संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः| अध्यायः ५६ सृष्टिखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ विषयानुक्रमणिका सृष्टिखण्डः - अध्यायः ५६ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ५६ Translation - भाषांतर श्रीभगवानुवाच - पुरा शर्वः स्त्रियो दृष्ट्वा युवती रूपशालिनीःगंधर्वकिन्नराणां च मनुष्याणां च सर्वतः ॥१॥मंत्रेण ताः समाकृष्य त्वतिदूरे विहायसितपोव्याजपरो देवस्तासु संगतमानसः ॥२॥अतिरम्यां कुटीं कृत्वा ताभिः सह महेश्वरःक्रीडां चकार सहसा मनोभव पराभवः ॥३॥एतस्मिन्नंतरे गौर्याश्चित्तमुद्भ्रांततां गतम्अपश्यद्ध्यानयोगेन क्रीडंतं जगदीश्वरम् ॥४॥स्त्रीभिरंतर्गतं ज्ञात्वा रोषस्य वशगाभवत्ततः क्षेमंकरी रूपा भूत्वा च प्रविवेश सा ॥५॥व्योमैकांतेतिदूरे च कामदेव समप्रभम्वामातिमध्यगं शुभ्रं पुरुषं पुरुषोत्तमम् ॥६॥स्त्रीभिः सह समालिग्य प्रक्रीडंतं मुहुर्मुहुःचुंबंतं निर्भरं देवं हरं रागप्रपीडितम् ॥७॥वृत्तं क्षेमंकरी दृष्ट्वा निपपाताग्रतस्तदातासां केशेषु चाकृष्य चकार चरणाहतिम् ॥८॥त्रपया पीडितश्शर्वः पराङ्मुखमवस्थितःकेशेष्वाकृष्य रोषात्ताः पातयामास भूतले ॥९॥स्त्रियः सर्वाधरां प्राप्य सहसा विकृताननाःउमाशापप्रदग्धांगा म्लेच्छानां वशमागताः ॥१०॥ताश्चांडालस्त्रियः ख्याता अधवा धवसंयुताःअद्याप्युमाकृतं शापं सर्वास्ताश्च समश्नुयुः ॥११॥अथोमा शतधा रूपं कृत्वेशं संगता तदाएवं प्रभावं जानीहि कामस्य सततं द्विज ॥१२॥ततश्चिरात्तया सार्द्धं गतः कैलासमंदिरंअतः क्षेमंकरीं दृष्ट्वा येभिनंदंति मानवाः ॥१३॥तेषां वित्तर्द्धि विभवा भवंतीह परत्र चकुंकुमारक्तसर्वांगि कुंदेन्दुधवलानने ॥१४॥सर्वमंगलदे देवि क्षेमंकरि नमोस्तु तेयोगिनीसाम्यं तेनैव संमुखा विमुखापि वा ॥१५॥दृष्ट्वा तां नाभिवंदेद्यस्तस्य युद्धे पराजयःराजगृहेषु विद्यायां नमस्काराज्जयो भवेत् ॥१६॥एवं कामस्य माहात्म्यं भवो मोहवशं गतःअयं देवासुराणां च क्षमया प्रभुतां गतः ॥१७॥अस्यैव सदृशो लोके न भूतो न भविष्यतिरामामङ्कस्थितां रम्यां क्षमातल्पगतेन च ॥१८॥त्यक्त्वैव साधिता लोकास्सुरासुरसुदुर्लभाःएवं वैष्णवमुख्यश्च सुरासुरगणार्चितः ॥१९॥यो नो ददाति भुक्त्यग्र्यं शेषं च स्वयमश्नुतेएवमभ्यासधैर्येण दीर्घकाले सुखंगते ॥२०॥प्राक्संगमात्स्वभार्यां च दृष्ट्वा मां प्रददौ मुदाद्वादशाब्दं प्रसंकल्प्य प्राग्भोगो मयि वेशितः ॥२१॥तेन तस्य गृहे नित्यं तिष्ठामि गृहरक्षणात्तथा धात्रीफलस्यापि सदा स्वर समीहते ॥२२॥तस्मादुक्तो मयान्येषां वैष्णवानां च वैष्णवःपुरा ये विप्र मे भक्तास्सुरा मत्पथगामिनः ॥२३॥तैरेव न कृतं यच्च तदनेन कृतं परम्तस्माद्वैष्णवसर्वस्वं नाम रम्यं मया कृतम् ॥२४॥अस्य वेश्मनि तिष्ठामि मुहूर्तं न चलाम्यहम्अतो ये चैवमद्भक्तास्तेष्वहं सुलभो द्विज ॥२५॥अस्माकं पदवीं तेभ्यो ह्यद्य दद्मि स्वकारणम्आवयोर्विप्रसौजन्यं स्वप्नभोज्यादिकं समम् ॥२६॥सायुज्यं च सखित्वं च पश्य भूदेवनांतरम्ततो मूकादयः सर्वे स्वागता हरिमीश्वरम् ॥२७॥गंतुकामा दिवं पुण्यास्सदाराः सपरिच्छदाःये च तेषां गृहाभ्याशेप्यात्मनो गृहगोधिकाः ॥२८॥नाना कीटादयो ये च तेषामनुययुः सुराःव्यास उवाच - एतस्मिन्नंतरे देवाः सिद्धाश्च परमर्षयः ॥२९॥प्रचक्रुः पुष्पवर्षाणि साधुसाध्वित्यनादयन्देवदुंदुभयो नेदुर्विमानेषु वनेषु च ॥३०॥समारुह्य रथं स्वं स्वं हरिवीथीपुरं ययुःतदद्भुतं समालोक्य विप्रोऽवोचज्जनार्दनम् ॥३१॥उपदेशं च देवेश ब्रूहि मे मधुसूदनश्रीभगवानुवाच - गच्छ स्वपितरौ तात शोकविक्लवमानसौ ॥३२॥समाराध्य प्रयत्नेन मद्गृहं प्राप्स्यसेऽचिरात्पितृमातृसमा देवा न तिष्ठंति सुरालये ॥३३॥याभ्यां सुगर्हितं देहं शिशुत्वे पालितं सदाअज्ञानदोषसहितं प्रपुष्टं चापि वर्धितम् ॥३४याभ्यां तयोस्समं नास्ति त्रैलोक्ये सचराचरेततो देवगणास्सर्वे पंचभिस्तैर्मुदान्विताः ॥३५॥माधवं संस्तुवंतश्च गतास्ते हरिमंदिरम्खचितां च पुरीं रम्यां विश्वकर्मविनिर्मिताम् ॥३६॥रत्नाढ्यामिष्टसंपूर्णां कल्पवृक्षादिभिर्युताम्शातकुम्भमयैर्गेहैस्सर्वरत्नैस्सकर्बुराम् ॥३७॥वज्रवैडूर्यसोपानां स्वर्णदीतोयसंयुताम्गीतवाद्यादिसंपूर्णां सर्वदुर्गसमाकुलाम् ॥३८॥कोकिलालापबहुलां सिद्धगंधर्वसेविताम्रूपाढ्यैः सुजनैः पूर्णां प्रयांतीमिव खे पुरीम् ॥३९॥ततः स्थित्वाऽच्युताः सर्वे सर्वलोकोर्ध्वतो भृशम्द्विजोपि पितरौ गत्वा समाराध्य प्रयत्नतः ॥४०॥अचिरेणैव कालेन सकुटुंबो हरिं ययौपंचाख्यानमिदं पुण्यं मया ते समुदाहृतम् ॥४१॥यः पठेच्छृणुयाद्वापि तस्य नास्तीह दुर्गतिःब्रह्महत्यादिभिः पापैर्न लिप्येत कदाचन ॥४२॥गवां कोटिप्रदानेन यत्फलं लभते नरःतत्फलं समवाप्नोति पंचाख्यानावगाहनात् ॥४३॥स्नानेन पुष्करे नित्यं भागीरथ्यां च सर्वदायत्फलं तदवाप्नोति सकृच्छ्रवणगोचरात् ॥४४॥दुःस्वप्नं नाशयेत्क्षिप्रं तथारोग्यं प्रयच्छतिलक्ष्म्यारोग्यकरं चैव तस्माच्छ्रोतव्यमेव हि ॥४५॥इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे पंचाख्यानंनाम षट्पंचाशत्तमोऽध्यायः ॥५६॥ N/A References : N/A Last Updated : October 25, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP