संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः| अध्यायः ८ सृष्टिखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ विषयानुक्रमणिका सृष्टिखण्डः - अध्यायः ८ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्यी पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ८ Translation - भाषांतर भीष्म उवाचबहुभिर्द्धरणी भुक्ता भूपालैः श्रूयते पुरापार्थिवाः पृथिवीयोगात्पृथिवी कस्य योगतः ॥१॥किमर्थं च कृता संज्ञा भूमेस्सा पारिभाषिकीगौरितीयं च संज्ञा वा भुवः कस्माद्ब्रवीहि मे ॥२॥पुलस्त्य उवाचपुरा कृतयुगस्यासीदंगो नाम प्रजापतिःमृत्योस्तु दुहिता तेन परिणीतातिदुर्मुखी ॥३॥सुनीथा नाम तस्यास्तु वेनो नाम सुतः पुराअधर्मनिरतः कामी बलवान्वसुधाधिपः ॥४॥लोकस्याधर्मकृच्चापि परभार्यापहारकःअथ तस्य प्रसिद्यर्थं जगदर्थं महर्षिभिः ॥५॥अनुनीतोपि न ददावशुद्धात्माऽभयं ततःशापेन मारयित्वैनमराजकभयार्दिताः ॥६॥ममंथुर्ब्राह्मणास्तस्य बलाद्देहमकल्मषाःतत्कायान्मथ्यमानात्तु जनिता म्लेच्छजातयः ॥७॥शरीरे मातुरंशेन कृष्णांजनसमप्रभाःपितुरंशस्य संगेन धार्मिको धर्मकारकः ॥८उत्पन्नो दक्षिणाद्धस्तात्सधनुः सशरो गदीदिव्यतेजोमयः पुत्रस्सरत्नकवचांगदः ॥९॥पृथुरेवाभवन्नाम्ना स च विष्णुरजायतस विप्रैरभिषिक्तः संस्तपः कृत्वा सुदुष्करं ॥१०॥विष्णोर्वरेण सर्वस्य प्रभुत्वमगमत्प्रभुःनिःस्वाध्यायवषट्कारं निर्द्धर्मं वीक्ष्य भूतलं ॥११॥वेद्धुमेवोद्यतः कोपाच्छरेणामितविक्रमःततो गोरूपमास्थाय भूः पलायितुमुद्यता ॥१२॥पृष्ठे त्वन्वगमत्तस्याः पृथुः सेषुशरासनःततः स्थित्वैकदेशे तु किं करोमीति चाब्रवीत् ॥१३॥पृथुरप्यवदद्वाक्यमीप्सितं देहि सुव्रतेसर्वस्य जगतः शीघ्रं स्थावरस्य चरस्य च ॥१४॥तथेति चाब्रवीद्भूमिर्दुदोह स नराधिपःस्वके पाणौ पृथुर्वत्सं कृत्वा स्वायंभुवं मनुं ॥१५॥तदन्नमभवद्दुग्धं प्रजा जीवंति येन तुततस्तु ऋषिभिर्दुग्धा वत्सः सोमस्तदाभवत् ॥१६॥दोग्धा वाचस्पतिरभूत्पात्रं वेदस्तपो रसःदेवैश्च वसुधा दुग्धा मरुद्दोग्धा तदाभवत् ॥१७॥इन्द्रो वत्सः समभवत्क्षीरमूर्ज्जस्वलं बलंदेवानां कांचनं पात्रं पितृणां राजतं तथा ॥१८॥अंतकश्चाभवद्दोग्धा यमो वत्सः स्वधा रसःबिलं च पात्रं नागानां तक्षको वत्सकोभवत् ॥१९॥विषं क्षीरं ततो दोग्धा धृतराष्ट्रोभवत्पुनःअसुरैरपि दुग्धेयं आयसे शत्रुपीडनम् ॥२०॥पात्रे मायामभूद्वत्सःप्राल्हादिस्तुविरोचनःदोग्धा त्रिमूर्द्धा तत्रासीन्माया येन प्रवर्तिता ॥२१॥यक्षैश्च वसुधा दुग्धा पुरांतर्द्धानमीप्सुभिःकृत्वा विश्वावसुं वत्सं मणिमंतं महीपते ॥२२॥प्रेतरक्षोगणैर्दुग्धा वसा रुधिरमुल्बणंरौप्यनाभोभवद्दोग्धा सुमाली वत्स एव च ॥२३॥गंधर्वैश्च पुनर्दुग्धा वसुधा साप्सरोगणैःवत्सं चित्ररथं कृत्वा गंधान्पद्मदले तथा ॥२४॥दोग्धावसुरुचिर्नामाथर्ववेदस्य पारगःगिरिभिर्वसुधा दुग्धा रत्नानि विविधानि च ॥२५॥औषधानि च दिव्यानि दोग्धा मेरुर्महीधरःवत्सोभूद्धिमवांस्तत्र पात्रं शैलमयं पुनः ॥२६॥वृक्षैश्च वसुधा दुग्धा क्षीरं छिन्नप्ररोहणंपालाशपात्रे दोग्धा तु सालः पुष्पवनाकुलः ॥२७॥प्लक्षोभवत्ततो वत्सः सर्ववृक्षवनाधिपःएवमन्यैश्च वसुधा तथा दुग्धा यथेच्छतः ॥२८॥आयुर्द्धनानि सौख्यं च पृथौ राज्यं प्रशासतिन दारिद्र्यं तथा रोगी नाधनोनचपापकृत् ॥२९॥नोपसर्गा न चाघातः पृथौ राज्यं प्रशासतिनित्यंप्रमुदितालोका दुःखशोकविवर्जिताः ॥३०॥धनुः कोट्या च शैलेंद्रानुत्सार्य स महाबलःभूमंडलं समं चक्रे लोकानां हितकाम्यया ॥३१॥न पुरग्रामदुर्गाणि न चायुधधरा नराःम्रियंते यत्र दुःखं च नार्थशास्त्रस्य चादरः ॥३२॥धर्मैकतानाः पुरुषाः पृथौ राज्यं प्रशासतिकथितानि च पात्राणि यत्क्षीरं च यथा तव ॥३३॥येषां येन रुचिस्तत्र तेभ्यो दत्तं विजानतायज्ञश्रीदेषु सर्वेषु मया तुभ्यं निवेदितं ॥३४॥दुहितृत्वं गता यस्मात्पृथोः पृथ्वी महामतेतस्यानुसारयोगाच्च पृथिवी विश्रुता बुधैः ॥३५॥भीष्म उवाचआदित्यवंशमखिलं वद ब्रह्मन्यथाक्रमंसोमवंशं च तत्त्वज्ञ यथावद्वक्तुमर्हसि ॥३६॥पुलस्त्य उवाचविवस्वान्कश्यपात्पूर्वमदित्यामभवत्पुरातस्य पत्नीत्रयं तद्वत्संज्ञा राज्ञी प्रभा तथा ॥३७॥रैवतस्य सुता राज्ञी रेवतं सुषुवे सुतंप्रभा प्रभातं सुषुवे त्वाष्ट्रं संज्ञा तथा मनुं ॥३८॥यमश्च यमुना चैव यमलौ च बभूवतुःततस्तेजोमयं रूपमसहंती विवस्वतः ॥३९॥नारीमुत्पादयामास स्वशरीरादनिंदितांत्वाष्ट्री स्वरूपरूपेण नाम्ना छायेति भामिनी ॥४०॥किंकरोमीति पुरतः संस्थितां तामभाषतछाये त्वं भज भर्तारं मदीयं तं वरानने ॥४१॥अपत्यानि मदीयानि मातृस्नेहेन पालयतथेत्युक्त्वा च सा देवमगात्कामाय सुव्रता ॥४२॥कामयामास देवोपि संज्ञेयमिति चादरात्जनयामास सावर्णिं मनुं मनुस्वरूपिणम् ॥४३॥सवर्णत्वाच्च सावर्णेर्मनोर्वैवस्वतस्य तुततः सुतां च तपतीं त्वाष्ट्रीं चैव क्रमेण तु ॥४४॥छायायां जनयामास संज्ञेयमिति भास्करःछाया स्वपुत्रे त्वधिकं स्नेहं चक्रे मनौ तदा ॥४५॥न चक्षमे मनुः पूर्वस्तद्यमः क्रोधमूर्छितःसंतर्जयामास तदा पादमुत्क्षिप्य दक्षिणं ॥४६॥शशाप च यमं छाया भवतु क्रिमिसंयुतःपादोयमेको भविता पूयशोणितविस्रवः ॥४७॥निवेदयामास पितुर्यमः शापेन धर्षितःनिःकारणमहं शप्तो मात्रा देव सकोपया ॥४८॥बालभावान्मया किंचिदुद्यतश्चरणः सकृत्मनुना वार्यमाणापि मम शापमदाद्विभो ॥४९प्रायो न माता सास्माकमसमा स्नेहतो यतःदेवोप्याह यमं भूयः किं करोमि महामते ॥५०॥सौख्यात्कस्य न दुःखं स्यादथवा कर्मसंततिःअनिवार्या भवस्यापि का कथान्येषु जंतुषु ॥५१॥कृकवाकुस्तव पदे स क्रिमिं भक्षयिष्यतिखंजं च रुचिरं चैव पादमेतद्भविष्यति ॥५२॥एवमुक्तः समाश्वस्तस्तपस्तीव्रं चकार हवैराग्यात्पुष्करे तीर्थे फलफेनानिलाशनः ॥५३॥पितामहं समाराध्य यावद्वर्षायुतं पुनःतपःप्रभावाद्देवेशः संतुष्टः पद्मसंभवः ॥५४॥वव्रे स लोकपालत्वं पितृलोकं तथाक्षयंधर्माधर्मात्मकस्यास्य जगतस्तु परीक्षणम् ॥५५॥एवं स लोकपालत्वमगमत्पद्मसंभवात्पितॄणामाधिपत्यं च धर्माधर्मस्य चानघ ॥५६॥विवस्वानथ तज्ज्ञात्वा संज्ञायाः कर्मचेष्टितंत्वष्टुः समीपमगमदाचचक्षे सरोषवान् ॥५७॥तमुवाच ततस्त्वष्टा सांत्वपूर्वमिदं वचःतवासहंती भगवंस्तेजस्तीव्रं तमोनुद ॥५८॥बडवारूपमास्थाय मत्सकाशमिहागतानिवारिता मया सा च त्वद्भयेन दिवस्पते ॥५९॥यस्मादविज्ञातमना मत्सकाशमिहागतातस्मान्मदीयं भवनं प्रवेष्टुं न तवार्हति ॥६०॥एवमुक्ता जगामाशु मरुदेशमनिंदिताबडवारूपमास्थाय भूतले संप्रतिष्ठिता ॥६१॥तस्मात्प्रसादं कुरु मे यद्यनुग्रहभागहम्अपनेष्यामि ते तेजः कृत्वा यंत्रे दिवाकरम् ॥६२रूपं तव करिष्यामि लोकानंदकरं प्रभोतथेत्युक्तः स रविणा भ्रमे कृत्वा दिवाकरं ॥६३॥पृथक्चकार तेजश्च चक्रं विष्णोः प्रकल्पयत्त्रिशूलं चापि रुद्रस्य वज्रमिंद्रस्य चापरं ॥६४॥दैत्यदानवसंहर्तृ सहस्रकिरणात्मकंरूपं चाप्रतिमं चक्रे त्वष्टा पद्भ्यामृते महत् ॥६५॥न शशाक च तद्द्रष्टुं पादरूपं रवेः पुनःअद्यापि च ततः पादौ न कश्चित्कारयेत्क्वचित् ॥६६॥यः करोति स पापिष्ठो गतिमाप्नोति निंदितांकुष्ठरोगमवाप्नोति लोकेस्मिन्दुःखसंज्ञितं ॥६७॥तस्मान्न धर्मकामार्थी चित्रेष्वायतनेषु चन क्वचित्कारयेत्पादौ देवदेवस्य धीमतः ॥६८॥ततः स भगवान्गत्वा भूर्लोकममराधिपःकामयामास कामार्तो मुख एव दिवाकरः ॥६९॥अश्वरूपेण महता तेजसा च समन्वितःसंज्ञा च मनसा क्षोभमगमद्भयविह्वला ॥७०॥नासापुटाभ्यामुत्सृष्टं परोयमिति शंकयातस्याथ रेतसो जातावश्विनाविति नः श्रुतम् ॥७१॥दस्रौ श्रुतित्वात्संजातौ नासत्यौ नासिकाग्रतःज्ञात्वा चिराच्च तं देवं संतोषमगमत्परं ॥७२॥विमानेनागमत्स्वर्गे पत्न्या सह मुदान्वितःसावर्ण्योपि मनुर्मेरावद्यापि तपते तपः ॥७३॥शनिस्तपोबलाच्चापि ग्रहाणां समतां गतःयमुना तपती चैव पुनर्नद्यौ बभूवतुः ॥७४॥विष्ठिर्घोरात्मिका तद्वत्कालत्वेन व्यवस्थितामनोर्वैवस्वतस्यापि दश पुत्रा महाबलाः ॥७५॥इलस्तु प्रथमस्तेषां पुत्रेष्ट्या समकल्पि यःइक्ष्वाकुः कुशनाभश्च अरिष्टो धृष्ट एव च ॥७६॥नरिष्यंतः करूषश्च शर्यातिश्च महाबलःपृषध्रश्चाथ नाभागः सर्वे ते दिव्यमानुषाः ॥७७॥अभिषिच्य मनुः पूर्वमिलं पुत्रं स धार्मिकम्जगाम तपसे भूयः पुष्करं स तपोवनं ॥७८॥अथाजगाम सिध्यर्थं तस्य ब्रह्मा वरप्रदःवरं वरय भद्रं ते मानवेय यथेप्सितं ॥७९॥उवाच स तदा देवं पद्माक्षं पद्मजं विभुंवंशे मे धर्मसंयुक्ताः पृथिव्यां सर्वपार्थिवाः ॥८०॥भवेयुरीश्वराः स्वामिन्प्रसादात्तव कंजजतथेत्युक्त्वा तु देवेशस्तत्रैवांतरधीयत ॥८१॥ततोयोध्यां समागत्य समतिष्ठद्यथा पुराअथैकदा रथारूढ इलो निज सुतो मनोः ॥८२॥निर्जगामार्थसिध्यर्थमिनप्रायां महीमिमांभ्रमन्द्वीपानि सर्वाणि क्ष्माभृतः संप्रसाधयन् ॥८३॥जगामोपवनं शंभोरथाकृष्टः प्रतापवान्कल्पद्रुमलताकीर्णं नाम्ना शरवणं महत् ॥८४॥रमते यत्र देवेशः सोमः सोमार्द्धशेखरःउमया समयस्तत्र पुरा शरवणे कृतः ॥८५॥पुंनामसंज्ञं यत्किंचिदागमिष्यति नो वनंस्त्रीत्वमेष्यति तत्सर्वं दशयोजनमंडले ॥८६॥अज्ञातसमयो राजा इलः शरवणं गतःस्त्रीत्वं जगाम सहसा बडवाश्वोऽभवत्क्षणात् ॥८७॥पुरुषत्वे कृतं सर्वं स्त्रीकाये विस्मृतं ततःइलेति साभवन्नारी पीनोन्नतघनस्तनी ॥८८॥उन्नतश्रोणिजघना पद्मपत्रायतेक्षणापूर्णेन्दुवदना तन्वी विलासिन्यसितेक्षणा ॥८९॥पीनोन्नतायतभुजा नीलकुंचितमूर्द्धजातनुलोमा सुवदना मृदुगद्गदभाषिणी ॥९०॥श्यामागौरेण वर्णेन तनुताम्रनखांकुराकार्मुकभ्रूयुगोपेता हंसावरणगामिनी ॥९१॥भ्रममाणा वने तस्मिन्चिंतयामास भामिनीको मे पिता वा भ्राता वा को मे त्राता भवेदिह ॥९२॥कस्य भर्त्तुरहं दत्ता कियद्वर्षास्मि भूतलेचिंतयंती च ददृशे सोमपुत्रेण साङ्गना ॥९३॥इलारूप समाक्षिप्त मनसा वरवर्णिनीबुधस्तदाप्तये यत्नमकरोत्कामपीडितः ॥९४॥विशिष्टाकारवान्मुंडी स कमंडलुपुस्तकःवेणुदंडकृतावेशः पवित्रक खनित्रकः ॥९५॥द्विजरूपः शिखी ब्रह्म निगदन्कर्णकुंडलीवटुभिश्चार्थिभिर्युक्तः समित्पुष्पकुशोदकैः ॥९६॥कालेन्विष्यां ततस्तस्मिन्नाजुहाव स तामिलाम्बहिर्वनस्यांतरितः किल पादपमंडपे ॥९७॥ससंभ्रममकस्माच्च सोपालंभमिवाभवत्त्यक्त्वाग्निहोत्रशुश्रूषां क्व गता मंदिरान्मम ॥९८॥इयं विहारवेला ते अतिक्रामति सांप्रतम्एह्येहि पृथुसुश्रोणि संभ्रांता केन हेतुना ॥९९॥इयं सायंतनी वेला विहारस्येह वर्त्ततेकृत्वोपलेपनं पुष्पैरलंकुरु गृहं मम ॥१००॥साब्रवीद्विस्मृताहं च सर्वमेव तपोधनआत्मानं त्वां च भर्त्तारं कुलं च वद मेनघ ॥१०१बुधः प्रोवाच तां तन्वीमिला त्वं वरवर्णिनीअहं च कामुको नाम बहुविद्यो बुधः स्मृतः ॥१०२॥तेजस्विनः कुले जातः पिता मे ब्राह्मणाधिपःइति सा तस्यवचनात्प्रविष्टा बुधमंदिरम् ॥१०३॥रत्नस्तंभसमाकीर्णं दिव्यमायाविनिर्मितम्इला कृतार्थमात्मानं मेने तद्भवने स्थिता ॥१०४॥अहो वृत्तमहोरूपमहो धनमहोकुलम्मम चास्य च भर्त्तुर्वा अहो लावण्यमुत्तमम् ॥१०५॥रेमे च सा तेन सममतिकालमिला वनेसर्वभोगमये गेहे यथेंद्रभवने तथा ॥१०६॥अथान्विष्यंतो राजानं भ्रातरस्तस्य मानवाःइक्ष्वाकुप्रमुखा जग्मुस्तदा शरवणांतिकम् ॥१०७ततस्ते ददृशुः सर्वे वडवामग्रतः स्थिताम्रत्नपर्यंतकिरणदीप्यमानामनुत्तमाम् ॥१०८॥संप्राप्य प्रत्यभिज्ञानात्सर्वे विस्मयमागताःअयं चंद्रप्रभो नाम वाजी तस्य महात्मनः ॥१०९॥अगमद्वडवारूपमुत्तमं केन हेतुनाततस्तु मैत्रावरुणिं पप्रच्छुः स्वपुरोहितम् ॥११०॥किमेतदित्यभूच्चित्रं वद योगविदां वरवसिष्ठोप्यब्रवीत्सर्वं दृष्ट्वा तं ध्यानचक्षुषा ॥१११॥समयः शंभुदयिता कृतः शरवणे पुरायः पुमान्प्रविशेच्चात्र स नारीत्वमवाप्स्यति ॥११२॥अयमश्वोपि नारीत्वमगाद्राज्ञा सहैव तुइलः पुरुषतामेति यथासौ धनदोपमः ॥११३॥तथैव यत्नः कर्त्तव्य आराध्य च पिनाकिनम्ततस्ते मानवा जग्मुर्यत्र देवो महेश्वरः ॥११४॥तुष्टवुर्विविधैः स्तोत्रैः पार्वतीपरमेश्वरौतावूचतुरलं चैष समयः किं नु सांप्रतं ॥११५॥इक्ष्वाकोरश्वमेधेन यत्फलं स्यात्तदावयोःदत्वा किंपुरुषो वीरः स भविष्यत्यसंशयम् ॥११६॥तथेत्युक्त्वा तु ते सर्वे जग्मुर्वैवस्वतात्मजाःइष्ट्वाश्वमेधेन तत इला किंपुरुषोभवत् ॥११७॥मासमेकं पुमान्वीरः स्त्रीत्वं मासमभूत्पुनःबुधस्य भवने तिष्ठन्निलो गर्भधरोभवत् ॥११८॥अजीजनत्पुत्रमेकमनेकगुणसंयुतम्बुध उत्पाद्य तं पूरुं स स्वर्गमगमत्पुनः ॥११९॥इलस्य नाम्ना तद्वर्षमिलावृतमभूत्तदासोमार्कवंशजो राजा इलोभूद्वंशवर्द्धनः ॥१२०॥एवं पुरूरवाः पूरोरभवद्वंशवर्द्धनःइक्ष्वाकुरर्कवंशस्य तथैवोक्तो नरेश्वरः ॥१२१॥इलः किंपुरुषत्वे च सुद्युम्न इति चोच्यतेपुनः पुत्रत्रयमभूत्सुद्युम्नस्यापराजितम् ॥१२२॥उत्कलोथ गयस्तद्वद्धरिताश्वश्च वीर्यवान्उत्कलस्योत्कला नाम गयस्य तु गयापुरी ॥१२३॥हरिताश्वस्य दिग्याम्या संज्ञाता कुरुभिः सहप्रतिष्ठानेभिषिच्याथ स पुरूरवसं सुतम् ॥१२४॥जगामेलावृतं भोक्तुं दिव्यं वर्षं फलाशनःइक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान् ॥१२५॥नरिष्यंतस्य पुत्रोभूच्छुको नाम महाबलःनाभागादंबरीषस्तु धृष्टस्य तु सुतत्रयम् ॥१२६॥धृष्टकेतुः स्वधर्माथो रणधृष्टश्च वीर्यवान्आनर्तो नाम शर्यातेः सुकन्या चैव दारिका ॥१२७॥आनर्तस्याभवत्पुत्रो रोचमानः प्रतापवान्आनर्तो नाम देशोभून्नगरी च कुशस्थली ॥१२८॥रोचमानस्य रेवोभूद्रेवाद्रैवत एव चककुद्मी चापरं नाम ज्येष्ठः पुत्रशतस्य च ॥१२९॥रेवती तस्य सा कन्या भार्या रामस्य विश्रुताकरूषाच्चैव कारूषा बहवः प्रथिता भुवि ॥१३०॥पृषध्रो गोवधाच्छूद्रो गुरुशापादजायतइक्ष्वाकुपुत्रा नाम्नाथ विकुक्षि निमिदंडकाः ॥१३१॥श्रेष्ठाः पुत्रशतस्यासन्पंचाशच्चाथ तत्सुताःमेरोरुत्तरतस्ते तु जाताः पार्थिवसत्तमाः ॥१३२॥चत्वारिंशत्तथाष्टान्ये शतमध्ये च येभवन्मेरोर्दक्षिणतश्चैव राजानस्ते प्रकीर्तिताः ॥१३३॥ज्येष्ठात्ककुत्स्थनामाभूत्सुतस्तस्य सुयोधनःतस्य पुत्रः पृथृर्नाम विश्वस्तस्य पृथोः सुतः ॥१३४॥आर्द्रस्तस्य च पुत्रोभूद्युवनाश्वस्ततोभवत्युवनाश्वस्य पुत्रोभूच्छावस्तो नाम वीर्यवान् ॥१३५॥निर्मिता येन शावस्ती ह्यंगदेशे नराधिपशावस्ताद्बृहदश्वो भूत्कुवलाश्वस्ततोभवत् ॥१३६॥धुंधुमारत्वमगमद्धुंधुं हत्वाऽसुरं पुरातस्य पुत्रास्त्रयो जाता दृढाश्वो घृणिरेव च ॥१३७॥कपिलाश्वश्च विख्यातो धौंधुमारिः प्रतापवान्दृढाश्वस्य प्रमोदस्तु हर्यश्वस्तस्य चात्मजः ॥१३८॥हर्यश्वस्य निकुंभोभूत्संहताश्वस्ततोभवत्अकृताश्वो रणाश्वश्च संहताश्व सुतावुभौ ॥१३९॥युवनाश्वो रणाश्वस्य मांधाता च ततोभवत्मांधातुः पुरुकुत्सोभूद्धर्मसेतुश्च पार्थिवः ॥१४०॥मुचुकुन्दश्च विख्यातश्शक्रमित्रः प्रतापवान्पुरुकुत्सस्य पुत्रोभूद्दुस्सहो नर्मदापतिः ॥१४१॥संभूतिस्तस्य पुत्रोभूत्त्रिधन्वा च ततोभवत्त्रिधन्वनः सुतो जातस्त्रय्यारुण इति स्मृतः ॥१४२॥तस्य सत्यव्रतो नाम तस्मात्सत्यरथः स्मृतःतस्य पुत्रो हरिश्चन्द्रो हरिश्चंद्राच्च रोहितः ॥१४३॥रोहताच्च वृको जातो वृकाद्बाहुरजायतसगरस्तस्य पुत्रोभूद्राजा परमधार्मिकः ॥१४४॥द्वे भार्ये सगरस्यापि प्रभा भानुमती तथाताभ्यामाराधितः पूर्वमौर्वाग्निः पुत्रकाम्यया ॥१४५॥और्वस्तुष्टस्तयोः प्रादाद्यथेष्टं वरमुत्तमम्एका षष्टिसहस्राणि सुतमेकं तथापरा ॥१४६॥अगृह्णाद्वंशकर्तारं प्रभाऽगृह्णाद्बहून्सुतान्एकं भानुमती पुत्रमगृह्णादसमंजसं ॥१४७॥ततः षष्टिसहस्राणि सुषुवे यादवी प्रभाखनंतः पृथिवीं दग्धा विष्णुना ये ऽश्वमार्गणे ॥१४८॥असमंजस्तु तनयो ह्यंशुमान्नाम विश्रुतःतस्य पुत्रो दिलीपस्तु दिलीपात्तु भगीरथः ॥१४९॥येन भागीरथी गङ्गा तपः कृत्वावतारिताभगीरथस्य तनयो नाभाग इति विश्रुतः ॥१५०॥नाभागस्यांबरीषोभूत्सिंधुद्वीपस्ततोभवत्तस्यायुतायुः पुत्रोभूदृतुपर्णस्ततोभवत् ॥१५१॥तस्य कल्माषपादस्तु सर्वकर्मा ततः स्मृतःतस्यानरण्यः पुत्रोभून्निघ्नस्तस्य सुतोभवत् ॥१५२॥निघ्नपुत्रावुभौ जातावनमित्र रघूत्तमौअनमित्रो वनमगादरिनाशकृते नृप ॥१५३॥रघोरभूद्दिलीपस्तु दिलीपाच्चाप्यजस्तथादीर्घबाहुरजाज्जातः प्रजापालस्ततोभवत् ॥१५४॥ततो दशरथो जातस्तस्य पुत्रचतुष्टयंनारायणात्मकाः सर्वे रामस्तस्याग्रजोभवत् ॥१५५॥रावणांतकरस्तद्वद्रघूणां वंशवर्द्धनःवाल्मीकिर्यस्य चरितं चक्रे भार्गवसत्तमः ॥१५६॥तस्य पुत्रः कुशो नाम इक्ष्वाकुकुलवर्द्धनःअतिथिस्तु कुशाज्जातो निषधस्तस्य चात्मजः ॥१५७॥नलस्तु निषधाज्जातो नभास्तस्मादजायतनभसः पुंडरीकोभूत्क्षेमधन्वा ततः परम् ॥१५८॥तस्यपुत्रोभवद्वीरो देवानीकः प्रतापवान्अहीनगुस्तस्य सुतः सहस्राश्वस्ततः परः ॥१५९॥ततश्चंद्रावलोकस्तु तारापीडस्ततोभवत्तस्यात्मजश्चन्द्रगिरिश्चंद्रस्तस्य सुतोभवत् ॥१६०॥श्रुतायुरभवत्तस्माद्भारते यो निपातितःनलौ द्वावेव विख्यातौ वंशे यस्य विशेषतः ॥१६१॥वीरसेनसुतस्तद्वन्नैषधश्च नराधिपःएते विवस्वतो वंशे राजानो भूरिदक्षिणाः ॥१६२॥इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः ॥१६३॥इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे आदित्यवंशकथनंनामाष्टमोध्यायः ॥८॥ N/A References : N/A Last Updated : October 25, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP