्चिमे भागे सौम्यां मदनवासिनीम्वायव्ये पाटलामुग्रामुत्तरेण तथा उमाम् ॥८०॥साध्यां पथ्यां तथा सौम्यां मंगलां कुमदां सतीम्भद्रां च मध्ये संस्थाप्य ललितां कर्णिकोपरि ॥८१॥कुसुमैरक्षताद्भिर्वा नमस्कारेण विन्यसेत्गीतमंगलघोषं च कारयित्वा सुवासिनीम् ॥८२॥पूजयेद्रक्तवासोभी रक्तमाल्यानुलेपनैःसिंदूरं स्नानचूर्णं च तासां शिरसि पातयेत् ॥८३॥सिंदूरं कुंकुमं स्नानमतीवेष्टं यतस्ततःतथोपदेष्टारमपि पूजयेद्यत्नतो गुरुम् ॥८४॥न पूज्यते गुरुर्यत्र सर्वास्तत्राफलाः क्रियाःजप्यैश्च पूजयेद्गौरीमुत्पलैरसितैः सदा ॥८५॥बंधुजीवैः प्रिये पूज्या कार्तिके मासि यत्नतःजातीपुष्पैर्मार्गशिरे पौषे पीतैः कुरंटकैः ॥८६॥कुंदैः कुमुदपुष्पैश्च देवीं माघेपि पूजयेत्सिंदुवारेण जात्या वा फाल्गुनेप्यर्चयेन्नरः ॥८७॥चैत्रे तु मल्लिकाशोकैर्वैशाखे गंधपाटलैःज्येष्ठे कमलमंदारैराषाढे च जलांबुजैः ॥८८॥मंदारैरथ मालत्या श्रावणे पूजयेत्सदागोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् ॥८९॥बिल्वपत्रार्ककुसुमांबुज गोशृंगवारि चपंचगव्यं च बिल्वं च प्राशयेत्क्रमशः सदा ॥९०॥एतद्भाद्रपदादौ तु प्राशनं समुदाहृतम्प्रतिपक्षं च मिथुनं तृतीयायां वरानने ॥९१॥भोजयित्वार्चयेद्भक्त्या वस्त्रमाल्यानुलेपनैःपुंसः पीतांबरे दद्यात्स्त्रियाः कौशेयवाससी ॥९२॥निष्पाव जीरलवणमिक्षुदंड गुडान्वितम्स्त्रियै दद्यात्फलं पुंसः सुवर्णोत्पलसंयुतम् ॥९३॥यथा न देवि देवस्त्वां संपरित्यज्य गच्छतितथा मामुद्धराशेष दुःखसंसारसागरात् ॥९४॥कुमुदा विमला नंदा भवानी वसुधा शिवाललिता कमला गौरी सती रम्भाथ पार्वती ॥९५॥नभस्यादिषु मासेषु प्रीयतामित्युदीरयेत्व्रतांते शयनं दद्यात्सुवर्णकमलान्वितम् ॥९६॥मिथुनानि चतुर्विशद्द्वादशाथ समर्चयेत्अष्टावष्टाथवा भूयश्चतुर्मासेथ वार्चयेत् ॥९७॥पूर्वं दत्वाथ गुरवे पश्चादन्यान्समर्चयेत्उक्तानन्ततृतीयैषा सदानंतफलप्रदा ॥९८॥सर्वपापहरा देवी सौभाग्यारोग्यवर्धिनीन चैनं वित्तशाठ्येन कदाचिदपि लंघयेत् ॥९९॥नरो वा यदि वा नारी सोपवासव्रतं चरेत्गर्भिणी सूतिका नक्तं कुमारी वाथ रोगिणी ॥१००॥यदाऽशुद्धा तदान्येन कारयेत्प्रयता स्वयम्इमामनंतफलदां यस्तृतीयां समाचरेत् ॥१०१॥कल्पकोटिशतं साग्रं शिवलोके महीयतेवित्तहीनोपि कुर्वीत यावद्वर्षमुपोषणम् ॥१०२॥पुष्पमंत्रविधाने सोपि तत्फलमाप्नुयात्नारी वा कुरुते या तु आत्मनः शुभमिच्छती ॥१०३॥जन्मपौरुषमाप्नोति गौर्यनुग्रहकारितम्इति पठति शृणोति वा य इत्थं गिरितनयाव्रतमिंद्रलोकसंस्थः ॥१०४॥मतिमपि च ददाति योपि देवैरमरवधूजनकिन्नरैः स पूज्यःअन्यामपि प्रवक्ष्यामि तृतीयां पापनाशिनीम् ॥१०५॥रसकल्याणिनीमेतां पुराकल्पभवा विदुःमाघेमासि तु संप्राप्य तृतीयां शुक्लपक्षतः ॥१०६॥प्रातर्गंधेन पयसा तिलैः स्नानं समाचरेत्स्नापयेन्मधुना देवीं तथैवेक्षुरसेन तु ॥१०७॥गंधोदकेन च पुनः पूजनं कुंकुमेन तुदक्षिणांगानि संपूज्य ततो वामानि पूजयेत् ॥१०८॥ललितायै पदं देव्यै वामगुल्फौ ततोर्चयेत्जंघे जानु तथा शांत्यै तथैवोरुं श्रियै नमः ॥१०९॥मदालसायै च कटिममलायै तथोदरम्स्तनौ मदनवासिन्यै कुमुदायै च कंधराम् ॥११०॥भुजं भुजाग्रं माधव्यै कमलायै सुखस्मितेभ्रूललाटं च रुद्राण्यै शंकरायै तथालकं ॥१११॥मदनायै ललाटं तु मोहनायै पुनर्भ्रुवौनेत्रे चंद्रार्धधारिण्यै तुष्ट्यै च वदनं पुनः ॥११२॥उत्कंठिन्यै नमः कंठममृतायै नमस्तनुम्रंभायै च महाबाहू विशोकायै नमः करौ ॥११३॥हृदयं मन्मथाह्वायै पाटलायै तथोदरंकटिं सुरतवासिन्यै तथोरू पंकजश्रियै ॥११४॥जानुजंघे नमो गौर्यै गुल्फौ शांत्यै तथार्चयेत्धराधरायै पादौ तु विश्वकायै नमः शिरः ॥११५॥नमो भवान्यै कामिन्यै वासुदेव्यै जगच्छ्रियैआनंददायै नंदायै सुभद्रायै नमोनमः ॥११६॥एवं संपूज्य विधिवद्द्विजदांपत्यमर्चयेत्भोजयित्त्वा तथान्नेन मधुरेण विमत्सरः ॥११७॥समोदकं वारिकुंभं शुक्लांबरयुगद्वयंदत्त्वा सुवर्णकमलं गंधमाल्यैरथार्चयेत् ॥११८॥प्रीयतामत्र कुमुदा गृह्णीयाल्लवणव्रतम्अनेन विधिना देवीं मासिमासि सदार्चयेत् ॥११९॥लवणं वर्जयेन्माघे फाल्गुने च गुडं पुनःनवनीतं तथा चैत्रे वर्ज्यं मधु च माधवे ॥१२०॥पानीयं ज्येष्ठमासे तु तथाषाढे च जीरकंश्रावणे वर्जयेत्क्षीरं दधि भाद्रपदे तथा ॥१२१॥घृतमाश्वयुजे तद्वदूर्जे वर्ज्यं च माक्षिकंधान्याकं मार्गशीर्षे तु पौषे वर्ज्या च शर्करा ॥१२२॥व्रतांते करकं पूर्णमेतेषां मासिमासि चदद्याद्विकालवेलायां भक्ष्यपात्रेण संयुतं ॥१२३॥लड्डुकास्सेवकाश्चैव संयावमथ पूरिकानारिका घृतपूर्णाश्च पिष्टपूर्णा च नंदिकी ॥१२४॥क्षीरशाकं च दध्यन्नं पिंडशाकं तथैव चमाघादौ क्रमशो दद्यादेतानि करकोपरि ॥१२५॥कुमुदा माधवी रंभा सुभद्रा च शिवा जयाललिता कमलानंगा मंगला रति लालसा ॥१२६॥क्रमान्माघादिमासेषु प्रीयतामिति कीर्तयेत्सर्वत्र पंचगव्यं च प्राशनं समुदाहृतं ॥१२७॥उपवासी भवेन्नित्यमशक्तौ नक्तमिष्यतेकुर्यादेवमिदं नारी रसकल्याणिनी व्रतं ॥१२८॥पुनर्माघे च संप्राप्ते शर्करा कलशोपरिकृत्वा तु कांचनीं गौरीं पंचरत्नसमन्वितां ॥१२९॥स्वकीयांगुष्ठमात्रं च साक्षसूत्रकमंडलुंचतुर्भुजामिंदुयुतां सितनेत्रपटावृतां ॥१३०॥तद्वद्गोमिथुनं चैव सुवर्णस्य सितांबरंसवस्त्रं भाजनं दद्याद्भवानी प्रीयतामिति ॥१३१॥अनेनविधिना यस्तु रसकल्याणिनीव्रतंकुर्याच्च सर्वपापेभ्यस्तत्क्षणादेव मुच्यते ॥१३२॥भवानां च सहस्रं तु न दुःखी जायते क्वचित्अग्निष्टोमसहस्रेण यत्फलं तदवाप्नुयात् ॥१३३॥नारी वा कुरुते या तु कुमारी वा वराननेविधवा च वराकी वा सापि तत्फलभागिनी ॥१३४॥सौभाग्यारोग्यसंपन्ना गौरीलोके महीयतेइति पठति य इत्थं यः शृणोति प्रसंगात्सकलकलुषमुक्तः पार्वतीलोकमेति ॥१३५॥मतिमपि च विधत्ते यो नराणां प्रियार्थंविबुधपतिजनानां लोकगः स्यादमोघःतथैवान्यां प्रवक्ष्यामि तृतीयां पापनाशिनीम् ॥१३६॥नाम्ना च लोकविख्यातामग्र्यानंदकरीमिमांयदा शुक्लतृतीयायामषाढर्क्षं भवेत्क्वचित् ॥१३७॥ब्रह्मर्क्षं वाथ च मघा हस्तो मूलमथापि वादर्भगंधोदकैः स्नानं तदा सम्यक्समाचरेत् ॥१३८॥शुक्लमाल्यांबरधरः शुक्लगंधानुलेपनःभवानीमर्चयेद्भक्त्या शुक्लपुष्पैः सुगंधिभिः ॥१३९॥महादेवं च सकलमुपविष्टं महासनेवासुदेव्यै नमः पादौ शंकरायै नमो हरेः ॥१४०॥जंघेशोकविनाशिन्यै मानदायै नमः प्रभोःरंभायै पूजयेदूरू शिवाय च पिनाकिने ॥१४१॥आनंदिन्यै कटिं देव्याः शूलिनश्शूलपाणयेमाधव्यै च तथा नाभिमथ शंभोर्भवाय वै ॥१४२॥स्तनौ चानंदकारिण्यै शंकरस्येंदुधारिणेउत्कंठिन्यै नमः कंठं नीलकंठाय वै हरेः ॥१४३॥करावुत्पलधारिण्यै रुद्राय जगतः प्रभोबाहू च परिरंभिण्यै नृत्यप्रीताय वै हरेः ॥१४४॥देव्या मुखं विलासिन्यै वृषभाय पुनर्विभोःस्मितं च स्मरणीयायै विश्ववक्त्राय वै विभोः ॥१४५॥नेत्रे मंदारवासिन्यै विश्वधाम्ने त्रिशूलिनःभ्रुवौ नृत्यप्रियायै च शंभोर्वै पाशशूलिने ॥१४६॥देव्या ललाटमिंद्राण्यै वृषवाहाय वै विभोःस्वाहायै मकुटं देव्या विभो गंगाधराय वै ॥१४७॥विश्वकायौ विश्वभुजौ विश्वपादमुखौ शिवौप्रसन्नवरदौ वंदे पार्वतीपरमेश्वरौ ॥१४८॥एवं संपूज्य विधिवदग्रतः शिवयोः पुनःपद्मोत्पलानि रजसा नानावर्णेन कारयेत् ॥१४९॥शंखचक्रे सकटके स्वस्तिकं शुभकारकम्यावंतः पांसवस्तत्र रजसः पतिता भुवि ॥१५०॥तावद्वर्षसहस्राणि शिवलोके महीयतेचत्वारि घृतपात्राणि सहिरण्यानि शक्तितः ॥१५१॥दत्वा द्विजाय करकमुदकेन समन्वितम्प्रतिपक्षं चतुर्मासं यावदेतान्निवेदयेत् ॥१५२॥ततस्तु चतुरो मासान्पूर्ववत्करकोपरिचत्वारि घृतपात्राणि तिलपात्राण्यंनंतरं ॥१५३॥गंधोदकं पुष्पवारि चंदनं कुङ्कुमोदकंअपक्वं दधिदुग्धं च गोशृंगोदकमेव च ॥१५४॥अब्दोदकं तथा वारिकुष्ठचूर्णान्वितं पुनःउशीरसलिलं चैव यवचूर्णोदकं पुनः ॥१५५॥तिलोदकं च संप्राश्यस्वपेन्मार्गशिरादिषुमासेषु पक्षद्वितयं प्राशनं समुदाहृतम् ॥१५६॥सर्वत्रशुक्लपुष्पाणिप्रशस्तानिसदार्चनेदानकाले च सर्वत्र मंत्रमेतमुदीरयेत् ॥१५७॥गौरी मे प्रीयतां नित्यमघनाशाय मंगलासौभाग्यायास्तु ललिता भवानी सर्वसिद्धये ॥१५८॥संवत्सरांते लवणं गुडकुंकुमसंयुतम्चंदनेनयुतं कुंभं सहस्वर्णांबुजेन च ॥१५९॥उमायाः प्रीतये हैमं तद्विदिक्षुफलैर्युतम्सास्तरावरणां शय्यां सविश्रामां निवेदयेत् ॥१६०॥सपत्नीकाय विप्राय गौरी मे प्रीयतामितिआत्मानंदकरीं नाम प्राप्नुयात्संपदं नरः ॥१६१॥आयुरानंदसंपन्नो न क्वचिच्छोकमाप्नुयात्नारी वा कुरुते या तु कुमारी विधवा तथा ॥१६२॥सापि तत्फलमाप्नोति देव्यनुग्रहलालिताप्रतिपक्षमुपोष्यैवं मंत्रार्चनविधानतः ॥१६३॥रुद्राणां लोकमाप्नोति पुनरावृत्तिदुर्लभम्इमां यः शृणुयान्नित्यं श्रावयेद्वापि भक्तितः ॥१६४॥शक्रलोकं स गत्वा तु पूज्यते कल्पसंस्थितःशंकर उवाचएवंविधा भवति चेन्नारी व्रतपरायणा ॥१६५॥सावित्री तु वराकी सा तस्याः शापस्तु कीदृशःन काचिद्गणना चास्ति यतस्त्रैलोक्यसुंदरी ॥१६६॥सा पूर्वस्यापि वन्द्या च लक्ष्मीर्विष्णुप्रतिग्रहात्मया पूर्वं तवार्थाय दक्षयज्ञस्तु नाशितः ॥१६७॥लक्ष्म्यर्थं विष्णुना चापि वारिधिर्मथितः पुराआज्ञाकरौ भवत्योश्च मा कुरुष्व भयं क्वचित् ॥१६८॥सावित्र्या मानना कार्या कुपितायाः प्रसादनम्मया च विष्णुना चैव ब्रह्मणा मानमीप्सुना ॥१६९॥गमिष्ये ब्रह्मसदनं त्वं च तिष्ठ वराननेएवमुक्त्वा गतो रुद्रो गौरी तत्र व्यवस्थिता ॥१७०॥कृतं युगं समग्रं च यज्ञे तस्मिन्हुताशनःवहंस्तु हव्यं देवानां प्रीणयानो जगत्त्रयम् ॥१७१॥भोजनं द्विजमुख्येषु भोगान्विद्याधरे गणेकामावाप्तिं मनुष्येषु सर्वमेव ददौ प्रभुः ॥१७२॥रुद्रेणोक्तस्तदा विष्णुर्धर्मांस्ते त्वं प्रकीर्त्तयगौरीधर्मान्सरस्वत्या व्रतं यत्परिकीर्तितम् ॥१७३॥इत्येवमुक्ते रुद्रेण विष्णुः प्रोवाच सादरम्नाहं धर्मं ख्यापयिष्ये स्वकीयं शंकराधुना ॥१७४॥भवानाख्यातु माहात्म्यं मदीयं सुरसत्तमत्वया वै कथितं पूर्वं कृते वै पापसंक्षयः ॥१७५॥भविष्यति न संदेहो भवान्पूतो भविष्यतिभीष्म उवाचमधुरा गीर्भवेत्केन व्रतेन मुनिसत्तम ॥१७६॥तथैव जनसौभाग्यं मतिर्विद्यासु कौशलम्अभेदश्चापि दांपत्ये संगो बंधुजनेन च ॥१७७॥आयुश्च विपुलं पुंसां तन्मे कथय सत्तमपुलस्त्य उवाचसम्यक्पृष्टं त्वया राजन्शृणु सारस्वतं व्रतम् ॥१७८॥यस्य संकीर्तनादेव देवी तुष्येत्सरस्वतीयावद्भक्तः स्तवं कुर्यादेतद्व्रतमनुत्तमम् ॥१७९॥प्राग्वासरादौ संपूज्य दिव्यं स्तवं समारभेत्अथवा रविवारेण ग्रहताराबलेन च ॥१८०॥पायसं भोजयेद्विप्रान्कुर्याद्ब्राह्मणवाचनम्शुक्लवस्त्राणि दत्त्वा च सहिरण्यानि शक्तितः ॥१८१॥गायत्रीं पूजयेद्भक्त्या शुक्लमाल्यानुलेपनैःयथा न देवि भगवान्ब्रह्मा लोकपितामहः ॥१८२॥त्वां परित्यज्य तिष्ठेच्च तथा भव वरप्रदावेदशास्त्राणि धर्माणि नृत्यगीतादिकं च यत् ॥१८३॥न विहीनं त्वया देवि तथा मे संतु सिद्धयःलक्ष्मीर्मेधा धरा पुष्टिर्गौरी तुष्टिर्जया मतिः ॥१८४॥एताभिः पाहि चाष्टाभिमूर्तिभिर्मां सरस्वतिएवं संपूज्य गायत्रीं वीणाकमलधारिणीम् ॥१८५॥शुक्लपुष्पाक्षतैर्भक्त्या सकमंडलु पुस्तकाम्मौनव्रतेन भुंजीत सायंप्रातश्च धर्मवित् ॥१८६॥पंचम्यां प्रतिपक्षं च गां च विप्राय शोभनाम्तथैव तंडुलप्रस्थं घृतपात्रेण संयुतम् ॥१८७॥क्षीरं दद्याद्धिरण्यं च गायत्री प्रीयतामितिसंध्यायां च तथा मौनमेतत्कुर्वन्समाचरेत् ॥१८८॥न रात्र्यां भोजनं कुर्याद्यावन्मासास्त्रयोदशसमाप्ते तु व्रते दद्याद्भोजनं शुक्लतंडुलैः ॥१८९॥दिव्यां वितानं घंटां च सितनेत्रपटान्विताम्चंदनं वस्त्रयुग्मं च दध्यन्नं सुरसं पुनः ॥१९०॥अथोपदेष्टारमपि भक्त्या संपूजयेद्गुरुम्वित्तशाठ्येनरहितो वस्त्रमाल्यानुलेपनैः ॥१९१॥अनेन विधिना यस्तु कुर्यात्सारस्वतं व्रतम्सौभाग्यमतियुक्तस्तु सूक्ष्मकंठश्च जायते ॥१९२॥सरस्वत्याः प्रसादेन ब्रह्मलोके महीयतेनारी वा कुरुते या तु सापि तत्फलभागिनी ॥१९३॥ब्रह्मलोके वसेद्राजन्यावत्कल्पायुत त्रयम्सारस्वतं व्रतं यस्तु शृणुयादपि वा पठेत् ॥१९४॥विद्याधरपुरे सोऽपि वसेदब्दायुतत्रयम्इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे व्रताध्यायो नाम द्वाविंशोऽध्यायः ॥२२॥ N/A References : N/A Last Updated : October 25, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP